SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ५८ खरतरगच्छालंकार गादिदेव-श्रीनेमिनाथतीर्थचक्रिणौ नमश्चक्राते । ततो विस्मृतगृहप्राग्भारेण हर्षाङ्करपूरितशरीरेण समस्तश्रीसंघेन सर्वस्वापतेयसारपुण्यानुबन्धिपुण्यसारोपार्जनया त्रैलोक्योपरि स्वं मन्यमानेन श्रीइन्द्रपदादिभिः सर्वमहोभिः सुदिनेष्वष्टसु दिनेषु द्युम्नस्योद्देशतः सप्त सहस्राणि सफलीचक्रिरे। तदनन्तरं श्रीमत्पूज्यप्रसादात् सफलीकृतनिजजन्मवैभवो दलितदुर्गतिसंभवः सम्पूर्णाखर्वसर्वमनोरथः श्रीजावालिपुरे सम्पन्नमहाप्रवेशकमहोत्सवः क्षेमेण सर्वोऽपि संघः प्राविशत । ___७९. तस्मिन्नेव वत्सरे ज्येष्ठ वदि ४, जगचन्द्रमुनिः कुमुदलक्ष्मी-भुवनलक्ष्मीसाध्व्यौ च दीक्षिताः । पञ्चम्यां चन्दनसुन्दरीगणिन्या महत्तरापदं प्रदत्तं तस्याश्च श्रीचन्दनश्रीरिति नाम जज्ञे । ततः संमुखीनायातश्रीसोममहाराजाभ्यर्थनया श्रीशम्यानयने चतुर्मासी विधाय, अतुलबलक्षोणिपालमालामौलिमाणिक्यकिरणकदम्बपानीयपूरप्लुतचरणकमलानां सम्पादितभव्यभव्यलोकनिरुपमसम्यक्त्वकमलानां सकलसैन्यपरिवारपरिकलितसंमुखायातप्रमुदितश्रीकर्णमहानरेन्द्राणां श्रीजिनप्रबोधमूरिमुनीन्द्राणां श्रीजेसलमेरौ सं०१३४० फाल्गुनचतुर्मासके महता विस्तरेण प्रवेशकमहोत्सवः समपनीपद्यत । तत्र च वैशाखसुदिअक्षततृतीयादिने श्रीउच्चापुरीय-श्रीविक्रमपुरीय-श्रीजावालिपुरीयाद्यनेकसंघमेलापकेन सर्वसमुदायसहिताभ्यां सान्नेमिकुमार-सा गणदेवाभ्यां महा कृतसर्वमहोत्सवाभ्यां चतुर्विंशतिजिनालयस्याष्टापदादेश्च बिम्बानां धजदण्डानां च गरिष्ठप्रतिष्ठामहोत्सवः कारितः सर्वमहोत्सवैः । श्रीदेवगृहायपदे दं० सहस्र ६ समुत्पन्नाः । ज्येष्ठ वदि ४, मेरुकलशमुनि-धर्मकलशमुनि-लब्धिकलशमुनीनां पुण्यसुन्दरी-रत्नसुन्दरी-भुवनसुन्दरी-हर्षसुन्दरीसाध्वीनां दीक्षामहोत्सव उत्पेदे । श्रीकर्णदेवमहाराजोपरोधेन चतुर्मासी तत्रैव विधाय नानाविधधर्मदेशनया सकलनगरलोकस्य चित्तेषु चमत्कारमुत्पाद्य श्रीविक्रमपुरसमुदायगाढाभ्यर्थनया युगप्रधानश्रीजिनदत्तसूरिसंस्थापितं मरुस्थलीकल्पद्रुमं श्रीमहावीरवस्तीर्थं महता विस्तरेण श्रीविक्रमपुरे प्रविश्य जिनप्रबोधसूरयो वन्दितवन्तः । तत्र श्रीउच्चापुरीय-श्रीमरुकोट्टीयप्रभृतिनानासमुदायमेलके श्रीमहावीरविधिचैत्ये महता विस्तरेण सम्यक्त्वारोप-मालारोपण-दीक्षादानादिमहानन्दिमहोत्सवः सं०१३४१ फाल्गुनकृष्णैकादश्यां श्रीजिनप्रबोधसूरिभिश्चक्रे । तत्र च नन्दिमहोत्सवे विनयसुन्दर-सोमसुन्दर-लब्धिसुन्दर-चन्द्रमूर्ति-मेघसुन्दरनामानः क्षुल्लकाः पञ्च, धर्मप्रभा-देवप्रभाख्ये क्षुल्लिके द्वे च संजाते। तत्र च श्रीमहावीरतीर्थ प्रभावयतां ज्ञानध्यानबलेन समस्तजनमनःस्वाश्चर्यमुत्पादयतां स्वपक्ष-परपक्षाराध्यमानचरणानां पवित्रचरणानां श्रीपूज्यानां महान् दाहज्वरः संजातः । ततो ध्यानबलेन वायुःपरिमाणं स्वल्पं सम्यक् परिज्ञायाविच्छिन्नप्रयाणैः श्रीपूज्याः श्रीजावालिपुरे समायाताः । तत्र च सकललोकचमत्कारकारिणि श्रीवर्धमानखामिनो महातीर्थे वाद्यमानेषु द्वादशविधनान्दीतूर्येषु, गीयमानेषु प्रवरगीतेषु, दीयमानेषु धवलेषु, नृत्यमानासु प्रवरपुराङ्गनासु, वितीयमाणेषु दीनानाथदुःस्थितानां महादानेषु, मिलितेषु नानापुरग्रामसंघेषु, नानाविधावदातानुकृतपूवसूरिभिः श्रीजिनप्रबोधसूरिभिः, सद्रूपलक्ष्मीतर्जितकलाकेलयः समस्तभव्याम्बुजप्रकाशनहेलयो नानागुणरत्ननिधयः प्रवरगभीरिमाधरीकृतवार्धयः श्रीजिनचन्द्रसूरयः सं० १३४१ श्रीयुगादिदेवपारणकपवित्रितायां वैशाखशुक्लाक्षततृतीयायां स्वपदे महाविस्तरेण स्थापिताः। तस्मिन्नेव दिने राजशेखरगणेर्वाचनाचार्यपदं प्रदत्तम् । ततश्चाष्टम्यां श्रीमत्पूज्यैः सकलसंघेन सह विस्तरेण मिथ्यादुष्कृतं दत्तम् । ततश्च दिने दिने वर्धमानशुभभावादिज्ञातसांसारिकभावानित्यस्वभावाः सुसाधुभिर्निरन्तरं श्राव्यमाणसमाराधनाः सम्यग्विहितश्रीदेवगुरुपादपद्माराधनाः सज्ज्ञानलक्ष्मीकण्ठकन्दलहाराः स्ववदनकमलोच्चारितपञ्चपरमेष्ठिनमस्काराः कीर्तिधवलितक्षोगयः श्रीजिनप्रबोधसूरयो राधशुक्लैकादश्यां खर्गाङ्गणभूषणा बभूवुः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002780
Book TitleKhartar Gacchha Bruhad Gurvavali
Original Sutra AuthorJinpal Upadhyaya
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1956
Total Pages148
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy