________________
युगप्रधानाचार्यगुर्वावली । ऽपि कोऽपि जानात्येतत्' । तेनोक्तम्-'कथम् ?' पूज्यैरुक्तम्-'आचार्य! संघशब्देन श्रमण-श्रमणी-श्रावक-श्राविकारूपलोकसमुदायो भण्यते । यदुक्तम्-'साहण साहुणीण य सावय-सावियचउव्विहो संघो'-इत्यादि । तस्य च पतिस्तीर्थकर एवाऽऽचार्यो वा' । तेनोक्तम्-'केवलश्रावकमेलकेऽपि संघशब्दः प्रयुज्यमानो दृश्यते' । पूज्यैरुक्तम्-'कारणे कार्योपचाराद् दृश्यते यथा घृतमायुरित्यादि; परसुपचारबलेन यस्मिंस्तस्मिन् क्रियमाणे प्रयोगे मिथ्यादृष्टिलोकमध्ये कदाचिदुपहासो भवति, यदेष गृहस्थखात्तस्य श्रावकस्य किमपि कुत्सितं दृष्ट्वोपहासपरतया वक्ष्यतियदहो ! जैनानामयमादिरि(मधिपतिः?) यदेतस्मादधोवर्तिनोऽन्ये सर्वेऽपि जैनाः, अस्य चायं प्रक्षाल(?) इति । तथाऽऽचार्य ! परत उपचारं मुञ्चाहमन्यथापि संघपतिशब्दं श्रावके वर्तमानं दर्शयिष्यामि' । तेनोक्तम्-'कथम् ?' पूज्यैरुक्तम्- 'बहुव्रीहिसमासाश्रयणेन, यथा-संघः पतिर्यस्यासौ संघपतिः श्रावकमात्रः। तेनोक्तम्-'ननु मया महद्धि के श्रावके संघपतिशब्दः प्रयुक्तः' । पूज्यैरुक्तम्-'भ्रान्तिवशात् प्रयुज्यन्त एवान्यत्रापि शब्दाः' इत्येवमादिना प्रकारेण प्रपञ्चेनानेकसिद्धान्तयुक्तिप्रकाशनेन श्रावके प्रयुज्यमानतया संघपतिशब्दे निषिद्ध विलक्षीभूतः श्रीतिलकप्रभसूरिः । पुनरप्यालपितः सुखवार्ताप्रच्छनेन श्रीपूज्यैर्यथा-'साम्प्रतं यूयमत्रैव स्थाष्णवः?' इति । तेनापि सोपहासमुक्तम्-'आचार्य! अत्रैवेति त्रुवता भवताऽहो ! स्वस्य वाक्यशुद्धिनामाध्ययनार्थनैपुण्यं प्रकाशितम्' । यतस्तत्र
तहेव सावजणुमोइणी गिरा ओहारिणी जाउ परोवघाइणी' इत्यादिना ग्रन्धेन कृताऽवधारिणीं वाणी न ब्रूयान्मुनिरित्युक्तम् । भवांश्चात्रैवेति सावधारणं भाषत इति' । सरलाशयैः श्रीपूज्यैरुक्तम्-'आचार्य ! अतीव शोभना नोदना दत्ता, यतः सावधारणं वाक्यमुक्तं सत् कदाचिद् व्यभिचरत्यतो मुनिरलीकभाषी स्यात् , तथा च व्रतभङ्ग इति; परं तिलकप्रभसूरे ! भवता ममाभिप्रायो नावबुद्धोऽतः स्वाभिप्रायस्तर्कभाषया प्रकाशिष्यते । तथाऽऽचार्य ! तर्कम्य भणितस्यैतदेव फलं यन्निरभिनिवेशीभूय स्वकीयं वाक्यं यादृशं तादृशं वा यथा तथा समर्थ्यते । अद्य च काकतालीयन्यायेनाऽऽवयोगङ्गा-यमुनाप्रवाहयोरिव प्रियमेलकः संजातः, ततो यद्यभिनिवेशं मुक्त्वा तकरीत्येष्टगोष्ठी क्रियते तदा सफली भवति' । तेनाप्युक्तम्-'प्रमाणमिति' । तदनन्तरं श्रीपूज्यैरुक्तम्-'आचार्य ! साधुः सावधारणं वचनं न ब्रूयादेव किंवा कदाचिद् ब्रूयादपि? तेनोक्तम्-'कस्मिन् किं किं ? आये पक्षे स्ववचनव्याघातः।
अइयम्मि य कालम्मि य पच्चुप्पन्नमणागए।
निस्संकिय भवे जंतु एवमेयं तु निद्दिसे ॥ इत्यादिसिद्धान्तविरोधश्च । द्वितीये च पक्षे न वयमुपालभ्याः, भवदभ्युपगमानुसारेणास्माभिरुक्तखात् । तथाऽऽचार्य ! यस्मिन् वाक्येऽवधारणं साक्षान्न दृश्यते तत्र स्वयमवश्यमूहनीयम्-'सर्व वाक्यं सावधारणं'- इति न्यायाद् , अन्यथा व्यवस्था क्वापि न स्यात् । पटमानयेत्युक्ते यदपि तदप्यानयेन्नयेद् । अपि च, तथा-अर्हन् देवः, सुसाधुगुरुरित्यादिवाक्येष्वपि अर्हन्नेव देवः परमपदावाप्त्या, अर्हन् देव एव नाऽदेवः, तथा सुसाधुर्गुरुरेव परमपदपथदर्शकत्वेनाश्रित इत्यादयोऽपि नियमा न स्युः। तथा सैद्धान्तिकान्यपि वाक्यानि सावधारणानि सन्ति मनोहराणि भवन्ति,यथा"धम्मो मंगलमुक्किटं" इत्यादि धर्म एव मङ्गलमुत्कृष्टं न दधिदुग्धादि धर्मो मङ्गलमेव नामङ्गलरूपः; धर्मों मङ्गलमुत्कृष्टमेव न दधिर्वादिसमानमिति'। तेनोक्तम्-'आचार्य ! अयोगव्यवच्छेदार्थ वाऽन्ययोगव्यवच्छेदार्थ वाऽत्यन्तायोगव्यवच्छेदार्थ वैवकारः प्रयुज्यते विचक्षणैः । अत्र च प्रयुक्तेनामुनवकारेण किं व्यवच्छिद्यते ?, न तावदयोगस्तव्यवच्छेदाय च विशेषणात् पुरः पठित एव समर्थः स्यात् , अत्र च विशेषणस्यैवाभावात् ; नाप्यन्ययोगो वा, तस्य चास्माकमुद्यतविहारित्वेन स्थानान्तरयोगं निषेधुमशक्यत्वात् ; नाप्यत्यन्तायोगः, क्रियया समं पठित एव शब्दस्तदुच्छेदाय प्रभुस्तस्याश्चात्राभावात् । तस्माद्विचारासहत्वादयुक्त एवायमेवशब्द इति' । श्रीपूज्यैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org