Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 68
________________ युगप्रधानाचार्यगुर्वावली। ११ ऽस्माकं देवदर्शनेच्छा पूर्यते; यतो युवाभ्यां द्वाभ्यामपि रूपेण देवा निर्जिताः। विहस्य प्रद्युम्नाचार्येणोक्तम्-'अहो श्राद्धाः किं यूयं संस्कृतभाषामध्ये परिच्छिन्त !" ताभ्यामुक्तम्-'मस्तकेन वन्दे, यद् यूयं भणथ तत् सत्यमेव । यतो मरुस्थलोत्पन्ना बदरस्य धृन्तमधस्तादुपरिष्टाद्वा भवतीत्यपि न जानन्ति । परं तथापि, भट्टारकाः ! क य क्क वयम् , पुनरद्यास्मद्भाग्याद् युष्माकं सर्वेषामपि संयोगो बभूवेति, यदि कथमप्यस्मत्कर्णयोः सुखं जनयत तदाऽतिसमाधानं भवति; यतः क्व पुनरपीदृशः संयोगः संभाव्यते'-इत्यादिः श्रावकोपरोधात् प्रद्युम्नाचार्येणोक्तम्'प्रमाणमिति' । तदनन्तरं श्रीपूज्यैस्तत्समीपे खटिका-संपूटिके दृष्ट्वोक्तम्-'केनाभिप्रायेणैष खटिकाखण्ड आनीतः ?' प्रद्युम्नाचार्येणोक्तम्-'कदाचित् संस्कृतभाषया ब्रुवता कश्चिदपशब्दः पतति, तस्य साधनकृते' । श्रीपूज्यैरुक्तम्-'यो हि मुखोपरि शब्दं साधयितुमसमर्थस्तस्य संस्कृतभाषया वक्तुं कोऽधिकारः ?, तस्मात् परतः क्षिप्यताम् । तथैषा संपुटी किमर्थमानीता ?' प्रद्युम्नाचार्येणोक्तम्-'पतिष्यदपशब्दलेखनार्थम् । श्रीपूज्यैरास्फाल्योक्तम्-'यो हि पतितानपशब्दानात्महृदयेऽवधारितुं न शक्नोति तस्य वादादिषु का जिगीषा?,तस्मात् संपुट्यपि परतः क्रियताम्'-इत्याक्षिप्य परतः कारिते खटिका-संपुटिके। तत्र च तर्करीत्याऽनायतनस्थापन-निषेधनार्थ संस्कृतभाषया तयोर्बुवतोभरतेश्वर-बाहुबल्योरिव महासंरम्भेण वाग्युद्धं संजातम् । तत्र च यादृशं किमपि प्रद्युम्नाचार्येणोक्तं तादृशं सर्वमपि कुतूहलिना प्रद्युम्नाचार्यकृतवादस्थलेषु द्रष्टव्यम् । यथा श्रीजिनपतिसूरिभिः प्रद्युम्नाचार्यवचनानि निराकृत्य सर्वलोकसमक्षं खरतरमार्गः स्थापितस्तथा प्रद्युम्नाचार्यकृतवादस्थलोपरि श्रीजिनपतिसूरिकृतवादस्थलानि द्रष्टव्यानि । यथा महान् प्रमोदो भवति । अत्र च गौरवभिया न लिखितानि । यतः श्रावकोपरोधादित्थमेता वार्ता लिख्यन्ते, अतः श्रावकोपयोगिन्य एव वार्ता लेख्याः; वादस्थले लिखिते त्वेता वार्ता अपि दुर्ग्राह्याः स्युरिति । तथापि किंचिदुच्यते । प्रद्युम्नाचार्येणोक्तम्-'यत्र देवगृहादौ साक्षात् साधवो वसन्ति तद् भवत्वनायतनम् , यत्र तु बहिःस्थितैरेव सारा क्रियते तत्र का वातेति । श्रीपूज्यैः सोपहासमुक्तम् , यथा-'आचार्य ! साराशब्दं प्रयुखानेन भवता वर्तमानकालवर्तिशास्त्रपरिज्ञानता स्वकीया प्रकाशिता'। तेनोक्तम्-'कि साराशब्दो नास्ति ?' पूज्यैरुक्तम्-'नास्त्येव । तेनोक्तम्-'सर्वलोकप्रसिद्ध शब्दं वचनमात्रेणाचार्य ! माऽपलापी' । पूज्यैरुक्तम्-'को लोकः ?किं हलधर-गोपालादिस्तवाभिप्रेतः ?, किं वा लक्षणादिविद्यापारदृश्वा पण्डितगणः । यद्याद्यपक्षस्तदा गीर्वाणभाषान्तराले हलधरादिभाषां बुवाणस्त्वमात्मानं पण्डितसभामध्ये लघु करोषि; अथ द्वितीयः पक्षस्तहि कञ्चित्पण्डितं साक्षिण कुरु; अथवा क्यापि केनापि पण्डितेन प्रयुक्तं दर्शयेति। आकुलव्याकुलीभूतेन तेनोक्तम्-'सारणवारणेत्यादि । श्रीपूज्यैः सोपहासमुक्तम्-'अहो ! वर्तमानकालशास्त्रदर्शिता'-इत्यादि । तदनन्तरं विलक्षीभूतेन तेनोक्तम्-'सिद्धान्तानुयायिनि विचारे प्रारब्धे कीदृशीयं शब्दापशब्दचिन्ता ?, प्रस्तुत एव सिद्धान्तः किमिति न वाच्यते ?' पूज्यैरुक्तम्-‘एवं क्रियताम् । तेन च मण्डिता स्थापनिका धृता च तदुपर्योपनियुक्तिसूत्रवृत्तिपुस्तकसत्कसर्वपत्रभृता कपरिका । पूज्यैरुक्तम्-'को वाचयिष्यति ?' तेन कूटाभिप्रायेणोक्तम्-'अहं वाचयिष्यामि' । सरलाशयैः श्रीपूज्यैश्चिन्तितमहो ! किमस्य क्षोभवशान्मतिवालः (१) साम्प्रतमभूत् , यदसावस्माकमग्रे वाचकत्वाङ्गीकारेण स्वस्य लघुतां न गणितवानिति । भवतु वा । प्रकटमुक्तम्-‘एवं कुर्विति' । तदनन्तरम् नाणस्स सणस्स य चरणस्स य तत्थ होइ वाघाओ। वजिज वन्ज भीरू अणाययणवजओ खिप्पं ॥ [४९] जत्थ साहम्मिया बहवे भिन्नचित्ता अणारिया।मूलगुणप्पडिसेवी अणाययणं तं वियाणाहि॥ [५०] जत्थ साहम्मिया बहवे भिन्नचित्ता अणारिया। उत्तरगुणपडिसेवी अणाययणं तं वियाणाहि॥ [५१] यु० गु०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148