SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४२ खरतरगच्छालंकार जत्थ साहम्मिया बहवे भिन्नचित्ता अणारिया। लिंगवेसपडिच्छन्ना अणाययणं तं वियाणाहि॥[५२] आययणं पि य दुविहं दव्वे भावे य होइ नायव्वं । दव्वम्मि जिणहराई भावे मूलुत्तरगुणेसु ॥ [५३] जत्थ साहम्मिया बहवे भिन्नचित्ता बहुस्सुया । चरित्तायारसंपन्ना आययणं तं वियाणाहि ॥ [५४] सुंदरजणसंसग्गी सीलदरिदं कुणइ य सीलड्डे। जह मेरुगिरीलग्गं तणं पि कणयत्तणमुवेइ ।। [५५] इत्यादिगाथावृत्तीः पूज्योपदर्शिता वाचयितुं प्रवृत्तः प्रद्युम्नाचार्यः। पूज्याश्चास्खलितवाण्या व्याख्यातुं प्रवृत्ताः । तदनु स्वमतस्थापनाभिप्रायरचितकूटबुद्धिनाऽन्यां गाथां वाचयित्वा प्रस्तुतपत्रद्वयोत्पाटनपूर्वकमन्यतरगाथासत्कवृत्तिं वाचयितुं प्रवृत्तः प्रद्युम्नाचार्यः । श्रीमत्पूज्यपार्थोपविष्टन श्रीजिनहितोपाध्यायेन हस्ते गृहीत्वोक्तम् , यथा-'आचार्य! पाश्चात्य पत्रद्वयं वाचयित्वेदं पत्रं वाच्यम्' । सोऽपि व्याकुलतया गतस्मृतिः पत्राण्यग्रतः पश्चाच्च करोति । अत्रावसरे मातुलतया प्रतिपन्नमभयडदण्डनायकं लोकप्रसिद्धमामेत्यक्षरैः सम्बोध्य हेडावाहकेन श्रीमालवंशीयेन वीरणागेन भणितम् , यथा-'त्वदीये नगरे स एव किं निगृह्यते यो रात्रौ चौर्य करोति ? यस्तु दिवसे दीप्ते चौयं करोति स मुत्कल' । तदनन्तरं संभ्रमवशादिगवलोकनं कृखाऽभयडदण्डनायकेनोक्तम्-'हेडावाहक! किमेतद् भवता भणितम् ?' वीरणागेनोक्तम्-'मामा! पश्य पश्य, आचार्येण पत्रद्वयमपलपितम्' । कोपावेगादभयडदण्डनायकेन हस्तस्थितया चर्मयष्ट्या पृष्ठप्रदेश आहतो वीरणागः । प्रद्युम्नाचार्योऽपि प्रस्तुतं वाचयितुं प्रवृत्तः । विस्तरेण व्याचक्षाणेषु श्रीपूज्येषु श्रीपूज्यभाग्यप्राग्भारप्रेरितेन प्रद्युम्नाचार्येणोक्तम्-'आचार्य ! अनया रीत्या देवगृहमेवानायतनं भवति, न तु जिनप्रतिमा; युष्माभिस्तु प्रतिमाऽप्यनायतनत्वेन भणिता' । श्रीपूज्यविहस्योक्तम्-'स्थिरीभव, आचार्य ! यदत्र सभायामात्ममुखेन भवता देवगृहमनायतनं भवतीति कथितं तेनास्माकं सर्वेऽपि मनोरथाः सिद्धाः। प्रतिमाऽप्यनायतनत्वेन भणिता' । श्रीपूज्यविहस्योक्तम् .....द्धाज्ञेया। प्रद्युम्नाचार्येोक्तम्-'किं वचनमात्रेण किं वाकयाऽपि युक्त्या?' भीपूज्यैरुक्तम्-'नियुक्तिकं वचनं हलधरादय एव भाषन्ते न वयम्' । तेनोक्तम्-'तर्हि युक्ति ब्रूहि' । श्रीपूज्यैविमृश्योक्तम् एवमिणं उवगरणं धारेमाणो विहीइ परिसुद्धं । होइ गुणाणाययणं अविहि असुद्धे अणाययणं । अस्याश्च गाथाया व्याख्यानं श्रुखा विमना इव मौनं कृखा स्थितः प्रद्युम्नाचार्यः। तदनन्तरं सा० क्षेमन्धरेण हस्तयोजनपूर्वकमुक्तम्-'मस्तकेन वन्दे, जिनप्रतिमाऽनायतनं भवति वा नवेति ?' प्रद्युम्नाचार्येणोक्तम्-'साधो! अस्या गाथाया अनुसारेणेदंज्ञायते, यदुत जैनी प्रतिमाऽपि भवत्यनायतनमिति। तत्पश्चात् क्षेमन्धरेण नेत्रयोरानन्दाश्रु बिभ्रता खकीयमस्तककेशैः कृता प्रद्युम्नाचार्यपादावुघृष्टौ, पुत्रस्नेहाच भणितम्-'वत्स ! एतावन्ति दिनानि श्रीजिनदत्तमरिमागे लग्नस्य मम भूतानि परं मम मनसि न परिणतम् । यदुत लक्षसंख्यद्रव्यव्ययेन कृखोत्तुङ्गतोरणं देवगृहं निष्पादितमप्यविधिप्रवृत्तिवशादनायतनं भवतीति । इदानीं च तव मुखात् तादृशमपि देवगृहमनायतनं भवतीति श्रुखा महान् प्रमोदः संजातः' । प्रद्युम्नाचार्येणोक्तम्-'साधो क्षेमन्धर ! अन्येषां सिद्धान्तानामक्षराणि दर्शयिखा देवगृहमनायतनं न भवतीति परिच्छेदयिष्यामि'। श्रीपूज्यानामग्रे भणितम्-'आचार्य! अस्मन्नामाङ्किता रास-काव्य-चतुष्पद्यादयो न कारयितव्या न पाठयितव्याश्च। तदनन्तरं श्रीपूज्यैः सा० क्षेमन्धरदाक्षिण्यादुच्चैःस्वरेणोक्तम्-'अहो ! यः कश्चिदस्माकमाज्ञां मनुते तेन प्रद्युम्नाचार्यपराजयनरूपार्थप्रतिबद्ध रास-काव्य-चतुष्पद्यादयो न कर्तव्या न पठितव्याः'। आर्द्रहृदयत्वान्नेत्रयोरथुप्रवाहं विभ्रता सा० क्षेमन्धरेणोक्तम्-'वत्स! न मया भवन्तं विगोपयितुमारभितो वादः,किन्तु विद्यापात्रमात्मपुत्रं लब्धाचार्यपदं प्रतिबोध्य युगप्रधानगुरोः श्रीजिनपतिसूरेः शिष्यं कारयितुम्'-इत्यादि वदत्सु तेष्व For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002780
Book TitleKhartar Gacchha Bruhad Gurvavali
Original Sutra AuthorJinpal Upadhyaya
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1956
Total Pages148
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy