________________
युगप्रधानाचार्यगुर्वावली ।
तीर्थङ्कर नाम्नात्मानं वादयन्तः परमेश्वराणां तीर्थङ्कराणां महतीमाशातनां कुरुध्वमिति । तस्माजिनपत्तिसूरिरिति नाम युक्तम्' । श्रीपूज्यैरुक्तम् - ' आचार्यमिश्राः ! स्यादेवं यदि युष्माकमेवैकं विवक्षितं प्रमाणीकुर्वन्ति विद्वांसः, परं तेऽग्रतः पश्चाच्च घनं विचारयन्त्यन्यथा तेषां प्रेक्षावत्ताहानिप्रसक्तेः । यौष्माकीणां चेदृशीं वाणीं दृष्ट्वा वयमेवं मन्यामहे यदुत युष्माभिर्लोकयात्रयैव केवलया... (?) ग्रन्थाभ्यासः परित्यक्तः । कथमन्यथा युष्माकं जिनपतिशब्द एवंविधा विप्रतिपत्तिरुत्पद्यते ?; यतो नहि लक्षणविद्यायामेक एव तत्पुरुषनामा समासो वर्णितः । सन्त्यन्येऽपि पञ्च समासा वर्णिताः । यदुक्तम्
षट् समासा बहुव्रीहिर्द्विगुर्द्वन्द्वस्तथाऽपरः । तत्पुरुषोऽव्ययीभावः कर्मधारय इत्यमी ॥ [ ४३] तथाऽन्येनापि पण्डितेन चित्री ( 2 ) प्रकटनाय षट्समासनामनिबद्धाऽऽर्या कृतेयम्
द्विगुरपि सद्वन्द्वोsहं गृहे च मे सततमव्ययीभावः । तत्पुरुष ! कर्म धारय येनाहं स्यां बहुव्रीहिः ॥
[४४]
तैरुक्तम्–'ततः किम् ?' पूज्यैरुक्तम्- 'योऽर्थः काप्येकेन समासेन न घटते स तत्र द्वितीयेन घटिष्यते, अतः किमित्युत्तालीभूयायुक्तमित्युक्तम्' । तैरुक्तम्- 'कथमन्येन समासेन जिनपतिरिति नाम युष्मासु सङ्गतिमङ्गति ?" श्रीपूज्यैरुक्तम्-‘शृणुत, जिनः पतिर्यस्यासौ जिनपतिरिति बहुव्रीहिसमासे क्रियमाणे को गुणः को वा दोषो भवतीति भणत' । तैरुक्तम्–'आचार्य मिश्रा ! बहुव्रीहौ क्रियमाणे न कोऽपि दोषो भवति, स्वस्य जैनत्वख्यापनलक्षणो गुणश्च भवति । परमिदृश्या मनसि कल्पितया कष्टपिष्टिकया किमिति लोको व्यामोह्यते ; प्राञ्जलमेव जिनपत्तिसूरिरिति नाम किमिति न क्रियते ?' पूज्यैरुक्तम्-‘येषां चेतसि लक्षणविद्या सम्यक् परिस्फुरति तेषामग्रे समं विषमं वा किमपि नास्ति । यतस्तेऽपशब्दानपि प्रधानशब्दत्वेन समर्थयन्ति, किं पुनः प्रधानशब्देषु प्रयुज्यमानेषु वाच्यम् । पुनरपि तैरुक्तम्'भवखिदमेव परं संघेन सह यात्रा क्वापि सिद्धान्ते साधूनां विधेयतया भणिताऽस्ति, यदेवं यूयं प्रस्थिताः ?' पूज्यैरुक्तम्–'किमेकमुत्सूत्रभाषकं मुक्त्वाऽन्ये विद्वांसः स्तोकं धनं वा सिद्धान्तभणितमनाश्रित्य धर्मकृत्ये प्रवर्तन्ते ?' तैरुक्तम्'आचार्य ! अतिधृष्टा यूयं यदद्यापि सिद्धान्तबलमालम्बत' । पूज्यैरुक्तम्- 'ज्ञायते लग्नं केचिद्दृष्टाः केचिन्न घृष्टा इति' । तैरुक्तम्–‘किं युष्माभिरेवैकैः सिद्धान्ता दृष्टा न द्वितीयैः ?' । पूज्यैरुक्तम्- 'यदि द्वितीयैः सिद्धान्ता दृष्टा अभविष्यन् 'ते निश्चितं नैवमवदिष्यन्' । तैरुक्तम्- 'आचार्यमिश्रा ! व्रतिना सता संघेन सह तीर्थयात्रायां न गन्तव्यमित्यादीनि निषेधकवाक्यानि सिद्धान्ते किंवा वयं दर्शयामः, किंवा यूयं विधायकाक्षराणि दर्शयथ । अथवाऽस्तु दूरे सिद्धान्तः स्वकीयगुरोरेव वचांसि मा विस्मार्ट | यतस्तेनोक्तम्
तदा
विहिसमहिगयसुयत्थो संविग्गो विहियसुविहियविहारो । कइयाsहं बंदिस्सामि सामि तं थंभणयनयरे ॥
Jain Education International
३५
[४५ ]
इत्यादि । पूज्यैरुक्तम्- 'आचार्य मिश्राः ! किमिति पुतप्राणेन (१) कथ्यते यद्वयं सिद्धान्ताक्षराणि दर्शयाम इति ? यतः स्वशक्तिस्तथैव स्फोर्यते, यदि सिद्धान्तेऽसन्त्यक्षराणि दर्श्यते तानि पुनर्दर्शितान्यपि न प्रमाणीक्रियते विद्वद्भिरिति निरर्थकं स्वशक्तिस्फोरणम् । यानि पुनः सिद्धान्तमध्ये सन्त्यक्षराणि तान्यन्यैरपि दृष्टानि भविष्यन्तीति न तानि दर्शयितुं स्वशक्तिस्फोरणं युक्तमिति' । तैरुक्तम्- 'युष्माकमपि सिद्धान्तभणितमाश्रित्यैव वयं संघेन सह यात्रायां प्रचलिता इति वक्तुं न युक्तम्' । पूज्यैरुक्तम्- 'इदमीदृशमेव, यदि कथमपि वयं सिद्धान्तानुसारेण युष्मान् परिच्छेदयितुं न शक्नुमः; परं युष्माभिरपि मात्सर्यमुत्सार्य सावधानीभूय च श्रोतव्यम् । यद्यस्मद्दर्शिता युक्तिः सिद्धान्तानुयायिनी भवति तदा माननीया, न मृतकमुष्टिरीत्याग्रहः कार्यः' । तैरुक्तम्- 'प्रमाणमिति' । तदनन्तरं श्री पूज्यैरुक्तम्- 'आचा
For Private & Personal Use Only
www.jainelibrary.org