SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ युगप्रधानाचार्यगुर्वावली । ७६. सं० १३३७ वैशाख वदि ९ श्रीमञ्जिनप्रबोधसूरि सुगुरुभिः श्रीसकल गूर्जरत्रापुरवरं श्रीवीजापुरं स्वचरणविचरणैः पावनीचक्रे । तस्मिंश्च सुवासरे सा० मोहन श्रेष्ठि आसपालप्रमुखसमस्तसमुदायेन मत्रिविन्ध्यादित्य-ठ० उदयदेवभां॰लक्ष्मीधरप्रमुखराज्यधुरन्धरसकलनागरिकमहाजनमेलापकेन व्याप्तरोदसीरन्ध्रेषु विविधजनजनितानन्देषु, द्वादशविधनादीनिनादेषु जृम्भमाणेषु नानाविधविलासिनीजनवारेण स्थाने स्थाने प्रवरप्रेक्षणीयकेषु क्रियमाणेषु, उदात्तखरेण दानावर्जितभट्टलोकादिषु पठत्सु सत्सु, उत्तमदेशनानिनादानन्दितैर्मन्त्रिविन्ध्यादित्य-ठक्कुरोदय देवप्रमुखराज पुरुष कुञ्जरैः संस्तूयमानानां धृतश्वेतातपत्र जिनेश्वरानुगानां सकलनगरमध्ये देवाधिदेवान् नमस्कुर्वाणानां श्रीमत्पूज्यानां महामिथ्याखोत्कटतयाऽदृष्टपूर्वत्वात् सकलपौर पुरन्ध्रीजनमनः क्षोभावहो नानाविधयाचकजनानां मनोऽभिलाषपुरको विविधभव्यप्राणिमनोहारको लीलयैव निर्दलित विभैः (नः) लोकोत्तरः प्रभूतस्वस्वापतेय सफलीकरणेन सरङ्गः प्रवेशकमहामहोन्सवः कारितः। ७७. तथा ज्येष्ठ वदि ४ शुक्रे, श्रीसारङ्गदेव महाराजाधिराजरामराज्ये विजयमाने महामात्य मल्लदेव प्रतिशरीरमं०विन्ध्यादित्ये शास्तरि सकलपृथ्वीतलसार श्रीगूर्जरत्रावनितानानापुरालङ्कारकिरीटायमानश्रीवीजापुरस्य माणिक्यभूते श्रीवासुपूज्यविधिचैत्ये अहमहमिकया नानाविधदेशसमायात महर्द्धिकसंघमहामेलापकेषु, याचमानजनेन वाद्यमानदीअनान्दीनिनादविवाद प्रारब्ध कोलाहलपरिपूर्यमाणेषु दिगङ्गनाकर्णकोटरेषु, हर्षाङ्कुरपूरपूरितमनोमङ्गलपाठकजन पठ्यमानविरुदावली परः सहस्रेषु, स्थाने स्थाने प्रमुदितजनेन दीयमानेषु प्रधानरासकेषु, नानाविपणिमार्गेषु गीयमानेषु विविधप्रवरचच्चरीश्रेणिशतेषु, मथितमहा मिथ्यात्वप्रबलमहामोहादिसुभटेषु जिनशासनमहाराजशास्त्रेषु, छत्रत्रयचामरालम्बादिषु अग्रतो त्रियमाणेषु, पुरोवत्तिमहामन्त्रिविन्ध्यादित्य - ठ० उदयदेवप्रमुखराज्य धुरन्धरैर्महामहोत्सवेषु स्वयं कार्यमाघणेषु, कौतुकाक्षिप्तविविधपौरजनसमाजैः स्थगितनानाप्रकारनिगम गृहभित्तिमालाङ्घालदेव कुलवितानेषु, सकलावनीतलचमत्कारकारी भव्य लोकजनमनोहारी अभूतपूर्वो जलानयनमहोत्सवः सरङ्गः सम्पन्नः । द्वितीयदिने तथैव महामहो - त्सवेषु संजायमानेषु, अवारितशत्रेषु क्रियमाणेषु, अमारिघोषणायां प्रवर्तमानायां चतुर्विंशतिश्रीजिनालयबिम्बानां ध्वजदण्डानां च, जोयलानिमित्तं श्रीपार्श्वनाथस्य, अन्येषां प्रभूतबिम्बानां भूयिष्ठप्रतिमानां च श्रीवृत्तप्रबोध - श्रीपञ्जिकाप्रबोध - श्रीबौद्धाधिकार विवरणादिश्रीमत्पूज्योपज्ञसुग्रन्थदर्शनोदित चित्तेन तुरग पदचिन्तितसमस्याऽनुलोमप्रतिलोमाद्यनेकभङ्गिकथित श्लोक कथनाद्यने कावधानप्रतिपादनचञ्चुना कृष्णपण्डितेन क्षणे प्रतिदिनमनेकपण्डितगोष्ठ्या मन्त्रिविन्ध्यादित्यादिसभासु च नानावृत्तैः पवित्रैः संस्तूयमानश्रीमत्पूज्य निष्प्रतिम ध्यानाधिरोह प्ररोह शतकोटिकोटिना निर्दलित कलिकालानुभाव किश्चिदुत्थित प्रत्यूहसमूहशैलो विधिमार्गजयजयारवपूर्वकः सरङ्गः सप्रभावः प्रतिष्ठामहोत्सवः समजनिष्ट। एते सर्वेऽपि महोत्सवाः सा० मोहण श्रेष्ठआसपालप्रभृतिसकलसंघैर्लक्षसंख्यस्वकीयासारसंसारसारसफलीकरणेन कारिताः । अस्मिन् महसि श्रीवासुपूज्य विधिचैत्ये द्रं० सहस्र ३० उत्पन्नाः । द्वादश्यामानन्दमूर्त्तिपुण्य मूर्त्तिमुन्योर्दीक्षादान महोत्सवः सम्पन्नः । ५७ ७८. सं०१३३९ फाल्गुन सुदि ५, मंत्रिपूर्णसिंह - भां० राजा - गो० जिस हड देवसीह - मोहाप्रमुख श्री जावालिपुरीय सर्वसंघेन श्रीप्रह्लादनपुरीय - श्रीवीजापुरीय - श्री श्रीमालपुरीय - रामशयनीय - श्रीशम्यानयनीय - श्रीवाग्भटमेरवीय-श्रीरत्नपुरीयानेकनगरग्रामशकटपञ्चशतीमेलापकैरनधैः सर्वविधिमार्गसंधैः सह प्रस्थाय श्रीजिनरत्नाचार्य - देवाचार्य-वाचनाचार्य विवेकसमुद्रगणिप्रमुखनानामुनिमतल्लिको दग्र निकर विराजमानैः, उच्छेदयद्भिः सकलानि तमःपटलानि, विकाशयद्भिः समस्तजनतावदनकुमुदकाननानि कुर्वद्भिर्वाक्यसुधावृष्ट्या परमनिर्वृतिलक्ष्मीं समस्तजननयनचकोरनिकरस्य, युगप्रधान श्रीजिनप्रबोधसूरि सुगुरुराजपादैः पावित्र्यभाजा, प्रतिपुरं प्रतिग्रामं विधिमार्गजयजयाकारकारिणं स्वकीयं विभवं सफलयता फाल्गुन चतुर्मास के सर्वविश्वसारे सकलवसुधातलवर्त्तिरामणीयकाधारे श्री अर्बुदगिरीन्द्रवरे श्रीयु यु० गु० ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002780
Book TitleKhartar Gacchha Bruhad Gurvavali
Original Sutra AuthorJinpal Upadhyaya
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1956
Total Pages148
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy