________________
३१
युगप्रधानाचार्यगुर्वावली। प्राह-'मम भुजयोर्मध्ये वर्तते, परमवसरमन्तरेण न प्रकाश्यते' । पूज्यैरुक्तम्-'अवसरः कदा भविष्यति । स प्राह'इदानीमेव' । 'तर्हि किमिति विलम्बः क्रियते ?" स प्राह-'राजानमालाप्य खशक्तिं स्फोरयिष्ये' । पूज्यैरुक्तम्-'वेगं कुरु । तत्पश्चात् पद्मप्रभः स्वचेतस्यनेनाचार्येण निजशरीरसौभाग्येन वचनचातुर्येण विद्याबलेन वशीकरणादिमत्रप्रयोगेण वा सर्वोऽपि राजलोकः स्वात्मनि सानुरागी कृतः, मया पुनरात्मभक्ताः श्रावका अपि तादृशराजप्रसादवर्णनोद्भूतविकाशमुखा अपि श्याममुखीकृताः, किं क्रियते ? कोऽप्युपायो न फलति; भवतु, तथापि “पुरुषेण सता पुरुषकारो न मोक्तव्यः" इति न्यायादिदानीमपि यदि किश्चित्साहसं कृताऽऽवयोर्द्वयोरपि समश्रीकता भवति तदाऽस्मिन् देशे स्थातुं शक्यतेऽन्यथा महान्तं लोकोपहासमसहमानानाभस्माकं सश्रावकाणां देशत्याग एव भविष्यतीति विभाव्य, राजानमुद्दिश्य चोक्तवान्-'महाराज ! अहं पत्रिंशत्संख्यदायकायुधप्रकाराभ्यासेन जलविद्यायां कृतश्रमो वर्ते तो मया सममेनमाचार्य बाहुयुद्धेन योधयेति' । राजा च दर्शनिनामापरािनभिज्ञतया कौतुकदिदृक्षया च श्रीपूज्नमुत मुखमवलोकितवान् । पूज्यैश्चाकारेङ्गितादिभिः श्रीपृथ्वीराजामिनायभनुमीयोक्तम्-'हाराज ! बाहुसुद्धादिकं दिक्करिकाणामेव क्रीडा, यतो गलागलिलमा बालका एव शोभन्ते न महासः, शस्त्राशस्त्रि युध्यमाना राजपुत्रा एव शोभन्ते न वणिजः, दन्तकलहेन युध्यमाना रण्डा एव शोभन्ते न राजदाराः, तत्कथमस्य वचनमुपादेयं स्यात् १ । पण्डिताचोत्तरप्रत्युत्तरदानशक्त्या परस्परं स्पर्धमानाः शोभन्ते । अत्रान्तरे पण्डितैरुक्तम्-'देव! वयमपि पाण्डित्यगुणेन युष्माकं पार्थाद् वृत्तिं लभामहे न मल्लविद्याकुशलतया' । पूज्यैरुक्तम्-'पद्मप्रभ ! अस्यां सभायामेवं बुवाणः स्वदंष्ट्रिकयाऽपि न लजसे ?; महाराज ! यद्यस्य शक्तिरस्ति तदेषोऽस्माभिः सह शुद्धया प्राकृतभाषया संस्कृतभाषया मागधीभाषया पिशाचभाषया शूरसेनीभाषया शुद्धयाऽपभ्रंशभाषया गद्येन वा पक्षेत्र वा लक्षणेन वा छन्दसा वाऽलङ्कारेण वा रसविचारेण वा नाटकविचारेण वा तर्कविचारेण वा ज्योतिर्विचारेण वा सिद्धान्तविचारेण वा ब्रूताम् , यदि पश्चाद् वयं भवापस्तदा यादृशानेष कथयति तादृशा एव वयम् , परं यदेषोऽस्माकं हस्तेन लोकविरुद्धं स्वदर्शनविरुद्धं मल्लयुद्धादि कारयति तत्कथमपि न कुर्मः । न चास्माकं तावन्मात्राकरणे लाघवम् । यतः कदाचित् कोऽपि हालिकादिः कथयिराति-यदि यूयं पण्डितास्तदा मया सह हलकर्षणादि कुरुध्दमिति-तदा किममाभिस्तत्कर्तव्यम्, अकरणे च किमस्माकं पाण्डित्यं याति ? । तथा महाराज! यद्येष यथा तथाऽस्मान् जेतुं वाञ्छति तदाऽस्माकं पार्थात् क्लिष्टं काव्यं प्रश्नोत्तरं वा गुप्तक्रिया-कारकादिकं वा पृच्छतु । अथा स्वेच्छानुसारकर्तव्याक्षरसन्निवेशरूपया कल्पितया लिप्या किञ्चिद्दों सभ्यकर्णे कथयिता खटिकया भूमौ लिसतु, यद्यदसीयहृदयस्थं वृत्तं न निष्काशयामस्तदा हारितमेव । अथवा वृत्ता केवलान् स्वरान् लिखतु केवलानि व्यञ्जनानि वा लिखतु, यदि केवलैस्तैरस्य हृदयस्थ वृत्तं न निष्काशयामलदामि हारितमेव । तथैकवारश्रुतवृत्ताक्षराणि नुपूत्यष लिखतु, किं वा वयं लिखामः। तथा वर्तमानकालवर्तिवांशिकमीयमाननवनवरागनामकथनपूर्वकं तात्कालिकदाव्येनाऽन्यनिर्दिष्टकोष्ठकाक्षरप्रक्षेपेण कोष्ठकानेष पूरयतु, किं वा वयं पूरयाम:'। राज्ञोक्तम्-'आचार्य मिश्रा ! यूयं सर्वान् रागान् परिच्छिन्त ?' पूज्यैरुक्तम्-'महाराज ! यदि केनापि पण्डितेन सह वादव्यवस्था निष्पन्ना स्यात् तदा क्रियते वार्ता कापि, अनेन पुनरज्ञानेन मानुषेण सह विवदमानानां केवलमात्मनः कण्ठसोष एवेति' । राज्ञोक्तम्-'आचार्य! मा विषाद, यथोक्तकोष्ठकपूर्तिरीतिदर्शनेन यथाऽसाके कुतूहलं पूर्तते तथा हुई। पूज्यैरुताम्-'ईदृशं विणापि यदि कथयत तदाऽरमाकमपि शरीरे सुखं भवति । तत्काल कारितवाकिवाद्यमान गोत्तिष्ठतवमा गणनपूर्वकं तत्कालकृतश्रीपृथ्वीराजन्यायप्रियवगुणवर्णनरूपश्लोकाक्षराणि सर्वाधिकारि-सहनासनिर्दिष्टे कोष्ठके प्रसिद्धिः श्रीपूज्यस्तस्यां समायां कस्य कस्य मनःपहल आश्चर्यलक्ष्मीः सुखासिकया न स्थापिता। अतिप्रसन्नेन श्रीपृथ्वीराजपृथ्वीपतिनोक्तम्-'आचार्य ! जितं त्वया, विकल्पः कोऽपि मनसि न कार्यः । स्वकीयधर्मप्रभावात् सहस्रसंख्यदेशस्वामित्र प्राप्तं मया सप्ततिसहस्रतुरङ्गमानामाधिपत्यं च तथा न कोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org