________________
३६
मिश्रा ! आचार्यः स एव क्रियते येनानेके देशा दृष्टा भवन्त्यनेकदेशसम्बन्धिन्यश्च भाषा ज्ञाता भवन्तीति सिद्धान्तेऽस्ति । तैरुक्तम्-‘अस्तीति' । श्री पूज्यैरुक्तम्- 'कार्यकारणेन लघुवयसोऽपि वयमाचार्यपदे च प्रवेशिता इत्यतोsधुनाऽज्ञातदेशभाषापरिज्ञानार्थ संघेन सह प्रस्थितानामस्माकं तीर्थयात्रा यदि भवति तदा शङ्खो दुग्धैर्भृतः, कस्तूरिका कर्पूरेण वासितेत्येकमुत्तरम् ; तथा संघेन गाढतरं वयमभ्यर्थिता यदुत - प्रभो ! अनेकचार्वाकलोकसंकुलायां गूर्जरत्रायां तीर्थानि सन्ति, तानि च ज्योत्कर्तुं चलितानस्मान् दृष्ट्वा कश्चिच्चार्वाकस्तीर्थयात्रानिषेधाय प्रमाणयिष्यति, तदा सिद्धान्तरहस्यापरिज्ञानाद्वैदेशिकत्वाच्चास्माभिर्न किमप्युत्तरं दातुं शक्यते; अतो मा जिनशासने लाघवमभूदिति यूयं यथा तथाऽस्माभिः सह तीर्थवन्दनार्थमागच्छत - इत्यादिसंघाभ्यर्थनया वयमागता इति द्वितीयमुत्तरम् । तथा साधूनां नित्य कृत्यव्याघातसंभावनया सिद्धान्ते संघेन सह यात्रा निषिद्धेति । यदा नित्यकृत्यव्याघातो भवति तदा न क्रियत एव । अस्मिंश्च संघ उभयकालप्रतिक्रमणब्रह्मचर्य नियमकभक्ताद्यनेकाभिग्रहग्रहणपूर्व कतीर्थानि वन्दितुं श्रावकलोकश्चागतोऽस्तीति कथमस्माकमावश्यकादिनित्य कृत्यव्याघातसंभवः १' - इत्याद्यनेकयुक्तिप्रतिपादनप्रमोदिताः श्रीअकलङ्क - देवसूरयः प्राहु:- 'आचार्यमिश्राः ! खरतराचार्य इति शब्दश्रवणेनाप्यस्माभिर्ज्ञातमेव यदि (द्) यूयं पुष्टालम्बनमन्तरेण नैवमपवादमाश्रयतः परं किन्तु मारवो लोकोऽतिस्थूलभाषी श्रूयते, अद्य च मरुस्थलात् संघेन सहाचार्या आगताः सन्तीति श्रुतम् ; अतोऽम्याचार्याः कथं कथं भाषन्त इति द्रष्टुं कौतुकादागत्यास्माभिर्यूयमालपिता न विरूपा - भिप्रायेणेति यदनुचितमुक्तं तत्क्षन्तव्यम्' । पूज्यैरुक्तम् -' आचार्यमिश्रा ! इष्टगोष्ट्यामपि यदपि तदपि वक्तुमायाति, किं पुनर्वादावस्थायाम् ; अतो युष्मानुद्दिश्यास्माभिरपि यत्किञ्चिदनुचितमाचरितं तत्क्षन्तव्यमिति । तदनन्तरं तैरुक्तम्- 'आचार्यमिश्राः ! अधेह युष्माकं ब्रुवतां रीतिं पश्यतामस्माकं चित्ताद् यदेतदस्मिन् देशे श्रूयते - खरतराणामाचार्यो वादलब्धिसम्पन्नः - इति तत्किं सत्यं किंवाऽलीकमित्येवंरूपः सन्देहोऽपगतः । यतो नहि निर्मूला प्रसिद्धिर्भवति । तथाऽऽचार्य मिश्राः ! साधूनां विहरणस्यातिकालो भवत्यतो मुत्कलयामः' इति । पूज्यैरुक्तम्- 'अद्यास्माकं प्राघुणका न भविष्यथ ?' हर्षात्तैरुक्तम्- 'प्राघुर्णकास्त एवोच्यन्ते ये देशान्तरादागता भवन्ति, वयं चात्रत्या एवेति कथं युष्माकं प्राघुर्णका भवामः, यूयं पुनरस्माकं प्राघुर्णका भवन्त्विति' । पूज्यैरुक्तम् -' युक्तमेवैतद्' इत्यादिकां प्रीतिवार्तां कृत्वा हर्षितचित्ता गतास्ते निजोपाश्रयम् ।
खरतरगच्छालंकार
५६. द्वितीये च दिने तत्रत्यैः श्रावकैः श्रीपूज्यानामग्रे द्वादशावर्त्तवन्दनकं दातुं समागत्य श्रीपूज्या विज्ञप्ता यथा- 'भगवन्तो ! वन्दनकं दापयतेति' । श्रीपूज्यैर्मुद्रां धृत्वा 'यथासमाधी' त्युक्तम् । तदनन्तरं ते श्रीजिनवल्लभसूरिदशिंतमार्गागतविधिना वन्दनकं दातुं प्रवृत्ताः । हर्षवशाच्छ्रीपूज्यैरुक्तम्- 'भो भो महासत्त्वा ! गूर्जरत्रायामष्टपुटया मुखवस्त्रिकया वन्दनकं दीयते, युष्माभिः किमिति चतुष्टया दत्तम् ?' । तैरुक्तम्- 'भगवन्तो ! वयं श्री अभयदेवसूरिभिरेवं शिक्षिताः' - इत्यादिकां पूर्वजवार्तां श्रुखा कासहदे विहृताः संघेन सह । तत्रापि चैत्यवन्दनार्थं महाप्रामाणिक : पौर्णमासिकः प्रभूतसाधुपरिकलितः श्रीतिलकप्रभसूरिः समाजगाम संघमध्ये । तत्र च सुखवार्ताप्रश्नपूर्वकं स्वगुरुपादपद्मसेवाहेवोच्छलितकीर्तिपयःपूरवेलेहितक्षीरं परिहितप्रधानपट्टहीरं स्वर्णाभरणालङ्कृतमनसिजसदृशशरीरं माण्डव्यपुरीययवहरकलक्ष्मीधरश्रावकमङ्गुल्या दर्शयता तेन श्रीपूज्याः पृष्टाः - 'किमेते संघपतयः ?' इति । श्रीपूज्यैरुक्तम्- 'आचार्य ! श्राकमात्रस्य संघपतिरिति नाम दातुं न युक्तम्' । तेनोक्तम्- 'भाषा तावदेवंविधा श्रूयते । पूज्यैः सोपहासमुक्तम्'ग्रामीणजनसुलभां भापामाश्रित्योत्तरं दास्यसि ?' तेनोक्तम्- 'किं त्वमपि लोकप्रसिद्धां भाषां वचनमात्रेण त्याजयसि ?' पूज्यैरुक्तम्- 'बहुला लोकप्रसिद्धा भाषा अवगतवाक्य शुद्धिनामाध्ययनार्थैः साधुभिः परिह्रियन्ते । तथाऽऽचार्य ! नास्माकं लोकेषु कोsपि मत्सरोऽस्ति, येन तेषां भाषामप्रमाणीकुर्मः; किं तर्हि व्रतिना सता तथैव भाषया भाष्यं यया भाष्यमाणया मान्यानां लाघवं न भवति' । तेनोक्तम् - किमनया भाषया लाघवं किञ्चिद्भवति ?' पूज्यैरुक्तम्- 'सर्वो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org