Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 61
________________ खरतरगच्छालंकार गृहे समागत्य ततः स्थानाद्धस्तिस्कन्धाधिरूढेन जयपत्रेण सह पौषधशालायामागतो ददौ च जयपत्रं श्रीपूज्यानां हस्त । पठितश्चाशिर्वादः श्रीपूज्यैः । श्रावकैश्च कारितं महावर्धापनकम् । तस्मिंश्च वर्धापनके श्रे० रामदेवेनात्मगृहात् पारुत्थद्रम्माः षोडश सहस्राणि व्ययीकृताः। सं० १२४० विक्रमपुर आत्मना पञ्चदशः श्रीपूज्यैर्गणियोगतपश्चक्रे । १२४१ फलिवर्धिकायां जिणनागाजित-पद्मदेव-गणदेव-यमचन्द्राणां धर्मश्री-धर्मदेव्योश्च दीक्षा दत्ता । सं० १२४२ माघसुदि १५ श्रीजिनमतोपाध्याया देवीभूताः । सं० १२४३ खेटनगरे चतुर्मासी कृता। सं० १२४४ श्रीमदणहिलपाटकनाम्नि पत्तन इष्टगोष्ठ्यां वर्तमानायां वश्यायमभयकुमारमुक्तवान् भाण्डशालिकसंभवः-'अभयकुमार! तव स्वाजन्येन तव कोटिसंख्यद्रव्याधिपत्येन तव राजमान्यतया किमस्माकं फलम् ? यत्त्वमस्मद्गुरून् श्रीउज्जयन्त-शत्रुञ्जयादितीर्थेषु यात्रां न कारयसि ?" एवं प्रोत्साहितः सन् वश्यायोऽपि 'भाण्डशालिक ! मा कांचिदनिवृतिं कृथाः, करिष्यामि सर्व भद्रम्'-इत्युक्त्वा राजकुलं गतः । तत्र च महाराजाधिराजभीमदेवं राजप्रधानं जगद्देवनामानं प्रतीहारं च विज्ञप्याजयमेरुवास्तव्यखरतरसंघयोग्यं स्वयं लेखितराजादेशं गृहीताऽऽत्मगृह आगतः । तदनन्तरं वश्यायेनात्मसमीपाकारितभाण्डशालिकसमक्षं राजादेशं खरतरसंघयोग्यं श्रीजिनपतिसूरियोग्यं स्वकीयं विज्ञप्तिकाद्वयं दत्वा प्रधानलेखवाहकः श्रीअजयमेरौ संघपार्श्व प्रेषितः। श्रीपूज्या अपि राजादेशदर्शनाद् वश्यायश्रीअभयकुमारसत्कविज्ञप्तिकाद्वयवाचनाच्च संघप्रार्थनया च श्रीअजयमेरुवास्तव्यसंघेन सह तीर्थवन्दनार्थ चलिताः । ५४. त्रिभुवनगिरौ यशोभद्राचार्यसमीपेऽनेकान्तजयपताका-न्यायावतारादिजैनतर्क-दशरूपकादिग्रन्थान् भणित्वा, श्रीपूज्यादेशात् त्रिभुवनगिरीयसंघेन सह, तर्कभणनोपष्टम्भकारकशीलसागर-सोमदेवयतिद्वयसहितौ पंव्यतिपालगणिधर्मशीलगणी तीर्थयात्रोपरि प्रस्थितानां श्रीपूज्यानां मिलिखा कथयतः स्म, यथा-'प्रभो! श्रीयशोभद्राचार्येण युष्मदादेशात् प्रस्थितानामस्माकमग्रे कथितं यथा-"यदि यूयं कथयत तदहमपि युष्माभिः सह यात्रायामागच्छामि, यथा श्रीगूर्जरत्रायां सञ्चरतां श्रीपूज्यानामग्रे स्थितः काहलिक इव व्रजामि येन कोऽपि प्रतिमल्लः संमुखमपि स्थातुं न शक्नोति ममापि च निजगुरुबहुमानं कुर्वतो लघुतरः कर्मसञ्चयो भवतीति"-अस्माभिस्तु युष्मनिरोपाभावानिषिद्धः श्रीमदाचार्यः । श्रीपूज्यैरुक्तम्-'रुचिरं कुर्वीध्वं यदि तमाचार्यमानयध्वम् । भोरिदानीमपि कथमपि स आगच्छति ?' तैरुक्तम्'प्रभो! इदानीं दूरदेशे वर्तते स इति नागच्छति । तथा, यथा चतुर्दश सहस्राणि नदीप्रवाहा गङ्गाप्रवाहे मिलन्त्येवं विक्रमपुर-उच्चा-मरुकोट्ट-जेसलमेरु-फलवधिंका-ढिल्ली-वागड-माण्डव्यपुरादिनगरवास्तव्यभव्यलोकसंघा अहमहमिकया श्रीअजयमेरवीयसंघस्य मिलिताः। श्रीपूज्या अपि विद्यागुणेन तपोगुणेनाचार्यमन्त्रादिशक्त्या श्रावकलोकभक्त्या संसारविरक्त्या बृहस्पतिप्रायप्राणि(वाणी?)संसक्त्या स्थाने स्थाने प्रवचनप्रभावनां कुर्वन्तः श्रीसंघेन सह प्राप्ताश्चन्द्रावत्याम् । ५५. तत्र च संघमध्यस्थितरथप्रतिमावन्दनार्थ पञ्चदशभिः साधुभिः पञ्चभिराचार्यैश्च सह प्रामाणिकाः पूर्णिमापक्षीयाः श्रीअकलङ्कदेवसूरयः समागत्य रथप्रतिमास्नानमहोत्सवदर्शनार्थमिलितलोकमेलापकदर्शनाद् व्याघुय्य दूरदेशे वृक्षस्याधस्तात् स्थिताः । श्रीपूज्यैश्च मानुषं प्रेष्य पृच्छापितास्ते, यथा-'आचार्यमिश्राः ! केन कारणेन चैत्यवन्दनामकृत्वैव यूयं व्याघुट्य स्थिताः ?' इति । तैरपि प्रेषितमानुपस्याग्रे कथितं यथा-'येत्राचार्याः सन्ति तेऽस्माभिः सह लघुबृहत्तया व्यवहारं करिष्यन्तीति ?' । तेनाप्यागत्य पूज्यानामग्रे भणितम् । पूज्यैश्च-'करिष्यते व्यवहारः, शीघ्रमागच्छते' त्यादि भाणितं तन्मुखेन तेषामग्रे । तदनन्तरं ते समागत्य ज्येष्ठानुक्रमेण वन्दनानुवन्दनादिकं सर्व कृतवन्तः। अकलङ्कदेवसूरिभिरुक्तम्-'किं नामधेया आचार्यमिश्राः ?' पार्थस्थितेन मुनिनोक्तम्-'श्रीजिनपतिसूरिनामानः श्रीपूज्याः' । तत्पश्चात्तैरुक्तम्-'आचार्यमिश्राः ! केन कारणेनेदृशमयुक्तमात्मनाम कारितम् ?' । पूज्यैरुक्तम् -'कथं ज्ञायतेऽयुक्तमेतदिति ?' तैरुक्तम्-'व्यक्तमेव ज्ञायते; तथाहि जिनशब्देन सामान्यकेवलिन उच्यन्ते तेषां पतिस्तीर्थङ्कर एवेति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148