Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
युगप्रधानाचार्यगुर्वावली ।
पृथ्वीराय ! पृथुप्रतापतपन प्रत्यर्थिपृथ्वीभुजां,
का स्पर्धा भवताऽपरार्थ ( ) महसा सार्धं प्रजारञ्जने । येनाssaौ हरिणेव खड्गलतिकासंपृक्तिमत्पाणिना,
दुर्वाराsपि विदारिता करिघटा भादानकोर्वीपतेः ॥
इत्येतच्छत्रबन्धवृत्तं वाचित पण्डित चोभयथाऽपि व्याख्यातम् । तथा तस्मिन्नेव पटे चित्रकरलिखितराजहंसिकायुगलोपरिस्थितम्
कयमलिणपत्तसंगहमसुद्धवयणं मलीमसकमं व । माणसहियं पिअवरं परिहरियं रायहंसकुलं ॥ परिसुद्धोभयपक्खं रत्तपयं रायहंसमणुसरह । तं हविरागरणसरसि जयसिरी रायहंसि व्व ॥
३३
[४१]
[४२]
इति गाथाद्वयं वाचित स्वयं पूज्यैर्महाविस्तरेण व्याख्यातं श्रुत्वा चाऽतिप्रमोदात् 'कमेकमस्याचार्यस्याभीष्टं करो'चिन्तयित्वा राज्ञेोक्तम्- 'आचार्य ! ममाथवा निजगुरोः शपथोऽस्ति ते, यदि त्वमात्मनोऽभीष्टमसम्पद्यमानं ममाग्रे न कथयसि; यस्मिन् कस्मिन् वा देशे यस्मिन् कस्मिन् वा नगरे तावकं मनो रमते तदुपरि गृहाण पत्तलामिति' । श्रीपूज्यैरुक्तम्- 'महाराज ! शृणुत, निजभुजोपार्जित लक्षसंख्याद्रव्यः सा० माणदेवनामा श्रावकः श्रीविक्रमपुरे वसन्नस्ति । स च मम गृहस्थसम्बन्धेन पितृव्यो भवति । तेन च मम व्रतग्रहणसमयेऽत्यादरेण भणितम् - " वत्स ! कथमहमात्मीयान् जातकाननेकधा विलासान् कुर्वतो द्रक्ष्यामीत्यभिप्रायेणानेकानि कष्टानि विषय मयैतावानर्थ उपा जिंतः । अतो वत्स ! किमेवं त्वयाऽऽत्ममनसि विकल्पितं यच्चं गृहस्थवासादुद्विन इव लक्ष्यसे ? । कथय किं द्रम्मान सहस्राणि दश विंशतिं दत्वा देशान्तरे कस्मिंश्चित् प्रेषयाम्यत्रैव वा हट्टं मण्डयामि कन्यकां वा कामपि परिणाययामि, अन्यो वा यः कश्चित्तव चेतसि मनोरथो वर्तते तं कथय यथा पूरयामीत्यादि" - मया तु तत्सर्वमवगणय्य स्वगुरूपदेशश्रवणोच्छलितपरमसंवेगात् सर्वसङ्गपरित्यागः कृतः । सोऽहं कथमद्य युष्माकं देशाय वा नगराय वा स्पृहयामीति' । राज्ञो - क्तम्- 'तर्ह्यन्यतरं किञ्चित्कार्यं भण, यथाऽहमात्मोत्पन्नं हर्षं सन्मानयामि' । उत्सुकीभूय श्रे० रामदेवेनोक्तम्- 'देव ! जयपत्रार्पणविषये प्रसादः क्रियताम्' । राज्ञोक्तम्- 'श्रे० रामदेव ! अद्य खरमुत्सरं बभूव, दिनद्वयमध्ये निजकार्येणाजयमेरावागमिष्यामि । तत्रागतः सन्निश्चयेन जयपत्रमर्पयिष्यामि' । श्रेष्ठिनोक्तम्- 'देव निरोपः प्रमाणम्, परमितः स्थानाद्यथाऽस्मद्गुरूणां महाविस्तरेणाजयमेरौ प्रवेशो भवति तथाऽऽदिशत ' । राज्ञोक्तम्- 'मण्डलेश्वर ! त्वया तथा कर्तव्यं यथा श्रे० रामदेवगुरवो महत्यां शोभायां भवन्त्यामजयमेरौ निजोपाश्रये प्रभूता भवन्ती' त्यादिशिक्षा कइमासस्य दत्ता ।
Jain Education International
[४०]
५२. तदनन्तरं ततः स्थानादुत्थाय सहस्रसंख्यतुरङ्गमाधिरूढराजपुत्रानुगम्यमानमण्डलेश्वरकइमास प्रमुखराजप्रधानैः सह प्रीतिवार्तां कुर्वन्तः, स्वकर्णाभ्यामात्मीयकीर्त्तिं शृण्वन्तः प्रभूतलोकदीयमानाशिषो गृह्णन्तः, श्री पृथ्वीराजसत्के मेघाडम्बरनाम्नि छत्रे प्रभावनायै मस्तकोपरि ध्रियमाणे, पुरमध्ये स्थाने स्थाने रङ्गभरेण प्रेक्षणीयके निष्पद्यमाने, दाने च व्याप्रियमाणे, चच्चर्यां दीयमानायां, धवलेषु गीयमानेषु श्रीगौतमस्वामिगणधरप्रमुख पूर्वज सत्कगुणगणप्रशंसनपूर्वकं बिरुदावलीर्ददत्सु भट्टलोकेषु, श्रीपृथ्वीराजसभायां श्रीजिनपतिसूरिभिर्जितः पण्डितपद्मप्रभ इत्याद्यर्थप्रतिवद्धासु तत्काल निष्पन्नासु चतुष्पदीषु पठ्यमानासु निःस्त्रानैः सह पञ्चशब्देषु वाद्यमानेषु राजादेशान्नगरशोभया शोभिते श्रीअजयमेरौ चैत्य परिपाटिपूर्वकं पौषधशालायां समागताः श्रीपूज्याः ।
५३. दिनद्वयानन्तरं प्रतिज्ञातार्थनिर्वाहकः सबलवाहनो महाराजाधिराज - श्री पृथ्वीराजः श्रीअजयमेरौ निजधवल
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148