Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
युगप्रधानाचार्यगुर्वावली।
१३ तिप्रमुदितैः श्रावकैः साधुभिश्च सह अभयडदण्डनायकदत्तहस्तकास्ततः स्थानादुत्थायोपरितनभूमिकायां प्रभूताः श्रीपूज्याः, नागरिकलोकोऽपि । तत्र च पूज्यान् वन्दित्वा, अभयडदण्डनायकोऽधस्तादागतः । प्रद्युम्नाचार्योऽपि सा०क्षेमन्धरदत्तहस्तको मनःखेदोद्भवन्मुखकालिमगुणो लज्जावशाद् भूमिमवलोकयन् स्वपौषधशालायां गतः । इतरोऽपि कौतुकार्थी लोकः स्वकीये स्वकीये गृहे गतः ।
५९. स्वकीयगुरुप्रद्युम्नाचार्यहृदयस्थकष्टदर्शनादसुखिन्यभयडदण्डनायके सकलमपि नगरं शून्यमिव जातम् । बहिश्च संघमध्येऽत्यानन्दोऽभवत् । भां० संभव-वैद्यसहदेव-ठ० हरिपाल-सा० क्षेमन्धर-वाहित्रिकोद्धरण-सा० सोमदेवादिसमुदायेन महाविस्तरेण विजयसूचकं वर्धापनकं च कारितम्-'अहो ! एते परतो गता मदीयं गुरुं विगोपयिष्यन्त्यतो यद्यत्रैव कथमपि शिक्ष्यन्ते तदा भद्रं भवतीति हृदि विमृश्याऽभयडदण्डनायकेन मालव्यदेशमध्यस्थिते गूर्जरीये कटके प्रतीहारजगद्देवपार्श्वे विज्ञप्तिकादानपूर्वकं मानुषं प्रेष्य द्वितीये दिने संघमध्ये दापिता राजाज्ञा, यथा-'राजाधिराजश्रीभीमदेवस्याज्ञाऽस्ति यदि यूयमितः स्थानादस्माभिरमुत्कलिताः सन्तो यास्यथेति'। धृतं च राजपुत्रशतमेकं गुप्तवृत्त्या संघस्य प्राहरिकपदे । संघोऽपि खचेतसि यदपि तदपि संभावयितुं प्रवृत्तः। विजयदर्शनोच्छलितपरमानन्दवशाद् भाण्डशालिकसंभवः श्रीपूज्यानां पार्श्वे समागत्य हर्षप्रकर्षोद्भवद्गद्गदस्वरेण भणितुं प्रवृत्तः, यथा-'प्रभो! जानामि तावकीनं पराक्रमम् , यतः सिंहस्य पोतकाः सिंहा एव भवन्ति न शृगालाः; परं कपटबहुला गूर्जरत्रास्तत्र च येनापि तेनापि समं माऽऽस्फाल्यताम् । कापटिकगूर्जरलोककूटप्रयोगात् कूटा चेद्वचनीयता तादृशी भवति यादृश्या खकीयं मुखमुद्घाटयितुं न शक्यते-इत्याशक्य मया वादकरणविपयेऽनुमतिर्न दत्ता। भवता च प्रभो! अतीव शोभनं कृतं यद् गूर्जरत्रामध्यप्रदेशे समस्ताचार्यमुकुटभूतं प्रद्युम्नसूरिं सकललोकसमक्षं निर्जित्यो/ कृता स्वकीयाङ्गुलिका । प्रभो ! तवैकेन चरित्रेण घनमानन्दितस्य स्वर्गस्थम्य श्रीजिनदत्तमरेरद्य विस्मृतो निश्चितममृतपानामिलापः । प्रभो ! तावकीनं धैर्यमालोक्य शासनदेवताऽप्यद्यात्मानं सजीवभूतं मन्यते । प्रभो ! त्वदीयामीदृशीं वादलब्धि दृष्ट्वा भगवती सरस्वत्यपि स्वप्रसादस्य माहात्म्यं ज्ञातवती । प्रभो! तवेदृशं साहसमवेक्ष्य पुरन्दरादयो देवा अपि भवतो वरप्रदानोत्सुकाः संजाताः' इत्यादिकां बह्वीं प्रशंसां कृतवान् भा० संभवः । श्रीमालवंशभूषणवैद्यसहदेव-व्य० लक्ष्मीधर-ठ० हरिपाल-सा० क्षेमन्धर-वाहित्रिकोद्धरणादयोऽपि संघप्रधानपुरुषाः श्रीपूज्यानां पार्श्वे समागत्याभयडदण्डनायकस्स दुष्टमभिप्रायं कथयामासुः। श्रीपूज्यैर्विमृश्योक्तम्-'अहो श्राद्धाः ! अनिवृत्तिः काऽपि न कार्या। श्रीजिनदत्तमरिपादप्रसादात् सर्व भद्रं भविष्यति । परं परमेश्वरश्रीपाराधनाथ स्नात्रकायोत्सर्गादिधर्मकृत्येषूद्यता यूयं भवतेति' । श्रीपूज्योपदेशाद्धर्मकृत्योद्यते संघे सति सुखेन जातानि चतुर्दश दिनानि परं निर्गमः कोऽपि न संजातः । तदनन्तरं संघमध्यस्थितलोकमध्यादौष्ट्रिकाः शते द्वे संघस्य श्रेयःकृते श्वाकल्ये किमपि साहसं तादृशं करिष्यामो येन संघः सर्वोऽपि स्वकीये स्वकीये स्थानके प्रभूतो भविष्यतीत्यभिप्रायेण प्रगुणीभूताः। __इतश्च-अभयडदण्डनायकप्रेषितमानुषेण कटकमध्ये गला श्रीजगद्देवप्रतीहारपादयोः पुरो धृता स्वस्वामिविज्ञप्तिका। श्रीजगद्देवनिरोपाद् वाचयितुं लग्नः पारिग्रहिकः, यथा-अत्र देशे साम्प्रतमतिमहद्धिका सपादलक्षीयो बहुलोकः समागतोऽस्ति । यदि युष्माकं निरोपो भवति तदा राजकीयानां घोटकानां कृते दालिं करोमीति' । श्रुखा च कोपाधिरूढेन श्रीजगद्देवेन तत्क्षणादेव स्वकीयपारिग्रहिकहस्तेन लिखितो राजादेशः । लिखितं च तत्र-'मया महता कष्टेन साम्प्रतं श्रीपृथ्वीराजेन सह सन्धिः कृतोऽस्त्यतो यदि सपादलक्षीयस्य लोकस्य हस्तं लास्यसि तदा गर्दभोदरे बां सेवयिप्यामि'-इति राजादेशेन सह प्रेषितो मानुषः । पश्चात् तेनापि चोत्तालगत्या गला दत्तो दण्डनायकहस्ते राजादेशः । वाचयित्वा च तं दण्डनायकेन बहुमानपूर्वकं मुत्कलितः सन् संघः समागतः श्रीमदणहिलपाटकनामपत्तने । तत्र च श्रीपूज्यैः स्वगोत्रीयाश्चत्वारिंशदाचार्याः स्वमण्डल्यां समुद्देशं कारयित्वा वस्त्रदानपूर्वकं सम्मानिताः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148