________________
२६
खरतरगच्छालंकार यो मयि वृत्तादिकं पठति कूटानि निष्कासयति ?' श्रीपूज्यैरुक्तम्-'यद्येवं तर्खेतदेव वृत्तं पुनरपि पठ' । 'जनार्दनविद्यापतिप्रभृतिपण्डितमिश्राः! यूयं सावधानीभूय शृणुत । पद्मप्रभेण पठ्यमानं वृत्तम्' । रोऽन्तःक्षुभितोऽपि धाष्टात् पठितुं लग्नः । श्रीपूज्यैः सभ्यान साक्षिणः कृत्वा तत्पठितवृत्ते दश कूटानि दर्शितानि तथा 'महापुरुष! एवं पठ्यमानं शुद्धं वृत्तं भवति; यथा
प्राणान्न हिंस्यान्न पिबेच मद्य, वदेच्च सत्य न हरेत् परस्तम् ।
परस्य भायों मनसा न वाञ्छेत् , स्वर्ग यदीच्छेद् विधिवत् प्रवेष्टुम् ॥ [२८] वैलक्ष्यात् पुनरपि स प्राह-'आचार्य ! अनया वचनरचनया मुग्धजनान् विप्रतारयसि । श्रीपूज्यैरुक्तम्-'त्वमपि विप्रतारय यदि शक्तिरस्ति' । मण्डलेश्वर-कइमासेनोक्तम्-'किमिति प्रथममेव शुष्कवादः प्रारब्धः ?; यदि युवयोः कापि शक्तिरस्ति तदैकः कश्चित् पदार्थ स्थापयतु, द्वितीयस्तन्निराकरोतु । श्रीपूज्यैरुक्तम्-'पद्मप्रभ ! रुचिरं भणति मण्डलेश्वर इति, कञ्चित् पक्षं कक्षीकृत्य ब्रूहि । स प्राह-'आचार्य ! जिनशासनाधारभूतप्रभूतश्रीमदाचार्यसंमतदक्षि. णाव रात्रिकावतारणविधिपरित्यागे किं कारणम् ?' । 'वक्रो वक्रोक्त्यैव निर्लोठ्यः' इत्याशयवद्भिः श्रीपूज्यैरुक्तम्'किं यद् बहुजनसंमतं भवति तदादरणीयम् ?; मिथ्यात्वमपि तर्हि किमिति नाद्रियते?" स प्राह-'वृद्धपरम्परयाऽऽगतं सर्वमप्याद्रियामहे' । श्रीपूज्यैरुक्तम्-'वृद्धपरम्परानागतोऽपि किमिति भवत्पूर्वजैश्चैत्यवास आदृतः । स प्राह'कथं ज्ञायते वृद्धपरम्परानागतः ?' इति । श्रीपूज्यैरुक्तम्-'किं श्रीमहावीरसमवसरणेऽन्यस्मिन् वा जिनभवने श्रीगौतमस्वामिगणधरः शयानो भुञ्जानो वा कदापि क्वापि श्रुतः । उत्तरदानासामर्थ्यवैलक्ष्यात् स प्राह-'आचार्य ! कर्णे स्पृष्टः कटिं चालयसि !; अहमपृच्छे दक्षिणावर्तारात्रिकावतारणविधिवृद्धपरम्परागतोऽपि किमिति परित्यक्त इति, त्वं च चैत्यवासमादायोत्थितः । श्रीपूज्यैरुक्तम्-'मूर्ख! वक्रे काष्ठे वक्रो वेधः क्रियत इति न्यायो भवता विस्मारितः ?; अथवा भवलिदानी सावधानीभूय शृणु-ननु दक्षिणावर्तारात्रिकावतारणविधिवृद्धपरम्परागत इति कथं ज्ञायते ? । सिद्धान्ते तावदारात्रिकविचारो नास्ति; किन्तु श्रेयस्कृते पाश्चात्यैर्बहुश्रुतैराचीर्णः । तैश्च स किं दक्षिणावर्तो वामावर्तो वाऽऽचीर्ण इति विप्रतिपत्तिनिरासार्थ युक्तिर्गवेषणीया । न शवमुष्टिन्यायः कर्तव्यः । यद् युक्तं प्रतिभाति तदादरणीयं न शेषम् ।' सभ्यैरुक्तम्-'पद्मप्रभ ! सत्यमाहाचार्यः । तदनन्तरं सभ्यसम्मत्या प्रमाणरीत्या श्रीपूज्यैः सभ्यशरीररोमाङ्कुरपूरोद्भेदैकसारिण्या गीर्वाणवाण्या तस्यां सभायां यथा वामावर्तारात्रिकावतारणं स्थापितं तथा प्रद्युम्नाचार्यकृतवादस्थानकोपरि श्रीपूज्यकृतवादस्थलेभ्योऽवसेयम् । अत्र गौरवभयान्न लिखितम् । किम्बहुना, हर्षपरवशैः सभ्यैः श्रीपूज्यानुद्दिश्य जयजयकारश्चक्रे ।
४९. असिन्नवसरे श्रीपृथ्वीराजः सभामध्ये समागतः । सिंहासने चोपविश्य पप्रच्छ मण्डलेश्वरम्-'केन जितं केन हारितम् ?' । श्रीपूज्यानङ्गुल्या दर्शयता मण्डलेश्वरेणोक्तम्-'देव ! एतेन जितमिति' । अमर्षात् पद्मप्रभः प्राह'महाराज ! मण्डलेश्वरो लश्चाग्रहण एव प्रवीणो न गुणिनां गुणग्रहणे । उच्छलत्कोपावेशान्मण्डलेश्वरः प्राह-'रे मुण्डिक ! श्वेतपट ! अद्यापि न किमपि विनष्टम् , अयमाचार्यों वर्तते, त एवैते सभ्यावर्तन्ते मया लञ्चा गृहीताऽस्त्यतोऽहं मौनं कृत्वा तिष्ठामि लमः; त्वं चेदिदानीमपि श्रीपृथ्वीराजसमक्षमाचार्य जेष्यसि तदा प्रागपि जितमेवेति' । स प्राह-'मण्डलेश्वर ! नाहं कथयामि भवताऽऽचार्यपाल्लिञ्चा गृहीता; किन्तु सर्वाचार्यसंमतदक्षिणावर्तारात्रिकावतारणविधि गर.पर्दरिकाप्राणेन निषेध्याचाण प्रत्यायितो मण्डलेश्वर इति' । श्रीपूज्यैरुक्तम्-'महात्मन् पद्मप्रम! सर्माचार्य युक्तमुक्तम् , असदाज्ञावा.ार्याणामसंपतत्वात् । स प्राह-'किं यूयमन्यतराचार्येभ्यो घनतरं खतारो पदेषां नितमर्थ न न्यध्वे । श्रीपूज्यैरुक्तम्-'पद्मप्रभ ! किमन्ये आचार्या असदाज्ञावाचार्येभ्यो घनतरं ज्ञातारो यत्तेषां संमतं वामावर्तारात्रिकविधिं न ते मन्यन्ते "-इत्यादि वक्रोक्तिभणनेन श्रीपृथ्वीराजसमक्षं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org