Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
२७
युगप्रधानाचार्यगुर्वावली। कृता । तत्रापि नन्दयः पूर्ववत् । सं० १२७५ जावालिपुरे ज्येष्ठसुदि १२ भुवनश्रीगणिनी-जगमति-मङ्गलश्रीसाध्वीत्रयेणसह विमलचन्द्रगणि-पद्मदेवगणी दीक्षितौ । सं० १२७७ श्रीप्रह्लादनपुरे प्रभूताः प्रभावनाः कृता । अन्यदा नाभ्यधस्तनप्रदेशोद्भूतग्रन्थिदोषोत्थितवेदनावशसंजातमूत्रसंग्रहरोगसत्ककष्टादात्मन आयुषो गमनमवगम्य श्रीपूज्यैर्दत्ता यथोचिता शिक्षा चतुर्विधस्यापि संघस्य । मिथ्यादुष्कृतं च दत्त्वा भणितं च संघस्याग्रे-'संघेन मनोमध्ये काऽप्यनिवृतिन कार्या-यझोरिदानी कथं भविष्यति,यतो येषां प्राणेनानेकैलोकैः सममास्फाल्यास्फाल्योक्तं ते देवीभूता इति । यतः पश्चादपि श्रीसर्वदेवसूरि-श्रीजिनहितोपाध्याय-श्रीजिनपालोपाध्याया वयमिव सर्वेषामप्युत्तरं दातुं क्षमाः, युष्माकं मनोरथान् पूरयितुं समर्थाः सन्ति । तथा वाचनाचायसरप्रभ-कीर्तिचन्द्र-वीरप्रभगणि-सुमतिगणिनामानश्चत्वारः शिष्या महाप्रधाना निष्पन्ना वर्तन्ते । येषामेकैकोऽप्याकाशस्य पततो धरणे क्षमः । परमस्माकं खकीयपदयोग्यं परिभावयतां वीरप्रभगणिः समागच्छति । वयमपि सास्प्रतं साबाधा वर्तामहे । अतो यदि संघः कथयति तदिदानीमपि स्वकीयपदे वीरप्रभगणिमुपवेशयामः' । शोकहर्षप्रकर्षाकुलचित्तेन संपेन विज्ञप्ताः श्रीपूज्याः, यथा-'स्वामिन् ! ययुष्माकं परिभावयतां समागच्छति तदस्माकं प्रमाणम् , परमिदानीमौत्सुक्येन क्रियमाणमाचार्यपदस्थापनमतिशोभायुक्तं न संभाव्यते । अतो यदि युष्माकं निरोपो भवति तदात्रत्यसमुदायलेखदर्शनसमागतसमस्तदेशवास्तव्यखरतरसमुदायैरानन्दभरेण स्थाने विधीयमानासु महतीपूत्सपिणीषु वीरप्रभगणेराचार्यपदस्थापना महाविस्तरेण कार्यते । श्रीपूज्यैरुक्तम्-'यत्समुदायस्य पालोचयतः समागच्छति तत्प्रमाणम्' । तदनन्तरं समस्तलोकक्षमितक्षामणपूर्वकमनशनविधिना निखिललोकचेतसि चमत्कारं कृता [सं० १२७७ आषाढ सुदि १०] दिवं गताः श्रीजिनपतिसूरयः।
६५. तदनन्तरं श्रीपूज्यविरहोच्छलितपरमदुःखेन शून्यान्तःकरणेनापि पाश्चात्य[कृत्य] कृते श्रीपूज्याननेकमण्डपिकामण्डिते विमानेऽध्यारोप्य स्थाने स्थाने च वारविलासिनीभिस्तत्कालसुखदेन वरेण हृदयार्दीकरणप्रवीणमेघरागादिशोकरागेण दैवोपालम्भाद्यर्थनिबन्धनमधुमधुरेपु गीतेषु गीयमानेषु उच्छाल्यमानेषु च नानाविधेषु बहुषु वनफलेपु, पञ्चशब्देषु च वाद्यमानेषु नेतुमारेभे समस्तलोकसहितेन चतुर्विधेन संघेन । ___ अत्रान्तरे कणपीठमध्ये सावाधशरीरश्रीपूज्यवार्ताश्रवणादुत्तालीभूय जावालिपुरादागतः प्रधानसाधुसहितः श्रीजिनहितोपाध्यायः । स च तत्र तादृगवस्थान् श्रीपूज्यानवलोक्य शोकभरविह्वलीभवन्मानसेन श्रीपूज्यगुणगणमरणपूर्वक नानाप्रकारान् विलापान कृतु प्रवृत्तः । यथा
श्रीजिनशासनकाननसंवद्धिविलासलालसे वसता। हा श्रीजिनपतिसूरे !, किमेतदसमञ्जसमवेक्षे ? ॥
[५९] जिनपतिसूरे ! भवता श्रीपृथ्वीराजनृपसदासरसि। पद्मप्रभासिवदने नारमिव जयश्रिया सार्धम् ॥ मथितप्रथितप्रतिवादिजातजलधेः प्रभो ! समुदृत्य । श्रीलंघमनःकुण्डे न्यधात् त्वमानन्दपीयूषम् ।। बुधबुद्धिचक्रवाकी षट्तर्कासरिति तर्कचक्रेण । क्रीडति यथेच्छ मुदिते जिनपतिसूरे ! त्वयि दिनेशे॥ तव दिव्यकाव्यदृष्टावेकविधं सौमनस्यमुल्लसति । द्राक् सुमनसां च तत्प्रतिपक्षाणां च प्रभो ! चित्रम् ॥ धातुविभक्त्यनपेक्षं क्रियाकलापं त्वनन्यसाध्यमपि । यं साधयत् जिनपते ! चमत्कृते कस्य नो जातः ॥
[६४]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9db7f3594422535ac265b85d6ec89f7c7b865669b041da094d47d8052f595cad.jpg)
Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148