Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 54
________________ युगप्रधानाचार्यगुर्वावली। २७ निर्वचनीकृतः पद्मप्रभः प्रोक्तवान् यथा-'महाराज ! यदि यौष्माकीणं वचनं भवति तदिदानीमत्रोपविष्टविशिष्टलोकप्रमोदोत्पादनाय कुतूहलानि दर्श्यन्ते; तद्यथाऽऽकाशमण्डलादवतीर्य युष्मदुत्सङ्गे निविष्टामतिरूपपात्रामेकां विद्याधरीं दर्शयामि, पर्वतमङ्गुलमयं कृखा दर्शयामि, नभस्तल इतस्ततो नृत्यमानान् हरिहरादीन् देवान् दर्शयामि, उच्छलत्कल्लोलमालाकरालं पारावारं समागच्छन्तं दर्शयामि, सकलमपीदं नगरमाकाशस्थितं दर्शयामीत्यादि' । सम्यैविहस्योक्तम्-'पण्डित पद्मप्रभ ! यदि भवतेदृक्षेन्द्रजालकला शिक्षिता तत्किमाचार्यैः सह पादः प्रारब्धः। श्रीपृथ्वीराजदानलाभाभिप्रायनिरन्तरसमागच्छदपरलक्षसंख्येन्द्रजालिकैः समं प्रारभ्यताम् । हर्षाकुलचित्तेन तेनोक्तम्-पण्डितमिश्रा ! अयमाचार्यः सर्वकलाकुशलमात्मानं मन्यतेऽतो यद्यद्य श्रीपृथ्वीराजसभायां युष्माकं समक्षं गर्वपर्वतान्नोत्तारयिष्यते तदैष वातेन भिद्यमानो धर्तुमपि न शक्यते' । विहसितवदनान् श्रीपूज्यान् दृष्ट्वा तेनोक्तम्-'आचार्य ! किं विलक्षं हससि? अयं सोऽवसरो यदि काचिच्छक्तिरस्ति तदा दर्शय सर्वलोकचेतश्चमत्कारि किमपि कलाकौशलं स्वकीयम् , किं वाऽमुष्याः सभातो बहिनिःसरेति' । तदनन्तरं श्रीपूज्यैर्जिनदत्तसूरिनाममत्रस्मरणपूर्वमुक्तम्-'पद्मप्रभ ! त्वं तावदात्मशक्तिस्फोरणानुसारेण यथोक्तमिन्द्रजालं प्रथमं निष्कासय, पश्चाद् वर्तमानकालोचितं किमपि वयमपि करिष्यामः' । कुतूहलावलोकनाभिलाषाकुलतया श्रीपृथ्वीराजेन सोत्सुकसुक्तम्-'पद्मप्रभ ! आचार्येणानुमतिर्दत्तातस्त्यतो वेगं कृत्वा स्वेच्छानुसारेण दर्शय नानाविधानि कौतुकानीति' । तदनन्तरमन्तःशून्यत्वादाकुलव्याकुलेन श्रीमत्पूज्यपुण्यप्राग्भारप्रेरितेन च पद्मप्रभेणोक्तम्-'महाराज ! अद्य रात्रौ देवी पूजयित्वाऽभीष्टदेवताह्वानमत्रमेकाग्रचित्तेन ध्यात्वा कल्ये नानाविधमिन्द्रजालं दर्शयामि'-इति श्रुत्वा च हास्यरसोत्कर्षोच्छलदमन्दानन्दाश्रुव्यापूर्णनयनैः सर्वैरपि लोकैर्दुर्वाक्यभाषणपूर्वकं गाढतरमुपहसितः पद्मप्रभः । तत्पश्चानिर्लज्जचूडामणिना तेन सविकाशवदनान् श्रीपूज्यानवेक्ष्योक्तम्-'आचार्य ! किं हससि ?, यदि त्वं भद्रोऽसि तदिदानीमेव किमपि दर्शय' इति विहस्य श्रीपूज्यरुक्तम्'पद्मप्रभ ! स्थिरीभूय ब्रूहि, किमिन्द्रजालमुच्यते ?' तेनोक्तम्-'त्वमेव ब्रूहि' । श्रीपूज्यैरुक्तम्-'देवानाम्प्रिय ! असंभवद्वस्तुसत्ताविर्भावः' । 'तत् किम् ?' श्रीपूज्यैरुक्तम्-'पद्मप्रभ ! तदिदमद्य तवैव प्रत्यक्षीभूतं किं न पश्यसि ?' तेनोक्तम्-'किमिति ?' तदन्तरं श्रीपूज्यैः सोत्कर्षमुक्तम्-'महानुभाव ! किं त्वया स्वमान्तरेऽपि संभावितमिदं कदाचिद् , यदहं विशिष्टासनोपविष्टसहस्रसंख्यमुकुटबद्धराजराजिविराजितायां श्रीपृथ्वीराजसभायां गत्वा यथेच्छया वक्ष्यामीति परमिदमसंभाव्यमपि दैवनियोगादस्मत्सान्निध्यादद्य संजातमिति, कोऽस्येन्द्रजालाद् भवच्चिकीर्षिताद् भेद इति ?' । पुनरपि क्रूराशयतया लोकोपहासमवगणय्य राजानमुद्दिश्य तेनोक्तम्-'महाराज! अनाक्रमणीयपराक्रमाक्रान्तनिजपदाधःकृतप्रतापप्रचण्डप्रभूतभूपतिवातसततमृग्यमाणादेशामृतसर्वस्वे त्वयि सकलामपि पृथ्वी शासति युगप्रधान इति विरुदमात्मन्ययमाचार्यः प्रचुरत्यागदानवशीकृतसमस्तभट्टलोकमुखेन पाठयति' । राज्ञोक्तम्-‘पद्मप्रभ! युगप्रधान इत्यस्य कः शब्दार्थः ?' सहर्षेण तेनोक्तम्-'महाराज ! युगशब्देन वर्तमानः कालो भण्यते, तस्मिंश्च यः प्रधानः सर्वोत्तमः स युगप्रधानशब्देनोच्यते' । अत्रान्तरे श्रीपूज्यैवेंगादेवोक्तम्-'मूर्ख पद्मप्रभ ! यदपि तदपि भणित्वाऽस्माकं मुखोपरि राजानमुच्छालयितुमिच्छसि । श्रीपृथ्वीराजराजानमुद्दिश्य चोक्तम्-'महाराज ! भिन्नरुचयः सर्वेऽपि प्राणिन इति केषांचित् कोऽपि सुखायते । ततो यः कश्चिद्यपानभीष्टो भवति तं प्रति नानाविधान्तरङ्गरसूचकानेकविरुदन्यासमनोहरान् प्रधानशब्दानुच्चरन्ति ते । यथा त्वामाश्रित्य-जीवाऽऽदिश, पादावधार्थताम्-इत्यादिशब्दान् भणन्ति भवत्पादारविन्दाराधनैकसावधानमानसश्रीकइमासमण्डलेश्वरप्रमुखराजप्रधानलोकाः, तथैतानुदिश्य यथोक्तान् शब्दानुश्चारयन्त्येतत्सेवका इति । एवं तेषामपि सेवकाः प्रवर्तन्ते । अन्योऽपि लोकः सर्वोऽपि वल्लिभजनं नानाविधैर्वचनैपदियति परं न कोऽपि तेषां दोषमुद्घाटयति । अयं च पद्मप्रभोऽस्यां सभायामित्थं यदपि तदप्युल्लण्ठं वदन् स्वस्म सर्वजनप्रत्य १ °मुपच्छाल° आदर्श । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148