________________
खरतरगच्छालंकार प्रकाशप्रमुखा अलङ्काराः, सिद्धान्ताश्च सर्वेऽपि' । श्रीपूज्यश्च-'अहो! अनेन घनं गल्लो वादितः। किमस्यैतावन्मानं शास्त्रपरिज्ञानमस्ति वा नवेत्युपलक्षयामः' इति हृदये विचार्योक्तम्-'आचार्य ! लक्षणायाः किं स्वरूपं कति भेदाः ?' इत्यादि । तस्मिंश्च सर्वेऽपि काव्यप्रकाशानुसारेण ब्रुवाणे-'यदि वयमिदानीमेव निषेधनाभिप्रायेण गाढं भणिष्यामस्तदाऽसावत्रैव स्थास्यति, न करिष्यत्यायतनानायतनविचारम् , तस्मादसावद्यास्खलितग्रसरः सन् वदतु; यद्वा परामहङ्कारकोटिं रोहती'त्यादि विमृश्य श्रीपूज्यन किमपि तादृशं वचनं भणितं येन स दूयते । ततस्तेन बह्वीं गलगर्जि कृता भणितम्-'आचार्य! अनायतनं कस्य सिद्धान्तस्य मध्ये कथितमस्ति, यदेवं भवान् वराकान् लोकान् विप्रतारयतीति ?' श्रीपूज्यैरुक्तम्-'दशवैकालिकौघनियुक्ति-पञ्चकल्प - व्यवहारादिसिद्धान्तमध्ये कथितमस्तीति' । तेनोक्तम्-'आचार्य ! गाढतराभ्यासवशादोघनियुक्तिः सकलाऽपि स्वनामसदृशी मम भूताऽस्ति, परं तन्मध्येऽनायतनं क्वापि भणितं नास्ति' । श्रीपूज्यैरुक्तम्-'आचार्य ! दूरे सन्वन्ये सिद्धान्ता यदि कथमपि वयमोघनियुक्त्यक्षरैः कृत्वा देवगृहं जिनप्रतिमा वाऽनायतनं भवतीति भवन्तं मानयामस्तदा वयं जयामः । तेनोक्तम्-'प्रमाणं परमिदानीमुत्सूरं बभूव, प्रभाते वार्ता । पूज्यैरुक्तम्-‘एवं भवतु । स च सा० क्षेमन्धरदत्तहस्तः स्वपौषधशालायां जगाम । तत्र च श्रीपूज्यपादस्थित गृहोपरि बद्धं पट्टमुद्दिश्य सा० क्षेमन्धरे शृण्वति सा० रासलपित्रा सा० धणेश्वरेणोक्तम्-प्रातस्थिते पादबद्धस्य चीरकटकस्य प्रमाणम्' । प्रोच्छलितकोपारक्तनेत्रेण सा० क्षेमन्धरेणोक्तम्-'अरे लम्पक ! बदीयस्य बृहत्तरस्यापि मानोऽस्ति श्रीपूज्यपादस्थितं चीरकटकम् । प्रद्युम्नाचार्येणोक्तम्-'साधो ! कीदृशेन कारणेनात्मनोऽपि मध्ये कलहः क्रियते।। प्रातः सर्वमपि भद्रं भविष्यति । सर्वेषामपि मानानि प्रमाणानि ज्ञास्यते' । तदनन्तरं सा० क्षेमन्धरो वन्दिखा श्रीपूज्यान्त आगतः। तत्र च
यदपसरति मेषः कारणं तत् प्रहर्तु, मृगपतिरपि कोपात् संकुचत्युत्पतिष्णुः। हृदयनिहितवैरा गूढमन्त्रोपचाराः, किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥ [४८]
इत्यादिधीरपुरुषसमाचारमजानानाः साधवः श्रावकाश्च । श्रीपूज्यानामग्रे भणति-'मस्तकेन वन्दे । स्वकपोलावलीमास्फाल्य तेनोक्तम्-'युष्माभिः किमिति किमपि न भणितम् ?' पूज्यैरुक्तम्-'भो ! स्थिरीभव, न टेकेनैव स्वमेन रात्रिविभास्यति' । प्रद्युम्नाचार्येण चाकारितस्वपक्षानुयायिप्रभूताचार्यपण्डितैः सह जाज्वल्यमानेषु प्रदीपेषु सकलामपि रजनीमोघनियुक्तिसूत्रवृत्तिपुस्तकानि वाचितानि परमनायतनस्वरूपप्रतिपादकं स्थानकं न लब्धम् । पश्चात्यूज्यानां पार्श्वे मानुषं प्रेषितम् । पूज्यश्च तदीयपृच्छानुसारेणोद्देशः कथितः । तैरपि पूज्योपदिष्टमुद्देशं गवेषयद्भिर्लब्धं स्थानकम् । अनायतनप्रतिपादकगाथासम्बद्धवृत्त्यक्षराण्यन्यगाथावृत्यक्षरैः सह संयोज्य तेन चिन्तितानि । प्रातःक्षणे च सहस्रसंख्यलोकानुगम्यमानमार्गः, अभयडदण्डनायकदत्तहस्तकः समाहूतदेशान्तरीयानेकाचार्यपरिकरितः प्रद्युम्नाचार्यः समाजगाम श्रीपूज्यालङ्कृत आवासे । अधस्तनभूमिकायां च क्षुद्रत्वेन शीघ्रमुपविष्टाः सर्वेऽप्याचार्याः । श्रीपूज्या अप्युपरितनभूमिकातः स्वपरिवारेण सह तत्राययुः । वैयावृत्त्यकरेण जिनागरगणिना तत्र तेषां तादृशं कपटमालोक्य श्रीपूज्या विज्ञप्ता:-'प्रभो! कनिषद्यां ददे पूज्यैरुक्तम्-'अन्यत्किमप्युपवेशनस्थानकं न दृश्यतेऽतोऽत्रैव देहि । तेनोक्तम'प्रभो ! संमुखा योगिनी भविष्यति' । 'भवतु श्रीजिनदत्तमूरिभलिष्यति, त्वं देहि निषद्यामत्रैवेति' । तदनन्तरं श्रीपूज्यास्तत्रोपविष्टाः । सा० क्षेमन्धर-वाहित्रिकोद्धरणाभ्यां हस्तौ योजयित्वा श्री ज्या विज्ञप्ताः, यथा-'प्रभो ! ईदृङ्मेलापको घनेभ्यो दिनेभ्योऽद्य संजातोऽस्माभिदृष्टः, अतो यदि गीर्वाणभाषया यूयं ब्रूत तदाऽस्मत्कर्णयोः सुखं भवति' । श्रीपूज्यैरुक्तम्-'न किमप्येतद्विरूपमस्ति, परं परतः प्रद्युम्नाचार्याणामग्रे कथयत । तदनन्तरं ताभ्यां प्रद्युम्नाचार्य वन्दिखा भणितम्-'मस्तकेन वन्दे, किल लोकमध्य एवं श्रूयते यदुत देवाः सर्वदेव संस्कृतभाषया परस्परं भाषन्ते परं ते न दृश्यन्ते; अतोऽस्माकं महत् कुतूहलमस्तीति यदि यूयमस्मासु महान्तमनुग्रहं कृत्वा संस्कृतभाषया ब्रूत, तदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org