________________
युगप्रधानाचार्यगुर्वावली। ८०.तदनन्तरं सं०१३४२ वैशाखशुक्लदशम्यां,श्रीजावालिपुरे श्रीमहावीरविधिचैत्ये श्रीजिनचन्द्रसूरिभिर्महामहोत्सवेन प्रीतिचन्द्र-सुखकीर्तिनामकं क्षुल्लकद्वयं जयमञ्जरी-रत्नमञ्जरी-शीलमञ्जरीनामकं क्षुल्लिकात्रयं च विहितम् । तस्मिन्नेव दिने वाचनाचार्यमिश्राणां विवेकसमुद्रगणीनामभिषेकपदम् ,सर्वराजगणेर्वाचनाचार्यपदम् ,बुद्धिसमृद्धिगणिन्याश्च प्रवत्तिनीपदं च प्रदत्तम् । सप्तम्यां च सम्यक्त्वारोप-मालारोपण-सामायिकारोप-साधुसाध्वीउत्थापनानन्दिमहोत्सवश्चक्रे । ___ तथा ज्येष्ठकृष्णनवम्यां साधुराजक्षेमसिंहेन कारितस्य रत्नमयस्य श्रीअजितस्वामिबिम्बस्य सप्तविंशत्यङ्गुलप्रमाणस्य तेनैव कारितानां श्रीयुगादिदेव-श्रीनेमिनाथ-श्रीपार्श्वनाथविम्बानां च, महामं० देदाकारितश्रीयुगादिदेव-श्रीनेमिनाथ-श्रीपार्श्वनाथविम्बानाम् , भाण्डागारिकछाहडकारितस्य श्रीशान्तिनाथबिम्बस्य महत्तमस्य, वैद्यदेहडिकारिताष्टापदध्वजादण्डस्य, अन्येषां च बहूनां बिम्बानां महता विस्तरेण श्रीसामन्तसिंहविजयराज्ये सकललोकमनश्चमकारी निःशेपपापहारी श्रीजिनचन्द्रसूरिभिः प्रतिष्ठामहोत्सवो विहितः । अस्मिन् प्रतिष्ठामहोत्सवे विशेषतोऽतिप्रसन्नश्रीसामन्तसिंहमहाराजसान्निध्येन सकलस्वपक्ष-परपक्षाह्लादकः सकलविधिमागप्रोत्सर्पणामुत्पादकः प्रभूततरद्रव्यसफलीकरणेन सा० क्षेमसिंहप्रमुखसमस्तश्रावकैविधिमार्गप्रभावकेः प्रमोदभरमेदुरैः सद्भावनाबन्धुरैः श्रीइन्द्रमहोत्सव: कारितः । ज्येष्ठकृष्णैकादश्यां च वा०देवमूर्तिगणेः श्रीअभिषेकपदं मालारोपणादिनन्दिमहोत्सवश्च संजातः ।
सं० १३४४ श्रीजावालिपुरे श्रीमहावीरविधिचैत्ये मार्गशीर्ष सुदि १०, सा० कुमारपाल पु०पं० स्थिरकीतिंगणेः श्रीजिनचन्द्रसूरिभिर्विस्तरेण आचार्यपदं दत्तम्-श्रीदिवाकराचार्या इति नाम ।
सं० १३४५ आषाढ सुदि ३, मतिचन्द्र-धर्मकीयोर्दीक्षा । वैशाख वदि १, पुण्यतिलक-भुवनतिलकयोश्चारित्रलक्ष्मीसाव्याश्च दीक्षा । राजदर्शनगणेर्वाचनाचार्यपदं च ।
सं० १३४६ माघ वदि १, सा० क्षेमसिंहभा०(भ्रा०? ) वाहडकारितस्वर्णगिरि[स्थ] श्रीचन्द्रप्रभस्वामिदेवगृहपार्श्वस्थितयोः श्रीयुगादिदेव-श्रीनेमिनाथबिम्बयोमण्डपखातकेषु च समेतशिखरविंशतिबिम्बानां च स्थापनामहोत्सवः । फाल्गुन सुदि ८, सा० बाहड-भां० भीमा-भां० जगसिंह-भां० खेतसिंहसुश्रावककारिते प्रासादे श्रीशम्यानयने चाहड (चाह ?) मानाह्वयवंशे श्रीसोमेश्वरमहाराजकारितविस्तरप्रवेशमहोत्सवस्य श्रीशान्तिनाथदेवस्य विस्तरेण स्थापनामहोत्सवः । देववल्लभ-चारित्रतिलक-कुशलकीर्तिसाधूनां रत्नश्रीसाध्याश्च दीक्षा । मालारोपणादिमहोत्सवश्च । चैत्र सुदि १, श्रीप्रह्लादनपुरे सर्वत्र आहट्टोचितपताकोत्तरे निःस्वानेषु वाद्यमानेषु मं० माधवप्रमुखसकलनगरलोकसंमुखागमनपूर्व सा० अभयचन्द्रप्रमुखसमुदायेन प्रवेशमहोत्सवः कारितः । वैशाख वदि १४, श्रीभीमपल्लयां श्रीप्रह्लादनपुरवत्प्रवेशमहोत्सवः । वैशाख सुदि७, सा० अभयचन्द्रकारिताद्भुतशिलमयश्रीयुगादिदेवबिम्ब-श्रीचतुर्विंशतिजिनालयचतुर्विंशतिबिम्ब-इन्द्रध्वज-श्रीअनन्तनाथदण्डध्वज-श्रीजिनप्रबोधसूरिस्तूप-मूत्ति दण्डध्वजानेकशिलमयपित्तलामयबिम्बानां विस्तरेण प्रतिष्ठामहोत्सवश्च । ज्येष्ठ वदि ७, नरचन्द्र-राजचन्द्र-मुनिचन्द्र-पुण्यचन्द्रसाधूनां मुक्तिलक्ष्मीमुक्तिश्रीसाध्व्योश्च महाप्रभावनापूर्व दीक्षा च । ___सं० १३४७ मार्गशीर्ष सुदि ६, श्रीप्रह्लादनपुरे सुमतिकीर्तिदीक्षा, नरचन्द्रादिसाधुसाध्वीनामुपस्थापना-मालारोपणादिमहोत्सवश्च । ततो मार्गशीर्ष सुदि १४, खदिरालुकायां स्थाने स्थाने तलिकातोरणालङ्कृतायां मं० चण्डापुत्र मं० सहणपालेन सकलमहाजनपरिग्रहब्राह्मणादिमेलापकेन प्रवेशमहोत्सवः कारितः । मं० सहणपालेन समस्तसंघमेलापकेन श्रीतारणगढतीर्थालङ्कारश्रीअजितस्वामितीर्थयात्रा कारिता । पौष वदि ५, श्रीवीजापुरीय सा० लखमसिंह-श्रे० आसपालप्रमुखसमुदायेन खदिरालुकावत्प्रवेशमहोत्सवः कारितः । श्रीजावालिपुरे श्रीजिनप्रबोधसूरिस्तूपे मूर्तिस्थापनामहोत्सवो दण्डध्वजारोपमहोत्सवश्च माघ सुदि ११ सा० अभयचन्द्रेण कारितः । चैत्र वदि ६, श्रीवीजापुरे अमररत्न-पद्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org