________________
युगप्रधानाचार्यगुर्वावली।
११ ऽस्माकं देवदर्शनेच्छा पूर्यते; यतो युवाभ्यां द्वाभ्यामपि रूपेण देवा निर्जिताः। विहस्य प्रद्युम्नाचार्येणोक्तम्-'अहो श्राद्धाः किं यूयं संस्कृतभाषामध्ये परिच्छिन्त !" ताभ्यामुक्तम्-'मस्तकेन वन्दे, यद् यूयं भणथ तत् सत्यमेव । यतो मरुस्थलोत्पन्ना बदरस्य धृन्तमधस्तादुपरिष्टाद्वा भवतीत्यपि न जानन्ति । परं तथापि, भट्टारकाः ! क य क्क वयम् , पुनरद्यास्मद्भाग्याद् युष्माकं सर्वेषामपि संयोगो बभूवेति, यदि कथमप्यस्मत्कर्णयोः सुखं जनयत तदाऽतिसमाधानं भवति; यतः क्व पुनरपीदृशः संयोगः संभाव्यते'-इत्यादिः श्रावकोपरोधात् प्रद्युम्नाचार्येणोक्तम्'प्रमाणमिति' । तदनन्तरं श्रीपूज्यैस्तत्समीपे खटिका-संपूटिके दृष्ट्वोक्तम्-'केनाभिप्रायेणैष खटिकाखण्ड आनीतः ?' प्रद्युम्नाचार्येणोक्तम्-'कदाचित् संस्कृतभाषया ब्रुवता कश्चिदपशब्दः पतति, तस्य साधनकृते' । श्रीपूज्यैरुक्तम्-'यो हि मुखोपरि शब्दं साधयितुमसमर्थस्तस्य संस्कृतभाषया वक्तुं कोऽधिकारः ?, तस्मात् परतः क्षिप्यताम् । तथैषा संपुटी किमर्थमानीता ?' प्रद्युम्नाचार्येणोक्तम्-'पतिष्यदपशब्दलेखनार्थम् । श्रीपूज्यैरास्फाल्योक्तम्-'यो हि पतितानपशब्दानात्महृदयेऽवधारितुं न शक्नोति तस्य वादादिषु का जिगीषा?,तस्मात् संपुट्यपि परतः क्रियताम्'-इत्याक्षिप्य परतः कारिते खटिका-संपुटिके। तत्र च तर्करीत्याऽनायतनस्थापन-निषेधनार्थ संस्कृतभाषया तयोर्बुवतोभरतेश्वर-बाहुबल्योरिव महासंरम्भेण वाग्युद्धं संजातम् । तत्र च यादृशं किमपि प्रद्युम्नाचार्येणोक्तं तादृशं सर्वमपि कुतूहलिना प्रद्युम्नाचार्यकृतवादस्थलेषु द्रष्टव्यम् । यथा श्रीजिनपतिसूरिभिः प्रद्युम्नाचार्यवचनानि निराकृत्य सर्वलोकसमक्षं खरतरमार्गः स्थापितस्तथा प्रद्युम्नाचार्यकृतवादस्थलोपरि श्रीजिनपतिसूरिकृतवादस्थलानि द्रष्टव्यानि । यथा महान् प्रमोदो भवति । अत्र च गौरवभिया न लिखितानि । यतः श्रावकोपरोधादित्थमेता वार्ता लिख्यन्ते, अतः श्रावकोपयोगिन्य एव वार्ता लेख्याः; वादस्थले लिखिते त्वेता वार्ता अपि दुर्ग्राह्याः स्युरिति ।
तथापि किंचिदुच्यते । प्रद्युम्नाचार्येणोक्तम्-'यत्र देवगृहादौ साक्षात् साधवो वसन्ति तद् भवत्वनायतनम् , यत्र तु बहिःस्थितैरेव सारा क्रियते तत्र का वातेति । श्रीपूज्यैः सोपहासमुक्तम् , यथा-'आचार्य ! साराशब्दं प्रयुखानेन भवता वर्तमानकालवर्तिशास्त्रपरिज्ञानता स्वकीया प्रकाशिता'। तेनोक्तम्-'कि साराशब्दो नास्ति ?' पूज्यैरुक्तम्-'नास्त्येव । तेनोक्तम्-'सर्वलोकप्रसिद्ध शब्दं वचनमात्रेणाचार्य ! माऽपलापी' । पूज्यैरुक्तम्-'को लोकः ?किं हलधर-गोपालादिस्तवाभिप्रेतः ?, किं वा लक्षणादिविद्यापारदृश्वा पण्डितगणः । यद्याद्यपक्षस्तदा गीर्वाणभाषान्तराले हलधरादिभाषां बुवाणस्त्वमात्मानं पण्डितसभामध्ये लघु करोषि; अथ द्वितीयः पक्षस्तहि कञ्चित्पण्डितं साक्षिण कुरु; अथवा क्यापि केनापि पण्डितेन प्रयुक्तं दर्शयेति। आकुलव्याकुलीभूतेन तेनोक्तम्-'सारणवारणेत्यादि । श्रीपूज्यैः सोपहासमुक्तम्-'अहो ! वर्तमानकालशास्त्रदर्शिता'-इत्यादि । तदनन्तरं विलक्षीभूतेन तेनोक्तम्-'सिद्धान्तानुयायिनि विचारे प्रारब्धे कीदृशीयं शब्दापशब्दचिन्ता ?, प्रस्तुत एव सिद्धान्तः किमिति न वाच्यते ?' पूज्यैरुक्तम्-‘एवं क्रियताम् । तेन च मण्डिता स्थापनिका धृता च तदुपर्योपनियुक्तिसूत्रवृत्तिपुस्तकसत्कसर्वपत्रभृता कपरिका । पूज्यैरुक्तम्-'को वाचयिष्यति ?' तेन कूटाभिप्रायेणोक्तम्-'अहं वाचयिष्यामि' । सरलाशयैः श्रीपूज्यैश्चिन्तितमहो ! किमस्य क्षोभवशान्मतिवालः (१) साम्प्रतमभूत् , यदसावस्माकमग्रे वाचकत्वाङ्गीकारेण स्वस्य लघुतां न गणितवानिति । भवतु वा । प्रकटमुक्तम्-‘एवं कुर्विति' । तदनन्तरम्
नाणस्स सणस्स य चरणस्स य तत्थ होइ वाघाओ। वजिज वन्ज भीरू अणाययणवजओ खिप्पं ॥
[४९] जत्थ साहम्मिया बहवे भिन्नचित्ता अणारिया।मूलगुणप्पडिसेवी अणाययणं तं वियाणाहि॥ [५०] जत्थ साहम्मिया बहवे भिन्नचित्ता अणारिया। उत्तरगुणपडिसेवी अणाययणं तं वियाणाहि॥ [५१]
यु० गु०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org