Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 57
________________ |३५ ३० खरतरगच्छालंकार शक्तियुक्तानां न युज्यत इदृशीं सम्यस्यां पूरयितुमिति' । तदनन्तरं श्रीपूज्यैः क्षणमेकं विमृश्योक्तम् चकर्त दन्तद्वयमर्जुनः शरैः कीां भवान् यः करिणो रणाङ्गणे। दिक्षया यान्तमिलाप दूरतः क्रमादमुं नारदमित्यबोधि सः॥ ' इत्येतद्व्याख्यानावसाने च विस्मयरसपरवशैः पण्डितैरुक्तम्-'आचार्य ! भगवती सरस्वती वय्येवैकस्मिंस्तुष्टा, यदेवं चिन्तितान् पदान् ददाति' । पार्बोपविष्टश्रीजिनमतोपाध्यायेनोक्तम्-'पण्डितमिश्राः ! सत्यमेतद् यदाचार्यविषये परमेश्वरी श्रीवाग्देवी प्रसन्नाऽभूदिति, कथमन्यथैषा भगवती निजपुत्रैर्युष्माभिः सहाचार्यस्य साङ्गत्यमकारयत्' । पण्डितैरुक्तम्-'पद्मप्रभ ! त्वमपि किमपि ब्रूहि । स प्राह-'क्षणमेकं प्रतीक्षध्वं चिन्तयन्नमि' । तैश्च स-'पण्मासान यावचिन्तयेरि'त्युपहसितः। तथा भणितम्-'सर्वाधिकारिन् ! मण्डलेश्वरकइमास ! आचार्यसदृशः कोऽपि विद्वान् दृष्टः स प्राह-'अद्याग्रतो न दृष्टः' । अङ्गुल्या निजतुरङ्गमान् दर्शयता राज्ञोक्तम्-'आचार्य! परतः पश्य पश्येत्यमी पट्टघोटकाः केन कारणेनोत्पतन्ति ?' श्रीपूज्यैर्विमृश्योक्तम्-'शृणु महाराज! ___ ऊर्ध्वस्थितश्रोत्रवरोत्तमाङ्गा जेतुं हरेरश्वमिवोधुराङ्गाः । खमुत्प्लवन्ते जवनात्तुरङ्गात्तवाऽवनीनाथ ! यथा कुरङ्गाः॥ एतदर्थश्रवणे च प्रसन्नवदनं राजानं दृष्ट्वा पण्डितैरुक्तम्-'आचार्य ! उदयगिरिनाम्नि हस्तिन्यध्यारूढः कीदृशः पृथ्वीराजः शोभत इति वर्णय' । पूज्यैहृदये विमृश्योक्तम् विस्फूर्जद्दन्तकान्तं लसदुरुकटकं विस्फुरद्धातुचित्रं, पार्विभ्राजमानं गरिमभृतमलं शोभितं पुष्करण। पृथ्वीराजक्षितीशोदयगिरिमभिविन्यस्तपादो विभासि, ___ त्वं भास्वान् ध्वस्तदोषः प्रबलतरकराक्रान्तपृथ्वीभृदुच्चैः॥ [३०] इति वृत्तार्थ श्रुखा प्रसाददानाभिमुखे राजनि सति पण्डितैरुक्तम्-'देव ! इतः स्थानाच्चतुर्दिक्षु योजनशतमध्ये ये केचन विद्वांसो विद्यावाहुल्यस्फुटदुदरोपरिदत्तसुवर्णपट्टाः श्रूयन्ते तेभ्यः सर्वेभ्य एव लक्षणस्मृत्या साहित्यपरिचयेन तर्काम्यासेन सिद्धान्तावगत्या लोकव्यवहारपरिज्ञानेनायमेवाचार्यः समधिकः । किम्बहुना, सा विद्यैव नास्ति याऽस्य मुखाम्भोजे सुखासिकया न विलसति' । समस्यामपूरयित्वाऽपि पद्मप्रभेणोक्तम्-'महाराज! केषांचिन्मानुषाणां पार्श्वे विद्या असन्त्य एव भद्राः, यतस्ते तद्विद्याबलेन लोकैः सह निरन्तरं कलहायमानाः सकलमपि जगदुत्सूत्रयन्ति । यदुक्तम् विद्या विवादाय धनं मदाय प्रज्ञाप्रकर्षाऽपरवञ्चनाय। अभ्युन्नतिर्लोकपराभवाय येषां प्रकाशे तिमिराय तेषाम् ॥ [३८] श्रीपूज्यैरुक्तम्-'भद्र पद्मप्रभ ! त्वदग्रे किंचिदभिहितं भणामि भग्नस्त्वं मा रुष'। तेनोक्तम्-'भण महानुभाव !' 'इत्थमशुद्धं वृत्तादिकं पठन्तमेकमपि यतिनं दृष्ट्वा सर्वोऽपि मिथ्यादृष्टिलोको-अहो ! एते श्वेतपटाः शुद्धमपि पठितुं न जानन्ति किमन्यज्ज्ञास्यन्तीत्युपहसति-अतः कारणादस्मिन् वृत्तेऽद्य पश्चाद्भवता 'प्रकर्षः परवञ्चनायेति 'प्रकाशस्तिमिरायेति च पठनीयम् । तथाऽस्मिन्प्रस्तावे 'विद्या विवादाये'त्यादिसुभाषितमसम्बद्धमुक्तम् , यतो धर्मशील! किमस्माभिरुक्तं यत्त्वमस्माभिः सह वादं गृहाण, किं वा त्वयैवासद्भक्तश्रावकाणामग्रे कथितं यदहो! अत्रानयत स्वगुरुं यथेदानीमपि जयामीति' । स स्वस्कन्धास्फालनपूर्व प्राह-'मया कथितम् । पू स –'कस्य शक्त्या ?" स पाह 'खशच्या।' पूज्यैरुक्तम्-'इदानीं सा कि काकैर्भक्षिता ?' स प्राह-'नहि नहीं'ति । पूज्यैरुक्तम्-'तर्हि क गता ?' स Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148