Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 53
________________ २६ खरतरगच्छालंकार यो मयि वृत्तादिकं पठति कूटानि निष्कासयति ?' श्रीपूज्यैरुक्तम्-'यद्येवं तर्खेतदेव वृत्तं पुनरपि पठ' । 'जनार्दनविद्यापतिप्रभृतिपण्डितमिश्राः! यूयं सावधानीभूय शृणुत । पद्मप्रभेण पठ्यमानं वृत्तम्' । रोऽन्तःक्षुभितोऽपि धाष्टात् पठितुं लग्नः । श्रीपूज्यैः सभ्यान साक्षिणः कृत्वा तत्पठितवृत्ते दश कूटानि दर्शितानि तथा 'महापुरुष! एवं पठ्यमानं शुद्धं वृत्तं भवति; यथा प्राणान्न हिंस्यान्न पिबेच मद्य, वदेच्च सत्य न हरेत् परस्तम् । परस्य भायों मनसा न वाञ्छेत् , स्वर्ग यदीच्छेद् विधिवत् प्रवेष्टुम् ॥ [२८] वैलक्ष्यात् पुनरपि स प्राह-'आचार्य ! अनया वचनरचनया मुग्धजनान् विप्रतारयसि । श्रीपूज्यैरुक्तम्-'त्वमपि विप्रतारय यदि शक्तिरस्ति' । मण्डलेश्वर-कइमासेनोक्तम्-'किमिति प्रथममेव शुष्कवादः प्रारब्धः ?; यदि युवयोः कापि शक्तिरस्ति तदैकः कश्चित् पदार्थ स्थापयतु, द्वितीयस्तन्निराकरोतु । श्रीपूज्यैरुक्तम्-'पद्मप्रभ ! रुचिरं भणति मण्डलेश्वर इति, कञ्चित् पक्षं कक्षीकृत्य ब्रूहि । स प्राह-'आचार्य ! जिनशासनाधारभूतप्रभूतश्रीमदाचार्यसंमतदक्षि. णाव रात्रिकावतारणविधिपरित्यागे किं कारणम् ?' । 'वक्रो वक्रोक्त्यैव निर्लोठ्यः' इत्याशयवद्भिः श्रीपूज्यैरुक्तम्'किं यद् बहुजनसंमतं भवति तदादरणीयम् ?; मिथ्यात्वमपि तर्हि किमिति नाद्रियते?" स प्राह-'वृद्धपरम्परयाऽऽगतं सर्वमप्याद्रियामहे' । श्रीपूज्यैरुक्तम्-'वृद्धपरम्परानागतोऽपि किमिति भवत्पूर्वजैश्चैत्यवास आदृतः । स प्राह'कथं ज्ञायते वृद्धपरम्परानागतः ?' इति । श्रीपूज्यैरुक्तम्-'किं श्रीमहावीरसमवसरणेऽन्यस्मिन् वा जिनभवने श्रीगौतमस्वामिगणधरः शयानो भुञ्जानो वा कदापि क्वापि श्रुतः । उत्तरदानासामर्थ्यवैलक्ष्यात् स प्राह-'आचार्य ! कर्णे स्पृष्टः कटिं चालयसि !; अहमपृच्छे दक्षिणावर्तारात्रिकावतारणविधिवृद्धपरम्परागतोऽपि किमिति परित्यक्त इति, त्वं च चैत्यवासमादायोत्थितः । श्रीपूज्यैरुक्तम्-'मूर्ख! वक्रे काष्ठे वक्रो वेधः क्रियत इति न्यायो भवता विस्मारितः ?; अथवा भवलिदानी सावधानीभूय शृणु-ननु दक्षिणावर्तारात्रिकावतारणविधिवृद्धपरम्परागत इति कथं ज्ञायते ? । सिद्धान्ते तावदारात्रिकविचारो नास्ति; किन्तु श्रेयस्कृते पाश्चात्यैर्बहुश्रुतैराचीर्णः । तैश्च स किं दक्षिणावर्तो वामावर्तो वाऽऽचीर्ण इति विप्रतिपत्तिनिरासार्थ युक्तिर्गवेषणीया । न शवमुष्टिन्यायः कर्तव्यः । यद् युक्तं प्रतिभाति तदादरणीयं न शेषम् ।' सभ्यैरुक्तम्-'पद्मप्रभ ! सत्यमाहाचार्यः । तदनन्तरं सभ्यसम्मत्या प्रमाणरीत्या श्रीपूज्यैः सभ्यशरीररोमाङ्कुरपूरोद्भेदैकसारिण्या गीर्वाणवाण्या तस्यां सभायां यथा वामावर्तारात्रिकावतारणं स्थापितं तथा प्रद्युम्नाचार्यकृतवादस्थानकोपरि श्रीपूज्यकृतवादस्थलेभ्योऽवसेयम् । अत्र गौरवभयान्न लिखितम् । किम्बहुना, हर्षपरवशैः सभ्यैः श्रीपूज्यानुद्दिश्य जयजयकारश्चक्रे । ४९. असिन्नवसरे श्रीपृथ्वीराजः सभामध्ये समागतः । सिंहासने चोपविश्य पप्रच्छ मण्डलेश्वरम्-'केन जितं केन हारितम् ?' । श्रीपूज्यानङ्गुल्या दर्शयता मण्डलेश्वरेणोक्तम्-'देव ! एतेन जितमिति' । अमर्षात् पद्मप्रभः प्राह'महाराज ! मण्डलेश्वरो लश्चाग्रहण एव प्रवीणो न गुणिनां गुणग्रहणे । उच्छलत्कोपावेशान्मण्डलेश्वरः प्राह-'रे मुण्डिक ! श्वेतपट ! अद्यापि न किमपि विनष्टम् , अयमाचार्यों वर्तते, त एवैते सभ्यावर्तन्ते मया लञ्चा गृहीताऽस्त्यतोऽहं मौनं कृत्वा तिष्ठामि लमः; त्वं चेदिदानीमपि श्रीपृथ्वीराजसमक्षमाचार्य जेष्यसि तदा प्रागपि जितमेवेति' । स प्राह-'मण्डलेश्वर ! नाहं कथयामि भवताऽऽचार्यपाल्लिञ्चा गृहीता; किन्तु सर्वाचार्यसंमतदक्षिणावर्तारात्रिकावतारणविधि गर.पर्दरिकाप्राणेन निषेध्याचाण प्रत्यायितो मण्डलेश्वर इति' । श्रीपूज्यैरुक्तम्-'महात्मन् पद्मप्रम! सर्माचार्य युक्तमुक्तम् , असदाज्ञावा.ार्याणामसंपतत्वात् । स प्राह-'किं यूयमन्यतराचार्येभ्यो घनतरं खतारो पदेषां नितमर्थ न न्यध्वे । श्रीपूज्यैरुक्तम्-'पद्मप्रभ ! किमन्ये आचार्या असदाज्ञावाचार्येभ्यो घनतरं ज्ञातारो यत्तेषां संमतं वामावर्तारात्रिकविधिं न ते मन्यन्ते "-इत्यादि वक्रोक्तिभणनेन श्रीपृथ्वीराजसमक्षं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148