Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 45
________________ १८ खरतरगच्छालंकार तानां श्रीजिनदत्तसूरीणामतिशयज्ञानिनां पार्श्वे विमलचन्द्रगणिर्देव गृहनिवासी सोडप्याचार्ययोर्वसति निवासप्रतिपतिं श्रुत्वा वसतिमार्गमङ्गीकृतवान् । तस्मिन्नेव प्रस्तावे जिनरक्षित - शीलभद्रौ मात्रा सह प्रव्रजितौ । तथा थिरचन्द्र-वरदनामानौ भ्रातरौ प्रव्रजितौ । जयदत्तनामा मुनिर्मन्त्रवादी । तस्य पूर्वजा मत्रशक्तियुक्ता आसन् । ते सर्वेऽपि रुष्टया देवतया विनाशिताः । एष पुनर्नष्टः श्रीजिनदत्तसूरीणां शरणागतो व्रतं गृहीतवान् । श्रीपूज्यैस्ततो रक्षितो देवतात । गुणचन्द्रगणिः सोऽपि श्रीजिनदत्तसूरिभिर्दीक्षितः । पूर्वं स श्रावकः सन् तुरुष्कैनीत आसीत् । हस्तदर्शनेन चङ्गी भाण्डारिको भविष्यतीति । नाशनभयात् संकलानिबद्धः । तेन च नमस्कारलक्षं गुणितम् । तत्प्रभावात् संकला स्वयमेव त्रुटिता । ततो निर्गत्य रात्रिपश्चिमप्रहरार्धे कस्याश्चिद्वृद्धाया गृहेऽवातिष्ठत् । तया च कृपया कोष्ठिकामध्ये प्रक्षिप्तस्तुरुष्कैः प्रेक्षितो न लब्धः । रात्रौ निर्गत्य स्वदेशे गतः । तेन च संवेगेन व्रतं गृहीतम् । रोमचन्द्रगणिर्जीवानन्दपुत्रसहितोऽन्यगच्छाद्भव्यं धर्मं ज्ञात्वा श्रीजिनदत्तसूरेराज्ञां प्रतिपन्नः । तथा ब्रह्मचन्द्रगणिव्रतं गृहीतवान् । एतेषां मध्याजिनरक्षित- स्थिरचन्द्रप्रभृतिसाधवः, श्रीमति - जिनमति - पूर्ण श्रीप्रभृतित्रतिन्यश्च धारायां प्रेषिता वृत्तिपञ्जिकादिलक्षणभणनार्थम् | तैश्च भणितं श्रावक साहाय्येने । आत्मना श्रीजिनदत्तसूरयोरुद्रपल्ल्यां विहृताः । तत्र पथि गच्छतामेकस्मिन् ग्रामे श्रावक एकः प्रतिदिनं व्यन्तरेण प्रचण्डेन पीड्यते, तस्य पुण्येन श्रीजिनदत्तसूरिस्तत्रैवोत्तरितः । तेन विज्ञप्तं शरीरस्वरूपम् । परिभावितं सूरिभिर्मत्रतत्रैः साध्यः पीडाकर्तृव्यन्तरः । ततो गणधरसप्ततिकां कृत्वा, टिप्पणके लेखयित्वा, हस्ते टिप्पनकं दत्तम्, हृदयं दृष्टिश्चात्र निवेशनीया श्राद्धस्याग्रे कथितम् । तेन च तथा कृतम्। स च व्यन्तरो विस्तरेण पीडायै समागतः खवासीमाम्, न शरीरे संक्रान्तो गणधर सप्ततिकाप्रभावात् । द्वितीयदिने द्वारसीमां समाग/ तस्तृतीयदिने नाऽऽगतः, श्रावकः स्वस्थो जातः, किं बहुना । रुद्रपल्ल्यां प्राप्ताः । जिनशेखरोपाध्यायाः श्रावकैः सहिताः सम्मुखाः समाजग्मुर्विस्तरेण मध्ये प्रविष्टाः । विंशत्युत्तरं शतं कुटुम्बानां तत्र श्रीजिनवचने कारितम् । पार्श्वनाथऋषभचैत्यद्वयं प्रतिष्ठितम् । श्रावकैः सम्यक्त्वमङ्गीकृतं देशविरतिरङ्गीकृता । सर्वविरतिश्च देपालगणिप्रभृतिभिः श्रावकैः सद्भिः परिगृहीता । तेषां समाधानमुत्पाद्यात्र जयदेवाचार्य प्रेषयिष्याम इति भणिवा पुनः पश्चिमदेशे विहृताः । ३५. वागडदेशे समायाताः तत्रापि व्याघ्रपुरे । श्रीजयदेवाचार्याः शिक्षां दत्त्वा श्रीरुद्रपल्ल्यां मुत्कलिताः । तत्र स्थितैश्च च च री श्रीजिनवल्लभसूरिप्ररूपित श्री चैत्यगृहविधिस्वरूपा कृता । सा च टिप्पनके लेखयित्वा प्रेषिता..... वासलप्रभृतिश्रावकाणां ज्ञानार्थम् । विक्रमपुरे देवधरपितृसहियागृहसमीपे पौषधशालाऽस्ति । तत्र श्रीजिन श्रावकैरुपविश्योच्छोटितं चच्चरीटिप्पनकम् । 'चच्चरीटिप्पनकं कच्चरीटिप्पनकं' भणिला मदोन्मत्तेन देवधरेण हस्तादुद्दालय द्विधा कृतम् । तस्य किमपि कर्तुं न शक्नुवन्ति । पितुरग्रे वार्ता कथिता । तेनोक्तम्- गाढ एषः, तथापि वारयिष्यामः । पुनरपि पूज्येभ्यो लेखो दत्तस्तत्र चच्चरीटिप्पनकस्वरूपं लिखितम् । श्रीपूज्यैलेखखरूपं परिभाव्य द्वितीयटिप्पनकं प्रेषितम्, लेखश्च प्रेषितः । इदं च लिखितम् - देवधरस्योपरि विरूपकं न भणनीयम्, देवगुरुप्रसादाद्भन्यो भविष्यति । द्वितीयटिप्पनकं प्राप्तं तेषाम् । प्रतिपन्योच्छोटितं वाचितं समाधानं जज्ञे । देवधरेण चिन्तितम् - यद्यपि मया स्फाटितं टिप्पनकं तथापि पुनरपि प्रेषितम्, कारणेन भवितव्यम् । किं तत्राऽलेखि प्रच्छन्नं परिभावयाम्येकान्ते । यदा श्राद्धाष्टिप्नकं स्थापनाचार्या के मुक्त्वा द्वारं स्थगयित्वा गतास्तदोपरि पाटके स्वगृहात् प्रविश्य बहिर्द्वारे स्थगितेऽपि टिप्पनकं गृहीतम् । वाचयितुं प्रवृत्तः । यथा यथाऽर्थानवधारयति तथा तथा मनस आह्लाद उत्पद्यते । अनायतनं बिम्बम् स्त्री पूजा न , १ 'गुरूणां ' इत्येव प्र० । २ विमलचन्द्राचार्यैः चैत्यवासिभिर्वसतिवासोऽङ्गीकृतः । ३ - ३ एतदङ्काङ्किता पंक्तिर्नास्ति प्र० । ४-४ एतदङ्कितपाठस्थाने प्र० ' गुणचन्द्रः सोऽपि दीक्षितः । पूर्वं श्राद्धः सन् तुरुष्कैर्नीतो हस्तदर्शनात् भव्यो भांडारि भविष्यति । नाशनभयात्संकलया बद्धः । नमस्कारलक्षं गुणितं । संकला स्वयमेव त्रुटिता । रात्रौ निर्गत्य स्वदेशे गतौ गुरुं दृष्ट्वा संवेगेन व्रतं गृहीतम् । इत्येष पाठो लभ्यते । ५-५ नास्ति पंक्तिरियं प्र० । ६-६ ततो विहृताः । ७-७ एतदङ्काङ्कितं प्रकरणं नास्ति प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148