________________
युगप्रधानाचार्यगुर्वावली। णेन पितृपर्यागतं वादलब्धिलब्धजगज्जयपताकश्रीदेवाचार्यप्रदर्शितमार्ग मुक्त्वा यस्मिन् तस्मिन् कुमते लग्नः ? क्षेमन्धरेणोक्तम्-'मस्तकेन वन्दे, स्वाभिप्रायेणाहमेवं जाने यन्मया रुचिरं कृतं यत्खरतरमार्गे सर्वविद्यापारगतः सिद्धान्तानुवर्ती नव्यः श्रीजिनपतिसूरिगुरुत्वेनादृतः' । अमर्षवशादाचार्येणोक्तम्-'साधो! यन्मरुस्थलीमध्ये जडलोकं प्राप्य सर्वज्ञायितमनेन भवद्गुरुणा, तदुचितमस्य, यतो निक्षे देशे एरण्डोऽपि कल्पवृक्षायते; परं युष्मादृशां परमगुरुश्रीदेवरिवचनामृतभृतकर्णयुगलीकुल्यासंसिक्तहृदयक्षेत्रोद्गतविवेकाङ्कुराणां जिनप्रवचनप्रतिकूलप्रतिपादनप्रवीणविप्रतारकलोकवाक्यहिममहिम्नां यदन्यथाभावो जनितस्तनास्माकं मनो दूयतेतराम् । परं यदद्यापि यूयमस्माकं मिलितास्तनातिशोभनं सञ्जातम्' । सा० क्षेमन्धरेणोक्तम्-'आचार्य ! मम गुरुर्मरुस्थली मुक्त्वा गूर्जरत्रामध्ये भवतः समीपे ढक्कायां वाद्यमानायामागतोऽस्ति; परं ज्ञायते लग्नं यदि वं कथमपि संमुखो भवसि । विलक्षहास्यकरणपूर्वकमाचार्यणोक्तम्-‘साधो ! वेगं कृत्वा स्वगुरुं प्रगुणय स्वप्ररूपितस्थापनायेति' । सा० क्षेमन्धरोऽपि निजपुत्रप्रद्युम्नाचार्यप्रतिबोधनार्थाभिप्रायेण समीपमागत्य श्रीपूज्या विज्ञप्ताः, यथा-'भगवन्तो ! मम पुत्र प्रद्युम्नाचार्यमायतनानायतनविचारकरणपूर्वकं प्रतिबोध्य स्खशिष्यीकुरुतेति । अहमिदानी वन्दनार्थ तत्पार्श्व गतोऽभूवम् । सोऽपि च वादाभिमुख इव मया लक्षित इति' । पूज्यैरुक्तम्-'साधो! प्रमाणमिति'। संघमध्यस्थितभाण्डशालिकसंभववाहित्रिकोद्धरणप्रमुखप्रधानपुरुषैश्च परस्परं विचार्योक्तम्-'येन मुख्येन प्रयोजनेनागता यूयं प्रथमं तत् कुरुत, पश्चाद्वादविवादादिकं कुर्यात्' । सा० क्षेमन्धरेणोक्तमेवं भवतु । पूज्यैरुक्तमेवमपि प्रमाणमिति । सा० क्षेमन्धरेण प्रद्युम्नाचार्यसमीपे गखा भणितम्-'आचार्य ! इदानीं संघस्तीर्थवन्दनार्थमुत्कण्ठावशादुत्तालो ब्रजति, वलन्तश्च श्रीमन्तो भट्टारका भवता सममायतनानायतनविचारं करिष्यन्ति' । तेनोक्तम्-'भवतु, परमितः स्थानाद् बहिर्न गन्तव्यमिति'। तदनन्तरं सर्वोऽपि संघो महाविस्तरेण स्तम्भनकोजयन्तादितीर्थेषु महाद्रव्यस्तवेन महाभावस्तवेन तीर्थानि वन्दितवान् पूजितवानिति । शत्रुञ्जये च मार्गासौख्यादिकारणानगतः।
५८. ततो व्याघुट्यागच्छति संघे कौतुकवशात् केचिदने भूखाऽऽशापल्लीमध्ये आगताः श्रीपूज्यपादभक्तश्रावकाः, उपविष्टाश्च वाणिजकस्यैकस्य हट्टे । वाणिजकेनापि पृष्टाश्च ते-'संघमध्य आचार्यः कोऽप्यस्तीति?' तैरुक्तमस्तीति । तेनोक्तम्-'भविष्यन्ति धना आचार्याः, परं प्रद्युम्नाचार्यसदृशो भरतक्षेत्रमध्ये कोऽपि नास्तीति' । उपहासवशात्तैरप्युक्तम्-'श्रेष्ठिन् ! सत्यमेतदुक्तम्, यथा सर्वथा भवतापि सदृशः संसारे कोऽपि नास्ति, किं पुनराचार्येण सदृश इति । ये च प्रद्युम्नाचार्यात् सर्वगुणैः समधिकास्ते कथं तेन सदृशा इति कथ्यते' । तथा प्रद्युम्नाचार्यभक्ताभयडदण्डनायकेन सर्वलोकसहितेन संघसंमुखमागत्य महाविस्तरेण प्रवेशः कारितः, श्रीपूज्यानां च धवलगृहप्राय आवासो वासकृते दर्शितः। पूज्याश्च सपरिवारास्तत्र स्थिताः । सा० क्षेमन्धरः पुनरपि श्रीपूज्यानुज्ञया प्रद्युम्नाचार्यवन्दनार्थ तदुपाश्रये गतः । तेनापि सबहुमानमालप्य तीर्थवन्दनवार्तापच्छनावसाने च भणितो यथा-'साधो ! किं तत् स्वकीयं वचो विस्मारितम् ?' क्षेमन्धरेणोक्तम्-'मस्तकेन वन्दे, कथं विस्मार्यते स्ववचः ?, यदाहमनेनैव प्रयोजनेनावागतः । तेनाऽऽत्मसांसारिकप्रतिबोधनाभिप्रायोच्छलदौत्सुक्यादुक्तम्-'तर्हि किमिति विलम्बः क्रियते ?' क्षेमन्धरेणोक्तम्'मस्तकेन वन्दे, उत्तिष्ठेदानीमपि ।' ततोऽसौ जिनपतिसूरिसमीपे समागतः, तत्र च ज्येष्ठानुक्रमेण वन्दनानुवन्दनादिव्यवहारः संवृत्तः । श्रीपूज्यैरित्थमालापितः सः-'आचार्य ! के के ग्रन्था दृष्टाः सन्ति ?' नवावस्थाप्रभावोच्छलदहंभावतरलितेन तेनोक्तम्-'वर्तमानकालवर्तिनः सर्वेऽपि' । श्रीपूज्यैश्च-यदि वयं प्रथममेवास्य वचने दोषानुद्भावयिष्यामस्तदैप आकुलव्याकुलीभूतः सन् किमपि वक्ष्यति ततोऽस्य शास्त्रपरिज्ञानादिस्वरूपं न ज्ञास्यत-इत्यादि विमृश्योक्तम्'तथापि नामभिः कांश्चिद्भण' । तेनोक्तम् -'हैमव्याकरणप्रभृतीनि लक्षणशास्त्राणि, माघकाव्यादिमहाकाव्यानि, कादम्बर्यादिकथाः, मुरारिमुख्यानि नाटकानि, जयदेवादिछन्दांसि, कन्दली-किरणावल्यमयदेवन्यायप्रमुखास्तर्काः, काव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org