Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 71
________________ खरतरगच्छालंकार ६०. ततः संघेन सह लवणखेटे प्रभूताः श्रीपूज्याः । तत्र च पूर्णदेवगणि-मानचन्द्रगणि-गुणभद्रगणीनां क्रमेण दत्तं वाचनाचार्यपदम् । सं० १२४५ फाल्गुने पुष्करिण्यां धर्मदेव-कुलचन्द्र-सहदेव-सोमप्रम-सूरप्रभ-कीर्तिचन्द्रश्रीप्रभ-सिद्धसेन-रामदेव-चन्द्रप्रभाणां संयमश्री-शान्तमति-रत्नमतीनां च दीक्षा दत्ता। सं० १२४६ श्रीपत्तने श्रीमहावीरप्रतिमा स्थापिता । सं० १२४७, (?) सं० १२४८ लवणखेटे जिनहितस्योपाध्यायपदं प्रदत्तं । सं० १२४९ पुष्करिण्यां मलयचन्द्रो दीक्षितः। सं० १२५० विक्रमपुरे पद्मप्रभसाधोराचार्यपदं दत्तं-श्रीसर्वदेवमूरिरिति नाम कलम् । सं० २२-१ माण्डपपुरे च्यवहारकलक्ष्मीधरादिप्रभूतश्रावकाणां मालारोपणादि विस्तरेण कृतम। ६१. ततोऽजयमेरौ विहारः । तत्र च म्लेच्छोपद्रवे मासद्वयं यावन्महाकष्टस्थितौ पत्तने समागत्य भीमपल्ल्यां चतुमौसी कृता । कुहियपग्रामे जिनपालगणेर्वाचनाचार्यपदं दत्तम् । लवणखेटे राणकश्रीकेल्हणकृतसामवादोपरोधाद्दक्षिणावर्तारात्रिकावतारणं मानितम् । सं०१२५२ पत्तने विनयानन्दगणिर्दीक्षितः। सं०१२५३ भाण्डागारिकनेमिचन्द्रश्रावकः प्रतिबोधितः । पत्तनभङ्गानन्तरं धाटीग्रामे चतुर्मासी कृता । सं० १२५४ श्रीधारायां श्रीशान्तिनाथदेवगृहे विधिः प्रवर्तितः। तोपन्यासैश्च महावीरनामा दिगम्बरो रञ्जितः । रत्नश्रीप्रवर्तिनी दीक्षिता । नागदहे चतुर्मासी कृता । सं० १२५६ चैत्र वदि ५ लवणखेटे नेमिचन्द्र-देवचन्द्र-धर्मकीर्ति-देवेन्द्रनामानो व्रतिनः कृताः। सं० १२५७ श्रीशान्तिनाथदेवगृहे प्रतिष्ठारम्भः प्रधानशकुनाभावे विलम्बितः। सं० १२५८ चैत्र वदि ५ शान्तिनाथविधिचैत्ये श्रीशानाथप्रतिमा प्रतिष्ठिता, शिखरश्च । चैत्र वदि २ वीरप्रभ-देवकीर्तिगणी दीक्षितौ । सं० १२६० आपाढ वदि ६ वीरप्रभगणि-देवकीर्तिगण्योरुपस्थापना कृता । सुमतिगणि-पूर्णभद्रगण्योव्रतं दत्तम् । आनन्दश्रियो महत्तरापदं दत्तम् । श्रीजेसलमेरौ देवगृहे फाल्गुन सुदि २ श्रीपार्श्वनाथप्रतिमा स्थापिता । स्थापना च सा० जगद्धरेण महाविस्तरेण कारिता । सं० १२६३ फाल्गुन वदि ४ महं० कुलधरकारितश्रीमहावीरप्रतिमा लवणखेटे प्रतिष्ठिता। नरचन्द्र-रामचन्द्र-पूर्णचन्द्राणां विवेकश्री-मङ्गलमति-कल्याणश्री-जिनश्रीसाध्वीनां दीक्षा दत्ता, धर्मदेव्याः प्रवर्तिनीपदं च । ठ० आभुल-प्रभृतिवाग्गडीयसमुदायः श्रीपूज्यपादवन्दनार्थमागतो लवणखेटे । सं०१२६५ मुनिचन्द्र-मानभद्रगणी दीक्षितौ, सुन्दरमतिरासमतिश्च । सं० १२६६ विक्रमपुरे भावदेव-जिनभद्र-विजयचन्द्रनामानो व्रतिनः कृताः। गुणशीलस्य वाचनाचार्यपदं दत्तम् , ज्ञानश्रियश्च दीक्षा । सं० १२६९ श्रीजावालिपुरे श्रीविधिचैत्यालये महता विस्तरेण महं०कुलधरकारितश्रीमहावीरप्रतिमा स्थापिता । श्रीजिनपालगणेरुपाध्यायपदं दत्तम् । धर्मदेवीप्रवर्तिन्याश्च महत्तरापदं दत्तं प्रभावतीति नाम कृतम् । महेन्द्र-गुणकीर्ति-मानदेवानां चन्द्रश्री-केवलथ्योश्च दीक्षा दत्ता । ततो विक्रमपुरे विहारः। ६२. सं० १२७० वाग्गडीयसमुदायप्रार्थनया श्रीवाग्गडदेशे विहृताः । दारिद्रेरके शतसंख्यश्रावक-श्राविकाणां सम्यक्त्वारोपण-मालारोपण-परिग्रहपरिमाणदानोपधानविधापनादिधर्मकृत्यकृते महाविस्तरेण सप्त नन्दयः कृताः। सं० १२७१ बृहद्वारे संमुखागतश्रीआसराजराणकप्रमुखप्रभूतलोकैः सह महाविस्तरेण ठ० विजयश्रावककारितायां महत्यामुत्सपेणायां प्रविष्टाः श्रीपूज्याः। नन्द्यादिकं च दारिद्रेरकवत्तत्र कृतम् । मिथ्यादृष्टिगोत्रदेवतादिमिथ्यात्वकृत्यपरिहारकारापणेन समुदायस्य महान् प्रमोदो जनितः । सं० १२७३ तत्रैव बृहद्वारे लौकिकदशाहिकापर्वोपरि गङ्गायात्राभिमुखेषु तत्रागतेषु बहुषु राणकेषु सत्सु नगरकोट्टीयराजाधिराजश्रीपृथ्वीचन्द्रसाक्षेत(सहायात ?) काश्मीरीयेन श्रीजिनप्रियोपाध्यायशिष्यजिनदासापरनामश्रीजिनभद्रसूरिप्रोत्साहितेन पण्डितमनोदानन्देन श्रीजिनपतिसूरिपौषधशालाद्वारे पत्रावलम्बनं बद्धं ब्राह्मण एकः प्रेषितः । सोऽपि द्वितीयार्द्ध प्रहरसमये वसतिद्वार आगत्य पत्रावलम्बनं बद्धं प्रवृत्तः । विस्मयवशाद् दूरदेशे गत्वा धर्मरुचिगणिना संभाषितो ब्राह्मणः, यथा-'बटो! किं करोपि ? निर्भयः सन् स प्राह-'पण्डितमनोदानन्दो युष्मद्गुरूनुद्दिश्य पत्रावलम्बनं करोति' । धरुचिगणिना सोपहासमुक्तम्'बटो! मदीयसन्देशमेकं पण्डितस्याग्रे कथयेर्यथा-पण्डितश्रीजिनपतिसूरिशिष्येण धर्मरुचिगणिना मम मुखेनेदं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148