________________
|३५
३०
खरतरगच्छालंकार शक्तियुक्तानां न युज्यत इदृशीं सम्यस्यां पूरयितुमिति' । तदनन्तरं श्रीपूज्यैः क्षणमेकं विमृश्योक्तम्
चकर्त दन्तद्वयमर्जुनः शरैः कीां भवान् यः करिणो रणाङ्गणे।
दिक्षया यान्तमिलाप दूरतः क्रमादमुं नारदमित्यबोधि सः॥ ' इत्येतद्व्याख्यानावसाने च विस्मयरसपरवशैः पण्डितैरुक्तम्-'आचार्य ! भगवती सरस्वती वय्येवैकस्मिंस्तुष्टा, यदेवं चिन्तितान् पदान् ददाति' । पार्बोपविष्टश्रीजिनमतोपाध्यायेनोक्तम्-'पण्डितमिश्राः ! सत्यमेतद् यदाचार्यविषये परमेश्वरी श्रीवाग्देवी प्रसन्नाऽभूदिति, कथमन्यथैषा भगवती निजपुत्रैर्युष्माभिः सहाचार्यस्य साङ्गत्यमकारयत्' । पण्डितैरुक्तम्-'पद्मप्रभ ! त्वमपि किमपि ब्रूहि । स प्राह-'क्षणमेकं प्रतीक्षध्वं चिन्तयन्नमि' । तैश्च स-'पण्मासान यावचिन्तयेरि'त्युपहसितः। तथा भणितम्-'सर्वाधिकारिन् ! मण्डलेश्वरकइमास ! आचार्यसदृशः कोऽपि विद्वान् दृष्टः स प्राह-'अद्याग्रतो न दृष्टः' । अङ्गुल्या निजतुरङ्गमान् दर्शयता राज्ञोक्तम्-'आचार्य! परतः पश्य पश्येत्यमी पट्टघोटकाः केन कारणेनोत्पतन्ति ?' श्रीपूज्यैर्विमृश्योक्तम्-'शृणु महाराज!
___ ऊर्ध्वस्थितश्रोत्रवरोत्तमाङ्गा जेतुं हरेरश्वमिवोधुराङ्गाः ।
खमुत्प्लवन्ते जवनात्तुरङ्गात्तवाऽवनीनाथ ! यथा कुरङ्गाः॥ एतदर्थश्रवणे च प्रसन्नवदनं राजानं दृष्ट्वा पण्डितैरुक्तम्-'आचार्य ! उदयगिरिनाम्नि हस्तिन्यध्यारूढः कीदृशः पृथ्वीराजः शोभत इति वर्णय' । पूज्यैहृदये विमृश्योक्तम्
विस्फूर्जद्दन्तकान्तं लसदुरुकटकं विस्फुरद्धातुचित्रं,
पार्विभ्राजमानं गरिमभृतमलं शोभितं पुष्करण। पृथ्वीराजक्षितीशोदयगिरिमभिविन्यस्तपादो विभासि,
___ त्वं भास्वान् ध्वस्तदोषः प्रबलतरकराक्रान्तपृथ्वीभृदुच्चैः॥ [३०] इति वृत्तार्थ श्रुखा प्रसाददानाभिमुखे राजनि सति पण्डितैरुक्तम्-'देव ! इतः स्थानाच्चतुर्दिक्षु योजनशतमध्ये ये केचन विद्वांसो विद्यावाहुल्यस्फुटदुदरोपरिदत्तसुवर्णपट्टाः श्रूयन्ते तेभ्यः सर्वेभ्य एव लक्षणस्मृत्या साहित्यपरिचयेन तर्काम्यासेन सिद्धान्तावगत्या लोकव्यवहारपरिज्ञानेनायमेवाचार्यः समधिकः । किम्बहुना, सा विद्यैव नास्ति याऽस्य मुखाम्भोजे सुखासिकया न विलसति' । समस्यामपूरयित्वाऽपि पद्मप्रभेणोक्तम्-'महाराज! केषांचिन्मानुषाणां पार्श्वे विद्या असन्त्य एव भद्राः, यतस्ते तद्विद्याबलेन लोकैः सह निरन्तरं कलहायमानाः सकलमपि जगदुत्सूत्रयन्ति । यदुक्तम्
विद्या विवादाय धनं मदाय प्रज्ञाप्रकर्षाऽपरवञ्चनाय। अभ्युन्नतिर्लोकपराभवाय येषां प्रकाशे तिमिराय तेषाम् ॥
[३८] श्रीपूज्यैरुक्तम्-'भद्र पद्मप्रभ ! त्वदग्रे किंचिदभिहितं भणामि भग्नस्त्वं मा रुष'। तेनोक्तम्-'भण महानुभाव !' 'इत्थमशुद्धं वृत्तादिकं पठन्तमेकमपि यतिनं दृष्ट्वा सर्वोऽपि मिथ्यादृष्टिलोको-अहो ! एते श्वेतपटाः शुद्धमपि पठितुं न जानन्ति किमन्यज्ज्ञास्यन्तीत्युपहसति-अतः कारणादस्मिन् वृत्तेऽद्य पश्चाद्भवता 'प्रकर्षः परवञ्चनायेति 'प्रकाशस्तिमिरायेति च पठनीयम् । तथाऽस्मिन्प्रस्तावे 'विद्या विवादाये'त्यादिसुभाषितमसम्बद्धमुक्तम् , यतो धर्मशील! किमस्माभिरुक्तं यत्त्वमस्माभिः सह वादं गृहाण, किं वा त्वयैवासद्भक्तश्रावकाणामग्रे कथितं यदहो! अत्रानयत स्वगुरुं यथेदानीमपि जयामीति' । स स्वस्कन्धास्फालनपूर्व प्राह-'मया कथितम् । पू स –'कस्य शक्त्या ?" स पाह 'खशच्या।' पूज्यैरुक्तम्-'इदानीं सा कि काकैर्भक्षिता ?' स प्राह-'नहि नहीं'ति । पूज्यैरुक्तम्-'तर्हि क गता ?' स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org