________________
खरतरगच्छालंकार
इत्यादिदेशनया गाढतरमावर्जितो राजोक्तवान्- 'आचार्य ! किमिति विलम्बः क्रियते ; नगरप्रवेशेऽपि बृहती वेला लगिष्यतीति' । तदनन्तरं चतुर्विधसंघेन पृथ्वीपति श्री भीमसिंहेन च साधे पूर्वोक्तढिल्लीप्रवेशकरीत्या श्रीआसिकायां श्रीपूज्याः प्रविष्टाः ।
२४
४६. तत्र चान्यदा वहिर्भूमौ गच्छतां साधुवृन्दालङ्कृतपञ्चाद्भागानां श्रीपूज्यानां प्रतोलीप्रदेशे मिलितः सम्मुखमागच्छन् महाप्रामाणिको दिगम्बरः । सुखवार्ताप्रश्नव्याजेनाऽऽलाप्य श्रीपूज्यैः सज्जनस्वरूपप्रतिपादकवृत्तेषु व्याख्यायमानेषु मिलितः कुतूहलात् सर्वोऽपि नागरिकलोको राजलोकश्च । तत्र च श्रीपूज्यानां स्फुर्जितं दृष्ट्वा लोकः सर्वोऽपि लघुनापि श्वेताम्बराचार्येण जितो दिगम्बरः पण्डितराज इति परस्परं वार्तयामास । राजप्रधानदिदा - कक्करिउ - कालाश्च राजसभायां गत्वा राजश्री भीमसिंहस्याग्रे कथयामासुः - 'देव ! यस्याऽऽचार्यस्य सम्मुखं तस्मिन् दिने यूयं गता आसन् तेनाऽऽचा
लघुनाsप्यत्रत्योदिगम्बरो जित इति ।' राजा हर्षवशाद् विकसितवदनः प्राह- 'सत्यम् ?' ते प्राहु: - 'देव ! सत्यं, नास्त्यत्र हास्यम्' । राजोवाच- 'भोः कथं कथम् ?' 'च हर्षावेगात् परवशा इवोचुः - 'देव ! प्रतोलीप्रदेशे सर्वलोकसमक्षं तैरित्थमित्थं दिगम्बरो जितः ।' राजा प्राह- 'अहो ! पौरुषमेव प्राणिनां सर्वसम्पदो हेतुर्न लघुत्वं महत्त्वं वा । मया तस्मिन्नेव दिने तदाकृतिं दृष्ट्वा सम्भावितं यदस्याग्रतो दिगम्बरो वाऽन्यो वा विद्वान् स्थातुं न शक्यते ' - इत्यादिकां बह्रीं प्रशंसां कृतवानिति । फाल्गुनशुक्ल तृतीयायां देवगृहे श्रीपार्श्वनाथप्रतिमां स्थापयित्वा श्रीसागरपाटे देवकुलिका प्रतिष्ठिता श्री पूज्यैः ।
1
४७. सं० १२२९ धान पाल्यां श्रीसंभवस्थापना शिखरप्रतिष्ठा च कृता । सागरपाटे च पं० माणिभद्रपदे विनयभद्रस्य वाचनाचार्यपदं दत्तम् । सं० १२३० विक्रमपुरे थिरदेव - यशोधर - श्री चन्द्राणाम्, अभयमति - जयमत्यासमति - श्रीदेवीसा - वीनां च दीक्षा दत्ता । सं० १२३२ फाल्गुनसुदि १० विक्रमपुरे भाण्डागारिकगुणचन्द्रगणिस्तूपः प्रतिष्ठितः । तत्रैव वर्षे निजप्रभुप्रसादननिमित्तसमागतमण्डलीक भूपमण्डलीमण्डितमण्डलाकारस्कन्धावारवारोपशोभितकोदृबहिः प्रदेशस्वकीयप्रासादमध्यवर्तमानचक्रवर्त्तिराजधानीसमानलक्ष्मीकतत्कालनिष्पन्न श्रीपार्श्वनाथमन्दिरशिख रहिरण्यमयकलशदण्डप्रभृतिप्रभूतधर्मस्थानार्थप्रारब्धप्रतिष्ठामहोत्सवदर्श नकुतूहलबलमिलितनानादेशवास्तव्यभव्यलोकसंघसंघाताकारसन्निवेशविशेषशोभमानबहिः परिसर श्रीमदासिकायां चत्वारिंशत्संख्यसर्वानवद्यविद्याभ्यासजितवाचस्पतिमतिसुयतिजनमनः कुमुदखण्डमार्तण्डमण्डलायमानोपदेशैः श्रीपूज्यैर्विक्रमपुरीय समुदायेन सार्धं विजहे । तत्र च ज्येष्ठानुक्रमेण समकालपुरः प्रारव्धपृथक्पृथक्प्रेक्षणीयकपञ्चशब्दवादनादिवर्धापनकहर्ष भरनृत्यमानास्तोकलोकोत्तारित निरुञ्छनकदानगीयमानयुगप्रधानगुरुनामश्रवणानन्तरवितीर्यमाणार्थसार्थतिरस्कृतवैश्रवणद्रव्यगर्वगान्धर्विकलोकोप श्लोक्यमाननिजनिजदेशपूर्वजनामधे - याकर्णनोच्छलदमन्दानन्दामृतसरस्तरङ्गभङ्गिसङ्गमुखी भवदङ्गसमग्रसङ्घानुगम्यमानानां श्रीपूज्यानां प्रवेशः सञ्जातो ज्येष्ठशुक्लतृतीयायाम् । वादलब्धिलब्ध जगन्मध्याध्यामसाधुवादाशीतिसंख्यसाधुमधुपपर्युपास्यमानक्रमकमलैः श्रीपूज्यैर्महता विस्तरेण प्रतिष्ठिते श्रीपार्श्वनाथशिखरे प्रतिष्ठितौ सुवर्णदण्ड-कलशावध्यारोपितौ । तस्मिन्नेव समये दुसाझसादलपुत्र्या साऊश्राविकया पारुत्थद्रम्मशतपञ्चकेन माला गृहीता । धर्मसारगणि-धर्मरुचिगणी व्रतिनौ कृतौ । आषाढमासे च कन्यानयने विधिचैत्यालये गृहस्थावस्थजिनपतिसूरिपितृव्यविक्रमपुरवास्तव्यसा० मानदेवकारितश्रीमहावीरदेवप्रतिमा स्थापिता । व्याघ्रपुरे पार्श्वदेवगणिर्दीक्षितः श्रीपूज्यैः । सं० १२३४ फलवर्धिकायां विधिचैत्ये पार्श्वनाथः स्थापितः । लोकयात्रादिकारणकलापभावि विज्ञ स्वकीय धर्म ध्यानशास्त्रपरिज्ञानहानिसंभावनानङ्गीकृतलभ्यमानाचार्यपदानुमेयजगदसाधारण गुणगणस्य जिनमतस्य चोपाध्यायपदं दत्तम्, गुणश्रीगणिन्या महत्तरापदं च श्रीसर्वदेवाचार्याणां च दीक्षा जयदेवीसाव्याश्च । सं० १२३५ अजयमेरौ चतुर्मासी कृता । श्रीजिनदत्तसूरिस्तूपः पुनरपि महाविस्तरेण प्रतिष्ठितः । देवप्रभो दीक्षितस्तन्माता चरणमतिगणिनी च । सं० १२३६ अजयमेरौ पासटकारितमहावीरप्रतिमा प्रतिष्ठिता, अम्बि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org