________________
युगप्रधानाचार्यगुर्वावली।
२७ निर्वचनीकृतः पद्मप्रभः प्रोक्तवान् यथा-'महाराज ! यदि यौष्माकीणं वचनं भवति तदिदानीमत्रोपविष्टविशिष्टलोकप्रमोदोत्पादनाय कुतूहलानि दर्श्यन्ते; तद्यथाऽऽकाशमण्डलादवतीर्य युष्मदुत्सङ्गे निविष्टामतिरूपपात्रामेकां विद्याधरीं दर्शयामि, पर्वतमङ्गुलमयं कृखा दर्शयामि, नभस्तल इतस्ततो नृत्यमानान् हरिहरादीन् देवान् दर्शयामि, उच्छलत्कल्लोलमालाकरालं पारावारं समागच्छन्तं दर्शयामि, सकलमपीदं नगरमाकाशस्थितं दर्शयामीत्यादि' । सम्यैविहस्योक्तम्-'पण्डित पद्मप्रभ ! यदि भवतेदृक्षेन्द्रजालकला शिक्षिता तत्किमाचार्यैः सह पादः प्रारब्धः। श्रीपृथ्वीराजदानलाभाभिप्रायनिरन्तरसमागच्छदपरलक्षसंख्येन्द्रजालिकैः समं प्रारभ्यताम् । हर्षाकुलचित्तेन तेनोक्तम्-पण्डितमिश्रा ! अयमाचार्यः सर्वकलाकुशलमात्मानं मन्यतेऽतो यद्यद्य श्रीपृथ्वीराजसभायां युष्माकं समक्षं गर्वपर्वतान्नोत्तारयिष्यते तदैष वातेन भिद्यमानो धर्तुमपि न शक्यते' । विहसितवदनान् श्रीपूज्यान् दृष्ट्वा तेनोक्तम्-'आचार्य ! किं विलक्षं हससि? अयं सोऽवसरो यदि काचिच्छक्तिरस्ति तदा दर्शय सर्वलोकचेतश्चमत्कारि किमपि कलाकौशलं स्वकीयम् , किं वाऽमुष्याः सभातो बहिनिःसरेति' । तदनन्तरं श्रीपूज्यैर्जिनदत्तसूरिनाममत्रस्मरणपूर्वमुक्तम्-'पद्मप्रभ ! त्वं तावदात्मशक्तिस्फोरणानुसारेण यथोक्तमिन्द्रजालं प्रथमं निष्कासय, पश्चाद् वर्तमानकालोचितं किमपि वयमपि करिष्यामः' । कुतूहलावलोकनाभिलाषाकुलतया श्रीपृथ्वीराजेन सोत्सुकसुक्तम्-'पद्मप्रभ ! आचार्येणानुमतिर्दत्तातस्त्यतो वेगं कृत्वा स्वेच्छानुसारेण दर्शय नानाविधानि कौतुकानीति' । तदनन्तरमन्तःशून्यत्वादाकुलव्याकुलेन श्रीमत्पूज्यपुण्यप्राग्भारप्रेरितेन च पद्मप्रभेणोक्तम्-'महाराज ! अद्य रात्रौ देवी पूजयित्वाऽभीष्टदेवताह्वानमत्रमेकाग्रचित्तेन ध्यात्वा कल्ये नानाविधमिन्द्रजालं दर्शयामि'-इति श्रुत्वा च हास्यरसोत्कर्षोच्छलदमन्दानन्दाश्रुव्यापूर्णनयनैः सर्वैरपि लोकैर्दुर्वाक्यभाषणपूर्वकं गाढतरमुपहसितः पद्मप्रभः । तत्पश्चानिर्लज्जचूडामणिना तेन सविकाशवदनान् श्रीपूज्यानवेक्ष्योक्तम्-'आचार्य ! किं हससि ?, यदि त्वं भद्रोऽसि तदिदानीमेव किमपि दर्शय' इति विहस्य श्रीपूज्यरुक्तम्'पद्मप्रभ ! स्थिरीभूय ब्रूहि, किमिन्द्रजालमुच्यते ?' तेनोक्तम्-'त्वमेव ब्रूहि' । श्रीपूज्यैरुक्तम्-'देवानाम्प्रिय ! असंभवद्वस्तुसत्ताविर्भावः' । 'तत् किम् ?' श्रीपूज्यैरुक्तम्-'पद्मप्रभ ! तदिदमद्य तवैव प्रत्यक्षीभूतं किं न पश्यसि ?' तेनोक्तम्-'किमिति ?' तदन्तरं श्रीपूज्यैः सोत्कर्षमुक्तम्-'महानुभाव ! किं त्वया स्वमान्तरेऽपि संभावितमिदं कदाचिद् , यदहं विशिष्टासनोपविष्टसहस्रसंख्यमुकुटबद्धराजराजिविराजितायां श्रीपृथ्वीराजसभायां गत्वा यथेच्छया वक्ष्यामीति परमिदमसंभाव्यमपि दैवनियोगादस्मत्सान्निध्यादद्य संजातमिति, कोऽस्येन्द्रजालाद् भवच्चिकीर्षिताद् भेद इति ?' । पुनरपि क्रूराशयतया लोकोपहासमवगणय्य राजानमुद्दिश्य तेनोक्तम्-'महाराज! अनाक्रमणीयपराक्रमाक्रान्तनिजपदाधःकृतप्रतापप्रचण्डप्रभूतभूपतिवातसततमृग्यमाणादेशामृतसर्वस्वे त्वयि सकलामपि पृथ्वी शासति युगप्रधान इति विरुदमात्मन्ययमाचार्यः प्रचुरत्यागदानवशीकृतसमस्तभट्टलोकमुखेन पाठयति' । राज्ञोक्तम्-‘पद्मप्रभ! युगप्रधान इत्यस्य कः शब्दार्थः ?' सहर्षेण तेनोक्तम्-'महाराज ! युगशब्देन वर्तमानः कालो भण्यते, तस्मिंश्च यः प्रधानः सर्वोत्तमः स युगप्रधानशब्देनोच्यते' । अत्रान्तरे श्रीपूज्यैवेंगादेवोक्तम्-'मूर्ख पद्मप्रभ ! यदपि तदपि भणित्वाऽस्माकं मुखोपरि राजानमुच्छालयितुमिच्छसि । श्रीपृथ्वीराजराजानमुद्दिश्य चोक्तम्-'महाराज ! भिन्नरुचयः सर्वेऽपि प्राणिन इति केषांचित् कोऽपि सुखायते । ततो यः कश्चिद्यपानभीष्टो भवति तं प्रति नानाविधान्तरङ्गरसूचकानेकविरुदन्यासमनोहरान् प्रधानशब्दानुच्चरन्ति ते । यथा त्वामाश्रित्य-जीवाऽऽदिश, पादावधार्थताम्-इत्यादिशब्दान् भणन्ति भवत्पादारविन्दाराधनैकसावधानमानसश्रीकइमासमण्डलेश्वरप्रमुखराजप्रधानलोकाः, तथैतानुदिश्य यथोक्तान् शब्दानुश्चारयन्त्येतत्सेवका इति । एवं तेषामपि सेवकाः प्रवर्तन्ते । अन्योऽपि लोकः सर्वोऽपि वल्लिभजनं नानाविधैर्वचनैपदियति परं न कोऽपि तेषां दोषमुद्घाटयति । अयं च पद्मप्रभोऽस्यां सभायामित्थं यदपि तदप्युल्लण्ठं वदन् स्वस्म सर्वजनप्रत्य
१ °मुपच्छाल° आदर्श ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org