________________
युगप्रधानाचार्यगुर्वावली।
२५ काशिखरश्च । सागरपाटेऽप्यम्बिकाशिखरः । सं० १२३७ बब्बेरके जिनरथो वाचनाचार्यः कृतः । सं० १२३८ आसिकायां बृहजिनयुगलं स्थापितम्।
४८. सं० १२३९ फलवधिकायां भक्तिवशादनेकश्रावकैरनुगम्यमानान् बहिर्भूमौ गच्छतः श्रीजिनभक्ताचार्यान् दृष्ट्वा मत्सरवशादज्ञानाद्वा महर्दिकश्रावकदर्याद्वा कुकर्मपरिपाकाद्वा नटभटपटलवेष्टित ऊकेशगच्छीयः पद्मप्रभनामा पण्डितंमन्य आत्मनः पुरः पद्मप्रभेण जितो जिनपतिसूरिरिति भट्टान् पाठयितुं लग्नः । तदनन्तरं कोपावेगादुत्तालगत्या गत्वा श्रीपूज्यभक्तश्रावकैरालापितः स-'आः पाप ! अलीकभाषिन् पद्मप्रभ ! कस्मिन् काले जितस्त्वया जिनपतिमूरिर्यदेवं भट्टान पाठयसि ?' तेनोक्तम्-'यद्यलीकं मन्यथ तदा पुनरप्यानयत स्वगुरुमिदानीमपि जेष्यामीति' । तैरुक्तम्-'आस्ताम[स]मभीमसमप्रकृते दुरात्मन् ! शृगालोऽपि सन् सिंहेन सह स्पर्धमानो निश्चितं मुमूर्षसी' त्यादिवदत्सु तेषु, मिलिता उभयभक्तश्रावका अहङ्कारवशात् पणत्यागपूर्वकं चक्रुर्वादव्यवस्थाम् । श्रुता च वार्ताऽजयमेरौ श्रीपूज्यैः, प्रेपितश्च तत्र तद्विजया) संघप्रमोदार्थं च श्रीजिनमतोपाध्यायः । पुनरपि तत्रत्यसमुदायेन चिन्तितम्-'एप दुरात्मा मृपाभाषी कथयिष्यति मया पूर्व जिनपतिसूरिर्जितोऽतो ममाग्रे स्थातुमशक्नुवन् स्वकीयपण्डितं प्रेषितवानित्यादि । तस्माच्छ्रीपूज्याः श्रीमुखेन जयन्त्वेनमिति विचार्य समुदायः श्रीजिनमतोपाध्यायेन सहाजयमेरौ गतः । तत्र च राजमान्येन श्रा० रामदेवेन विज्ञप्तः श्रीपृथ्वीराजः पृथ्वीपतिः--'देव ! अस्मद्गुरूणां श्वेताम्बरेणैकेन सह वादव्यवस्था निष्पन्ना वर्तते, अतो यथा महापण्डितमण्डलीमण्डिते युष्माकं सभामण्डपे फलवती भवति तथा प्रसाद कुरुतावसरं प्रयच्छतेति' । केलिप्रियेण राज्ञोक्तम्-'इदानीमेवावसरः' । श्रे० रामदेवेन विज्ञप्तम्-'गोस्वामिन् ! द्वितीयः श्वेताम्बरः पद्मप्रभनामा फलवधिकायां वर्तते' । कौतुकार्थिना राज्ञोक्तम्-'तद्विपयेऽहं भलिष्यामि, स्वकीयान् गुरून् प्रगुणयेति' । श्रे० रामदेवेनोक्तम्-'देव ! अस्मद्गुरवोऽत्रैव वर्तन्त इति ।' तदनन्तरं राज्ञा भट्टपुत्रान् प्रेष्य पद्मप्रभ आनायितः । तस्मिंश्चागते दिग्विजयार्थ नरानयने प्रस्थानीभूतः सकलबलसमेतः श्रीपृथ्वीराजः । तत्र पुनरपि श्रेष्ठिरामदेवेन विज्ञप्तो राजा-'देव ! अस्मद्विज्ञप्तिकाविषये कीदृश आदेशः ?' प्रतिपन्नप्रतिपालकेन राज्ञोक्तम्-'प्रगुणय स्वगुरून् , कार्तिकशुक्लसप्तमीदिने वादावसरः।' श्रे० रामदेववचनात्तदिनोपरि श्रीअजयमेरुतः श्रीजिनमतोपाध्यायपं० थिरचन्द्र-वा० मानचन्द्रादिसाधुवृन्दपरिकरिताः श्रीजिनपतिसूरयो नरानयने राजसभायां प्रभूताः, पद्मप्रभोऽपि भट्टपुत्रसमेतस्तत्र समागतः । 'यावदहमागच्छामि तावत्वया वागीश्वर-जनार्दनगौड-विद्यापतिप्रभृतिपण्डितसमक्षमेतौ वादयितव्यौ' इत्यादेश मण्डलेश्वर-कइमासस्य दत्त्वा स्वयं राजा श्रमकृते श्रमस्थानं गतः। अतीवरमणीयां श्रीपूज्यानां मूर्तिं दृष्ट्वा हर्षादाह मण्डलेश्वरः-'अहो ! एके ईदृशा दर्शनिनः सन्ति ये दृष्टाः सन्तो नेत्रयोरानन्दं जनयन्ति, निर्वासाश्च दिगम्बराः पिशाचप्राया दृष्टाः सन्तो नेत्रयोरुद्वेगमुत्पादयन्तीति' । तदनन्तरं श्रीपूज्यैरुक्तं मण्डलेश्वरं [प्रति]
पश्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ॥
[२६] अतो दर्शनिनां निन्दा न कर्तव्येत्यादि व्याचख्यानेषु पूज्येष्वन्तरेवेर्ध्यावशादुत्तालः पण्डितपद्मप्रभो वृत्तं पठितुं प्रवृत्तो मण्डलेश्वरं [प्रति]
प्राणा न हिंसा न पिबेच्च मद्यं, वदेच सत्यं न हरेत्परस्वम् ।
परस्य भार्या मनसा न वाञ्छे, स्वर्ग यदीच्छे विधिवत्प्रविष्टुम् ॥ [२७] ___ -इति । श्रीपूज्यैरुक्तम्-'अहो शुद्धपाठकता' । स प्राह-'आचार्य ! मामुपहससि ?' श्रीपूज्यैरुक्तम्-'महानुभाव पद्मप्रभ ! कलाविकले कालेऽस्मिन् क एक उपहस्यते को वा नोपहस्यते' । स प्राह-'तहि किमित्यहो शुद्धपाठकतेत्युक्तम् ?' श्रीपूज्यैरुक्तम्-'महासत्त्व ! पण्डितसभायां शुद्धमेव पठ्यमानं मुखालङ्कृतये भवति । स प्राह-'किं कश्चित् सोऽप्यस्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org