SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ खरतरगच्छालंकार ७३. सं० १३३४ मार्ग सुदि १३, रत्नवृष्टिगणिन्याः प्रवर्तिनीपदम् । श्री भीमपल्ल्यां वैशाख वदि ५, श्रीनेमि नाथ-श्रीपार्श्वनाथविम्बयोः, श्रीजिनदत्तसूरिमूर्ते, श्री शान्तिनाथदेव गृहध्वजादण्डस्य च सा० राजदेवेन, श्रीगौतमस्खामिमूर्त्तेः सा० वयजलेन, प्रतिष्ठा महोत्सवः सर्वसमुदाय मेल केन महामहोत्सवेन कारितः । वैशाख वदि ९ मङ्गलकलसाधोदक्षा | ज्येष्ठ सुदि २, बाडमेरौ बिहारः । सं० १३३५ मार्ग० वदि ४, पद्मकीर्ति - सुधाकलश-तिलककीर्तिलक्ष्मीकलश- नेमिप्रभ–हेमतिलक - नेमितिलकसाधूनां विस्तरेण दीक्षा | ५६ ७४ पौष सुदि ९, श्रीचित्रकूटे विहारः । तस्मिथ दिने सौवर्णिकधान्धल- तत्पुत्र भां० बाहडश्रावकाभ्यां सकलराजलोकसकलनागरिकलोके......सविस्तरः प्रवेशकमहोत्सवः कारितः । फाल्गुन वदि ५, श्रीसमरसिंहमहाराजरामराज्ये प्रत्यासन्ननगर ग्राम समुदाय मेलापके समस्त ब्रह्मलोक - जटाधर - राजपुत्र - प्रधानक्षेत्र सिंह - कर्णराज प्रमुख राजलोकनागरिलोकेषु मध्येभूय महोत्सवं कुर्वाणेषु सर्वदेवगृहसत्केषु एकादशसु मेघाडम्बर- छत्रेषु जनितशोभातिशयेषु स्थाने स्थाने व्याप्तदिगन्तेषु समुच्छलद्वादशविधनान्दीनिनादेषु सम्पूर्णविश्वमनोरथविताने यथेच्छं प्रवर्तमाने दाने जगन्मनश्चमत्कारकारिजलयात्रापूर्वं चतुरशीतौ श्रीमुनिसुव्रतस्वामि- युगादिदेव - अजितनाथ - वासुपूज्य विम्बानाम्, श्रीमहावीरसमवसरणस्य, सा० धनचन्द्रसुत सा० समुद्धारकारित श्रीपू ( स्व ? ) र्णगिरि श्री शान्तिनाथविधिचैत्यसंस्थित श्रीशान्तिनाथपित्तलामय समवसरणस्य, अन्यासां बहूनां प्रतिमानां शाम्बमूर्त्ति - दण्डाष्टकस्य च विधिमार्गजयजयारवकारकः सविस्तरं प्रतिष्ठामहोत्सवः संजातः । तस्मिन्नेव दिने चतुरशीतौ श्रीयुगादिदेव - श्रीनेमिनाथयो ः स्थापना | फाल्गुन सुदि ५ चतुरशीत श्रीयुगादिदेव - श्रीनमिनाथ - श्रीपार्श्वनाथानां शाम्ब-प्रद्युम्नमुन्योरभ्विकायाच प्रासादेषु चक्क (त्व ? ) रहट्टी अम्बिकायाश्च ध्वजारोपमहोत्सवः सकलराज्यधुराधरणधौरेय राजपुत्र श्रीअर सिंहसान्निध्यात् तीर्थप्रोत्सर्पणाकारी सम्पन्नः । एते च सर्वे महामहोत्सवाः सौवर्णिकधान्धल - तत्पुत्ररत्नभा० बाहडाभ्यां सकलसमुदायसहिताभ्यां प्रभूतस्वस्वापतेय सफलीकरणेन कारिताः । वद्रदहाग्रामे श्रीजिनदत्तसूरिप्रतिष्ठिते श्रीपार्श्वनाथविधिचैत्ये सा० आह्राकेन महण - झाझणादिपुत्रसहितेन कृतनवोद्धारे चित्रकूटे प्रतिष्ठितस्य दण्डस्य, फाल्गुन सुदि १४, विस्तरेणाध्यारोपः संजातः । जाहेडाग्रामे चैत्र सुदि १३, सम्यक्त्वारोपादिनन्दिमहोत्सवः सा० सोमलश्रावण सा० कुमरप्रभृतिस्वकुटुम्ब सहितेन सविस्तरः कारितः । वरडियास्थाने, वैशाख वदि ६, श्रीपुण्डरीक - श्री गौतमस्वामि- प्रद्युम्नमुनि - जिनवल्लभसूरि - जिनदत्तसूरि-जिनेश्वरसूरिमूर्तीनां सरस्वत्याश्च सविस्तरजलयात्रापूर्व विस्तरेण निर्विघ्नं प्रतिष्ठा महोत्सवः, वैशाख वदि ७, मोहविजय - मुनिवल्लमोदीक्षा, हेमप्रभगणेर्वाचनाचार्यपदं च संपन्नानि । ७५. सं० १३३६ ज्येष्ठसुदि ९ श्रीमत्पूज्यैर्युगप्रधान श्री आर्यरक्षितचरित्रं संस्मरद्भिः स्वपितुः साधुश्रीचन्द्रस्य प्रान्त्यसमयं विज्ञाय श्रीचित्रकूटान्महता वेगेन श्रीप्रह्लादनपुरे समागत्य तद्भाग्याकृष्टदेवपत्तनीयाद्यनेककोमलसंघमहामेलापकेन दीनानाथमनोमनोरथान् पूरयतः सप्तक्षेत्र्यां स्वं स्वं सफलीकुर्वतः प्रभूतवसुदानप्रदानेन द्वादशविधनान्दीनिनादवाद विवादयतः, अनवरत शुद्धशीलालङ्कारधारकस्य, पुण्यरागाङ्गरागसुरभीकृताङ्गस्य, नानाविधस्वाध्यायरसताम्बूलेन सुभगस्य, सा० श्रीचन्द्रपरम श्रावकस्य संयमश्रीः प्रदत्ता । तेन च पुण्यात्मना प्रकटित पुरोहितसोमदेवचरित्रेण प्रतिक्षणं वर्धमानसंवेगरसेन उच्चण्डव्यावलात् (?) करवालजालोपममपुण्यवतां दुष्प्रापं व्रतं प्राप्य सप्तदशभिर्वासरप्रहारिनिदलित सप्तदशविधासंयम महासुभटेन निरतिचारप्रतिपालित कृतप्रान्त्यप्रत्याख्यानेन कृतनवनवाराधनामृतपानेन अपूर्वचारित्रेण जगत्रयचित्रायता स्तम्भतीर्थीयाद्यनेकसंघानां वन्दारुभव्यजनवृन्दान् स्वकुलप्रासादसौवर्णकलशेन महामुनिना श्री कलशेन श्रीपञ्चपरमेष्ठिमहामत्रपरमध्याने सोपानश्रेण्या रोहेण स्वर्गाङ्गगहर्म्याङ्गणमलञ्चक्रे | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002780
Book TitleKhartar Gacchha Bruhad Gurvavali
Original Sutra AuthorJinpal Upadhyaya
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1956
Total Pages148
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy