________________
२८
खरतरगच्छालंकार नीकतां प्रकाशयति । तदनन्तरम् 'अयमाचार्यो लोकाचारानुसारेण युक्तं भाषते, पद्मप्रभश्च वैलक्ष्यात् पैशून्य प्रकटयतीति विचिन्त्य श्रीपृथ्वीराजेनोक्तम्-'जनार्दन-विद्यापतिप्रभृतयः पण्डितमिश्राः ! सावधानीभूय यूयमनयोः परीक्षां कुरुत, यथा यो महाविद्वान् भवति तस्मै जयपत्रं दीयते सत्कारश्च क्रियते' । पण्डितैरुक्तम्-'देव ! तर्कविद्याविषये महाक्षुण्णमतिराचार्य इति परीक्षितम् , इदानीं युष्मदादेशात् साहित्यविषये परीक्षां कुर्मः। पण्डितमिश्रौ ! युवां श्रीपृथ्वीराजेन भादानको/पतिर्जित इति वर्णयतम् । श्रीपूज्यैः क्षणमेकमेकाग्रीभूय
यस्याऽन्तर्बाहुगेहं बलभृतककुभः श्रीजयश्रीप्रवेशे, दीप्रप्रासप्रहारप्रहतघटतटप्रस्तमुक्तावलीभिः। नूनं भादानकीयै रणभुवि करिभिः स्वस्तिकोऽपूर्यतोचैः, पृथ्वीराजस्य तस्यातुलबलमहसः किं वयं वर्णयामः ।।
[२९]] इति वृत्तं पठित्वा व्याख्यातम् । पद्मप्रभेणाऽपि लाघवभीरुणा पौर्वापर्यमनालोच्य शीघ्रं वृत्तं पठितम् । श्रीपूज्यैरुक्तम्- 'वृत्तं चतुष्पदमेव दृष्टं श्रुतं किमेतत् पञ्चपदं कृतम् ?' सभ्यानां च तत्पठिते वृत्ते पञ्चापशब्दा दर्शिताः । ईर्ष्यावशात् तेनाप्युक्तम्-'पण्डितमिश्रा ! यस्यान्त_हुगेहमित्यादिवृत्तमाचार्येणेदानीं न कृतं पूर्वपठितमेव पठितम्' । पण्डितैरुक्तम्-'स्थिरीभव ज्ञायते लग्नम्' । 'आचार्य! श्रीपृथ्वीराजसभामण्डपं गद्यबन्धेन वर्णय' । श्रीपूज्या मनसि सभावर्णनं कृत्वा खटिकया भूमौ लिखितुं प्रवृत्ताः, यथा-'चञ्चन्मेचकमणिनिचयरुचिररचनारचितकुट्टिमोचरन्मरीचिप्रपश्वखचितदिक्चक्रवालम्, सौरभभरसम्भूतलोभवशवम्भ्रम्यमाणझङ्कारभृतभुवनभवनाभ्यन्तरभूरिभ्रमरसम्भृतविकीर्णकुसुमसम्भारविभ्राजमानप्राङ्गणम्, महानीलश्यामलनीलपट्टचेलोल्लसदुल्लोचाञ्चललम्बमानानिलविलोलबहलविमलमुक्ताफलमालातुलितजलपटलाविरलविगलदुज्ज्वलसलिलधारम्, दिग्विक्षिप्तवलक्षचक्षुःकटाक्षलक्षविक्षेपक्षोभितकामुकपक्षामुक्तमौक्तिकाद्यनपञ्चवर्णनूतनरत्नालङ्कारविसरनिःसरकिरणनिकुरुम्बचुम्बिताम्बरारब्धनिरालम्बनविचित्रकर्मप्रविशत्कुसुमायुधराजधानीविलासवारविलासिनीजनम् , क्वचिच्चूताङ्कुररसास्वादमदकलकण्ठकलरवसमाननवगानगानकलाकुशलगायनजनप्रारब्धललितकाकलीगेयम् , क्वचिच्छुचिचरित्रचारुवचनरचनाचातुरीचञ्चुनीतिशास्त्रविचारविचक्षणसचिवचक्रचर्च्यमाणाचारानाचारविभागम् , क्वचिदासीनोदामप्रतिवाद्यमन्दमदभिदुरोद्यदनवद्यहृद्यसमग्रविद्यासुन्दरीचुम्ब्यमानावदातवदनारविन्दकोविदवृन्दारकवृन्दम् , उद्धतकन्धरविविधमागधवर्ण्यमानो रधैर्यशौयौदार्यवर्धिष्णु, मुधाधामदीधितिसाधारणयशोराशिधवलितवसुन्धराभोगनिविशमानसामन्तचक्रम् , प्रसरन्नानामणिकिरणनिकरविरचितवासवशरासनसिंहासनासीनदोर्दण्डचण्डिमाडम्बरखण्डिताखण्डवैरिभूमण्डलनमन्मण्डलेश्वरपटलस्पोद्भटकिरीटतटकोटिसंकटविघटितविसंकटपादविष्टरभूपालम् ; अपि चोद्यानमिव पुन्नागालङ्कृतं श्रीफलोपशोभितं च, महाकविकाव्यमिव वर्णनीयव
कीर्ण व्यञ्जितरसं च, सरोवरमिव राजहंसावतंसं पद्मोपशोभितं च, पुरन्दरपुरमिव सत्या(?)धिष्ठितं विबुधकुलसङ्कुलं च, गगनतलमिव लसन्मङ्गलं कविराजितं च, कान्तावदनमिव सदलङ्कारं विचित्रचित्रं च । अत्रान्तरे पण्डितैरुक्तम्'आचार्य! समर्थय वर्णनं स्थालीपुलाकन्यायेन, ज्ञास्यते युष्माकं शक्तिः । तदनन्तरं श्रीपूज्यैः-'एवंविधं श्रीपृथ्वीराजसभामण्डपमवलोक्य कस्य न चित्रीयते चेतः' इति समर्थनं कृतम् । पुनरपि वाचयिता विस्तरेण व्याख्यातं च । श्रुत्वा च पण्डितैविस्मयवशान्निजशिरो धृनितम् । पद्मप्रभेणोक्तम्-'पण्डितमिश्राः ! एतदपि कादम्बर्यादिकथासम्बन्धि सम्भाव्यते' । पण्डितैरुक्तम्-'मूर्ख ! कादम्बर्यादिकथाः सर्वा अस्माभिर्वाचिताः सन्ति , अतस्त्वं मौनं कुरु । मा भारयामद्धस्तेन स्वं मुखं धूलिभिः'।
५०. पूज्यानुद्दिश्योक्तम्--'आचार्य ! प्राकृतभाषया गाथाबन्धेन श्लेषालङ्कारेण श्रीपृथ्वीराजसत्कान्तःपुरसुभटौ वर्णय' । श्रीपूज्यैर्मुहूर्तमेकं चिन्तयित्वोक्तम्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org