________________
खरतरगच्छालंकार गृहे समागत्य ततः स्थानाद्धस्तिस्कन्धाधिरूढेन जयपत्रेण सह पौषधशालायामागतो ददौ च जयपत्रं श्रीपूज्यानां हस्त । पठितश्चाशिर्वादः श्रीपूज्यैः । श्रावकैश्च कारितं महावर्धापनकम् । तस्मिंश्च वर्धापनके श्रे० रामदेवेनात्मगृहात् पारुत्थद्रम्माः षोडश सहस्राणि व्ययीकृताः। सं० १२४० विक्रमपुर आत्मना पञ्चदशः श्रीपूज्यैर्गणियोगतपश्चक्रे । १२४१ फलिवर्धिकायां जिणनागाजित-पद्मदेव-गणदेव-यमचन्द्राणां धर्मश्री-धर्मदेव्योश्च दीक्षा दत्ता । सं० १२४२ माघसुदि १५ श्रीजिनमतोपाध्याया देवीभूताः । सं० १२४३ खेटनगरे चतुर्मासी कृता। सं० १२४४ श्रीमदणहिलपाटकनाम्नि पत्तन इष्टगोष्ठ्यां वर्तमानायां वश्यायमभयकुमारमुक्तवान् भाण्डशालिकसंभवः-'अभयकुमार! तव स्वाजन्येन तव कोटिसंख्यद्रव्याधिपत्येन तव राजमान्यतया किमस्माकं फलम् ? यत्त्वमस्मद्गुरून् श्रीउज्जयन्त-शत्रुञ्जयादितीर्थेषु यात्रां न कारयसि ?" एवं प्रोत्साहितः सन् वश्यायोऽपि 'भाण्डशालिक ! मा कांचिदनिवृतिं कृथाः, करिष्यामि सर्व भद्रम्'-इत्युक्त्वा राजकुलं गतः । तत्र च महाराजाधिराजभीमदेवं राजप्रधानं जगद्देवनामानं प्रतीहारं च विज्ञप्याजयमेरुवास्तव्यखरतरसंघयोग्यं स्वयं लेखितराजादेशं गृहीताऽऽत्मगृह आगतः । तदनन्तरं वश्यायेनात्मसमीपाकारितभाण्डशालिकसमक्षं राजादेशं खरतरसंघयोग्यं श्रीजिनपतिसूरियोग्यं स्वकीयं विज्ञप्तिकाद्वयं दत्वा प्रधानलेखवाहकः श्रीअजयमेरौ संघपार्श्व प्रेषितः। श्रीपूज्या अपि राजादेशदर्शनाद् वश्यायश्रीअभयकुमारसत्कविज्ञप्तिकाद्वयवाचनाच्च संघप्रार्थनया च श्रीअजयमेरुवास्तव्यसंघेन सह तीर्थवन्दनार्थ चलिताः ।
५४. त्रिभुवनगिरौ यशोभद्राचार्यसमीपेऽनेकान्तजयपताका-न्यायावतारादिजैनतर्क-दशरूपकादिग्रन्थान् भणित्वा, श्रीपूज्यादेशात् त्रिभुवनगिरीयसंघेन सह, तर्कभणनोपष्टम्भकारकशीलसागर-सोमदेवयतिद्वयसहितौ पंव्यतिपालगणिधर्मशीलगणी तीर्थयात्रोपरि प्रस्थितानां श्रीपूज्यानां मिलिखा कथयतः स्म, यथा-'प्रभो! श्रीयशोभद्राचार्येण युष्मदादेशात् प्रस्थितानामस्माकमग्रे कथितं यथा-"यदि यूयं कथयत तदहमपि युष्माभिः सह यात्रायामागच्छामि, यथा श्रीगूर्जरत्रायां सञ्चरतां श्रीपूज्यानामग्रे स्थितः काहलिक इव व्रजामि येन कोऽपि प्रतिमल्लः संमुखमपि स्थातुं न शक्नोति ममापि च निजगुरुबहुमानं कुर्वतो लघुतरः कर्मसञ्चयो भवतीति"-अस्माभिस्तु युष्मनिरोपाभावानिषिद्धः श्रीमदाचार्यः । श्रीपूज्यैरुक्तम्-'रुचिरं कुर्वीध्वं यदि तमाचार्यमानयध्वम् । भोरिदानीमपि कथमपि स आगच्छति ?' तैरुक्तम्'प्रभो! इदानीं दूरदेशे वर्तते स इति नागच्छति । तथा, यथा चतुर्दश सहस्राणि नदीप्रवाहा गङ्गाप्रवाहे मिलन्त्येवं विक्रमपुर-उच्चा-मरुकोट्ट-जेसलमेरु-फलवधिंका-ढिल्ली-वागड-माण्डव्यपुरादिनगरवास्तव्यभव्यलोकसंघा अहमहमिकया श्रीअजयमेरवीयसंघस्य मिलिताः। श्रीपूज्या अपि विद्यागुणेन तपोगुणेनाचार्यमन्त्रादिशक्त्या श्रावकलोकभक्त्या संसारविरक्त्या बृहस्पतिप्रायप्राणि(वाणी?)संसक्त्या स्थाने स्थाने प्रवचनप्रभावनां कुर्वन्तः श्रीसंघेन सह प्राप्ताश्चन्द्रावत्याम् ।
५५. तत्र च संघमध्यस्थितरथप्रतिमावन्दनार्थ पञ्चदशभिः साधुभिः पञ्चभिराचार्यैश्च सह प्रामाणिकाः पूर्णिमापक्षीयाः श्रीअकलङ्कदेवसूरयः समागत्य रथप्रतिमास्नानमहोत्सवदर्शनार्थमिलितलोकमेलापकदर्शनाद् व्याघुय्य दूरदेशे वृक्षस्याधस्तात् स्थिताः । श्रीपूज्यैश्च मानुषं प्रेष्य पृच्छापितास्ते, यथा-'आचार्यमिश्राः ! केन कारणेन चैत्यवन्दनामकृत्वैव यूयं व्याघुट्य स्थिताः ?' इति । तैरपि प्रेषितमानुपस्याग्रे कथितं यथा-'येत्राचार्याः सन्ति तेऽस्माभिः सह लघुबृहत्तया व्यवहारं करिष्यन्तीति ?' । तेनाप्यागत्य पूज्यानामग्रे भणितम् । पूज्यैश्च-'करिष्यते व्यवहारः, शीघ्रमागच्छते' त्यादि भाणितं तन्मुखेन तेषामग्रे । तदनन्तरं ते समागत्य ज्येष्ठानुक्रमेण वन्दनानुवन्दनादिकं सर्व कृतवन्तः। अकलङ्कदेवसूरिभिरुक्तम्-'किं नामधेया आचार्यमिश्राः ?' पार्थस्थितेन मुनिनोक्तम्-'श्रीजिनपतिसूरिनामानः श्रीपूज्याः' । तत्पश्चात्तैरुक्तम्-'आचार्यमिश्राः ! केन कारणेनेदृशमयुक्तमात्मनाम कारितम् ?' । पूज्यैरुक्तम् -'कथं ज्ञायतेऽयुक्तमेतदिति ?' तैरुक्तम्-'व्यक्तमेव ज्ञायते; तथाहि जिनशब्देन सामान्यकेवलिन उच्यन्ते तेषां पतिस्तीर्थङ्कर एवेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org