________________
खरतरगच्छालंकार
सावष्टम्भमुक्तम्–‘भवेदयुक्तमेवायं यदि वयं कथमपि समर्थयितुं न शक्नुमः परमत्रानेका युक्तयो दर्शिताः, पुनरपि भवत्प्रश्नोत्तरदानपूर्वकमनेका युक्तीदर्शयामः । प्रतिपाद्यस्य सति सन्देहे विप्रतिपत्तौ वा तदपनोदार्थमवधारणं प्रयुज्यते विचक्षणैः । तथा हि-एके युक्तिबलेन समर्थयन्त्यस्त्यात्मेति; अपरेऽपि युक्तिबलेन कथयन्ति नास्त्यात्मेति; स्वयं च प्रत्यक्षेण नोपलभ्यते तस्मात् किमस्ति नास्ति चाऽऽत्मेति संशयानं शिष्यं प्रति तथा यद्वस्तुनः सकाशातत्वान्यत्वाभ्यामवाच्यं तदवस्तु, यथा व्योमकमलम्, तथा च सुखादिकम् । अथाऽऽत्मनः सुखादिकं भिन्नाभिन्नमित्यसिद्धताहेतोर्यतोऽभेदे क्रियाविरोधो नित्यस्यैकरूपस्य क्रियाया असंभवात्; भेदपक्षे तु ये क्रमभाविनो न ते पराभिमतात्मसमवायिनो यथा बीजाङ्कुरादयस्तथा च सुखादयः - इत्यादिना प्रकारेण नास्त्यात्मेति विप्रतिपद्यमानं च शिष्यं प्रति सावधारणं वाक्यमुच्यते । यथा - अस्त्येवाऽऽत्मा प्रतिप्राणिस्वसंवेदनप्रमाणप्रसिद्धचैतन्यान्यथाऽनुपपत्तेरिति । स चावधारणरूप एवशब्दः कस्मिंश्चित्स्थानके प्रयुक्तः किमपि व्यवच्छिनत्ति । अस्मत्प्रयुक्तस्त्वयमयोगान्ययोगात्यन्तयोगांस्त्रीनपि व्यवच्छिनत्ति । तथा हि-साम्प्रतं यूयमत्रैव स्थाष्णव इत्यस्माभिरुक्तं तत्र सप्तम्यन्तैतच्छब्देनात्रेतिरूपेण मासकल्पादियोग्येतरक्षेत्रेभ्यः सकाशादस्य क्षेत्रस्य किमपि व्यवच्छिद्यते च नवा ? | यदि न व्यवच्छिद्यते तदाऽस्य प्रयोगो निरर्थक एव । अथ किंचिद् व्यवच्छिद्यते तदैतद्विशेषणं सञ्जातम्, प्रकरणवलाच्च विशेष्यं नगरमायातम् । विशेषणाच्च पुरः पठित एवशब्दो वर्तमानकालापेक्षयैतेन नगरेण सदा युष्मद्योगं व्यवस्थापयति, तस्मिंश्च व्यवस्थापिते, वर्त्तमानकालापेक्षयैवाऽन्येन नगरादिना योगं स्वयमेवकारो व्यवच्छिनत्ति । तथैवात्यन्तायोगमपीत्यनेनाभिप्रायेण साम्प्रतमित्युक्तम् । तस्माद्युक्तमेवायमेवकारः ।
३८
" अ: कामचारे" तद्विषय एव शब्दे परेऽवर्णस्य लोपो भवति, यथा-इहेव तिष्ठान्यत्रेव वा तिष्ठेत्यादि । नियोगे तु, इहैव तिष्ठ मा यासीः क्वापीति' । पूज्यैर्विहस्योक्तम्- ' तत्किमस्मन्नियोगादेतावता परिवारेण सह भवानत्र स्थितः ?" तेनोक्तम्–'तर्हि अत्रैवेत्यपप्रयोगः' । पूज्यैरुक्तम्- 'प्रयोगार्थापरिज्ञानेऽपशब्दत्वं नोद्भावनीयम्' । तेनोक्तम्–'वचनमात्रेण मय्यज्ञानता नाऽऽरोपणीया' । पूज्यैरुक्तम्- 'एवमेतत्' । तेनोक्तम्- 'तर्हि भण्यतामयमेवशब्दः कस्मिन्नर्थे पूज्यैरुक्तम्- 'अनेकेष्वर्थेषु भविष्यति, परं प्रथममेकस्मिन्नर्थे भण्यते, लग्नं तं सावधानीभूय शृणु-यथा वचनमेव वचनमात्रमित्यादिषु प्रयोगेषु स्वार्थे एवशब्दः, एवमत्रापीति । अथवाऽयमर्थः यथा अपि संभावनायां प्रयुज्यते, एवमयमप्येवशब्दः संभावनायां प्रयुज्यते विद्वद्भिर्यथा - 'वपुरेव तदाचष्टे भगवन् ! वीतरागता' मित्यादि श्रीहरिभद्रसूरिवाक्येषु ।
यत्र तत्रैव गत्वाऽहं भरिष्ये स्वोदरं बुधाः । मां विना यूयमत्रैव भविष्यथ तृणोपमाः ।। [ ४७ ]
इत्यादिषु वेति चेति युक्त एवायमेवकारः । तथा पृच्छाकाले हि प्रच्छकः सावधारणं वा ब्रूयान्निवधारणं वा ब्रूयान्न तस्य वचनं विचारमर्हतीति लोकस्थितिर्यतोऽसावजानान एव पृच्छति । यस्त्वन्यदा वक्ति तस्य वचने व्यभिचारित्वादिदोषोद्भावनेन स्वशक्त्यनुसारेण कदर्थ्यते, यथा तस्य महती शोभा भवतीत्यादि विदग्धजनरीतिं विस्मारयता भवता स्वकीयं पाण्डित्यं प्रकाशितम्' इत्यादिवचनसन्दर्भेणात्मप्रयुक्तैवकारविषये उत्तराणि शतं श्रीजिनपतिसूरिमुखाम्भोजात् श्रुत्वाऽतिप्रमुदितमनसा तिलकप्रभसूरिणोक्तम्- ' आचार्य ! सकलायामपि गुर्जरत्रायां त्वं सिंह इव निःशङ्कः सन् विचरेर्न कोऽपि तव सम्मुखं प्रतिमल्लतया स्थास्यति, येन त्वया ममाप्यग्र एवं विजृम्भितमिति' । श्रीपूज्य पार्श्वस्थितेन मुनिना शकुनग्रन्थिर्वद्धः । अभूतपूर्वस्वोचितपण्डितगोष्ठीसमुद्भूतहर्षप्रकर्षात्तिलकप्रभसूरिः श्रीपूज्यान् प्रशंसन् स्वोपाश्रयं गतः ।
५७. तत्पश्चात् संघः श्रीआशापल्लयां जगाम । तत्र च साधुक्षेमन्धरः स्वपुत्रप्रद्युम्नाचार्यवन्दनार्थ वादिदेवाचार्य सत्कपौषधशालायां गतः । तेनापि च वन्दनाऽनन्तरं सादरमालपितः कुशलवार्तापृच्छनेन सः । तथा - 'साधो ! केन कार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org