________________
२९
[३०]
युगप्रधानाचार्यगुर्वावली। वरकरवाला कुवलयपसाहणा उल्लसंतसत्तिलया।
सुंदरिविंदु व्व नरिंद ! मंदिरे तुह सहंति भडा ।। इति गाथाया विस्तरेण व्याख्याने च श्रीपूज्यमुखसम्मुखमतिकुतूहलात् सकलमपि लोकमवलोकमानमवलोक्य वैलक्ष्यात् पद्मप्रभेणोक्तम्-'आचार्य ! मया सह वादमारभ्येदानीमन्यतराणामग्रे आत्मानं भद्रं भावयसि ?' श्रीपूज्यश्च नन्दिनीनाम्ना छन्दसा
पृथिवीनरेन्द्र ! समुपाददे रिपोरवरोधनेन सह सिन्धुरावली।
भवतां समीपमनुतिष्ठता स्वयं नहि फल्गुचेष्टितमहो! महात्मनाम् ॥ [३१] इदं नवं वृत्तं पठिखोक्तम्-'पद्मप्रभ ! किमिदं छन्दः पण्डितैरुक्तम्-'आचार्य! अनेनाज्ञानेन सह ब्रुवाणस्त्वमास्मानमेव केवलं क्लेशयति न फलं किश्चिद्भविष्यति । तथाऽऽचार्य ! खगवन्धेन चित्रकाव्यं कुरु' । तदनन्तरं श्रीपूज्यैः खटिकया भूमौ रेखाकारं खरं कृखा तात्कालिकम्
लसद्यशःसिताम्भोज! पूर्णसम्पूर्ण विष्टप!। पयोधिसमगाम्भीर्य ! धीरिमाधरिताचल ! ।।
[३२] ललामविक्रमाक्रान्तपरक्ष्मापालमण्डल ! । लब्धप्रतिष्ठ ! भूपालावनीमव कलामल! ॥
[३३] इत्येवंरूपश्लोकद्वयाक्षरलिखनेन भरितम् । तच्च चित्रकाव्यं वाचयिखाऽतिहष्टैः पण्डितैः प्रशस्यमानान् श्रीपूज्यान् दृष्ट्वाऽमर्षवशादाह पद्मप्रभः-'पण्डितमिश्रा ! द्रम्मसहस्रमेकं दातुमहमपि समर्थो वर्तेऽतो मामपि प्रशंसयत' । मण्डलेश्वरकइमासेनोक्तम्-'रे मुण्डिक ! श्रीपृथ्वीराजसमक्षं यदपि तदपि त्रुवाणस्त्वमात्मानं गले ग्राहयसि । राज्ञोक्तम्'पण्डितमिश्रा ! एनमपि वराकं समदृष्ट्या वादयत' । तैरुक्तम्-‘देव ! यदि गोरूपः किमपि वेत्ति तदेषोऽपि वेत्ति । राज्ञोक्तम्-'मृाऽपि दृष्टया ज्ञायत आचार्यों विद्वान् , परमस्मत्सभायां न्यायमय्यां वचनीयता यथा न भवत्यतः कारणात् पद्मप्रभोऽपि सर्वविषये युष्माभिः परीक्षयितव्यः' । पण्डितैरुक्तम्-'गोस्वामिन् ! पद्मप्रभः काव्यं कत्तु न जानाति, आचार्यपठिते वृत्ते छन्दो नोपलक्षयति, आचार्येण तकरीत्या वामावर्त्तारात्रिकावतारणे स्थापिते प्रत्युत्तरं किमपि न दत्तवान् , तर्कमार्गमपि न परिछिनत्ति, केवलं विरूपं भापितुं वेत्ति, तथापि युष्मन्निरोधाद् विशेषेण समदृष्ट्या प्रक्ष्यामः' । 'आचार्य ! पण्डितपद्मप्रभ ! युवाम्
"चकर्त दन्तद्वयमर्जुनं शरैः क्रमादमुं नारद इत्यबोधि सः।" इति समस्यां पूरयतमिति । क्षणादेव श्रीपूज्यैरुक्तम्
चकर्त दन्तद्वयमर्जुनं शरैः क्रमादमुं नारद इत्ययोधि सः।
भूपालसन्दोहनिषेवितक्रम! क्षोणीपते ! केन किमत्र संगतम् ॥ -इति । सभ्यैरुक्तम्-'आचार्य ! न किमपि लभ्यते, ईदृशया समस्यया पूरितया; यदस्माभिरसंगत्युत्तारणाय युवां पृष्टी, त्वया च सैव समर्थितेति । तथा सरलकाव्यादेतदेव समस्याया दुःखखं यदसांगत्यमपनीयते' । पूज्यैरुक्तम्'पण्डितमिश्रा ! एवमपि समस्या पूर्यत एव; यतः श्रीभोजदेवसभायां केनाप्यागन्तुकपण्डितेन
"सा ते भवाऽनुसुप्रीताऽवद्यचित्रकनागरैः । आकाशेन बका यान्ति".....
इति समस्यापादत्रयं कथितम् ; 'देव! किं केन संगतम्' इति चतुर्थपादप्रक्षेपेण श्रीभोजराजसत्कपण्डितेन पूरिता' । पण्डितैरुक्तम्-‘एवमपि पूर्यत एव, यदि पद्मप्रभसदृक्षः कोऽपि पूरको भवति युष्मादृशानां खेवंविधकाव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org