________________
३२
खरतरगच्छालंकार
प्रतिपक्ष मदीयां भूमिकां क्रमितुं शक्नोति यत्त्वमस्मिन् देशे वससीति । तथाऽऽचार्य ! मया न ज्ञातं यत्त्वमेवंविधं रत्नं वर्तसे, अतो यत्किञ्चिदनुचितमाचरितं तत्क्षन्तव्यमिति वदता हस्तौ योजितौ । पूज्यैश्व हर्षवशाद् - बम्भ्रम्यन्ते तवैतास्त्रिभुवनभवनाभ्यन्तरं कीर्तिकान्ताः, स्फूर्जत्सौन्दर्यवर्या जितसुरललना योषितः संघटन्ते । प्राज्यं राज्यप्रधानप्रणमदवनिपं प्राप्यते यत्प्रभावात्,
पृथ्वीराज ! क्षणेन क्षितिप ! स तनुतां धर्मलाभः श्रियं ते ॥ [३९] इत्याशीर्वाददानपूर्वकं राजवचनं बहुमानितम्। एवंविधं समाचारमवलोक्य वैलक्ष्यात् पद्मप्रभेणोक्तम्- 'महाराज ! एतावन्तं कालं त्वमेकः समदृष्टिरस्यां सभायामासीः, इदानीं च त्वमपि स्वपरिवारानुवृच्याssचार्ये पक्षपातं कृतवान्' । राज्ञोक्तम्- 'पद्मप्रभ ! किमस्मद्धस्तेन कारयसि ?, यदि तत्र शरीरे काऽपि पाण्डित्यकलाऽस्ति तदाऽऽचार्येण सह ब्रूहि, वयं न्यायं दापयिष्यामोऽथ नास्ति तदुत्तिष्ठ स्वप्रतिश्रये गच्छेति । स प्राह - 'महाराज ! न्यायवत्यां पृथ्वीराजसभायां गत्वा यः कश्चित् कलाकौशल्येनाऽऽत्मानं बहु मन्यते स मया सह ढौकतामित्याह्वानपूर्वकमङ्गुलीमूर्ध्वं करिष्य इत्याशावता मया षट्त्रिंशत्सं ख्यदण्डनायकायुधप्रकारा अभ्यस्ताः, अतो यद्यद्य तव सभायामेपा कला फलवती न भविष्यति तदा कदा भविष्यतीति ?' |
५१. अत्रान्तरे श्री पृथ्वीराजातिवल्लभेन मण्डलीकरणकसमकक्षेण श्रीजिनपतिसूरिपादभक्तेन श्र० रामदेवेनोक्तम्'देव ! शृणुत वार्तामेकाम् श्रे० वीरपालपुत्रजन्मपत्रिकानुसारेण ज्ञायते तव पुत्रो राजमान्यो द्रव्याढ्यो दानप्रियश्च भविष्यतीत्यादिज्योतिषिकवाक्यश्रद्धया मदीयः पुत्रो राजसभायां सञ्चरन्मा केनाप्यव हेल्यतामित्यभिप्रायेणावाल्यकालादहमात्मविप्रेण पण्डितहस्तेन द्विसप्ततिः कला अभ्यासितः । अन्यासां च घनानां कलानां फलं मया दृष्टं किन्तु युष्मत्प्रसादान्मम संमुखं वक्रया दृश्या केनापि नावलोकितम्, अतो बाहुयुद्धस्य फलं न दृष्टम्; इदानीं च मम पुण्याकृष्टस्तव सभायां पद्मप्रभः समागतो तो यदि युष्माकं निरोपो भवति पद्मप्रभस्य च संमतं भवति तदा बाहुयुद्धकलायाः फलमालोक्यते' | केलिप्रियेण राज्ञोक्तम्- 'श्रेष्ठिन् ! वेगं कुरु, ऊर्ध्वो भव पद्मप्रभ !, त्वमपि स्वकलायाः फलं प्राप्नुहीति' । तदनन्तरं द्वापि मल्लग्रन्थि बद्धा गलागलि योद्धुं प्रवृत्तौ । क्षणान्तरे श्रे० रामदेवेन निहत्य भूमौ पातितः पद्मप्रभः । ‘श्रेष्ठिन् ! श्रेष्ठिन् ! अस्य कर्णौ लम्बौ स्तो मा त्रोटये 'ति श्री पृथ्वीराजवचनं निषेधकमप्युपहासपरतया विधायकं मत्वा तत्कर्णपाली हस्तेन गृहीत्वा पूज्याभिमुखमवलोकितवान् रामदेवः । पूज्यैश्च स्वशिरोधूननेन 'प्रवचनोड्डाहं मा कृथा' इत्यादिवचनेन च निषिद्धः । लोकैश्च कलकलं कृत्वा परस्परमहमिकयोक्तम्- 'यथाऽहो मया प्रथममेव कथित यच्छ्रेष्ठी जेष्यति यदनेन सावष्टम्भं पद्मप्रभाभ्यस्तपटू त्रिंशद्दण्डकलातो द्विगुणकलाभ्यासः कथितः ' - इत्यादि । राजादेशात् पद्मप्रभं मुक्त्वोत्थितः श्रे० रामदेवः । सोऽपि चोत्थाय धूलिमलिनं निजं वस्त्रादि प्रास्फोटयत्, राजपुत्रैश्व श्री पृथ्वीराजाक्षिसंज्ञानुसारेण गले गृहीत्वा पर्यस्तः स वराकः । तत्पश्चात्तस्य पततः सोपानपङ्क्तिसंसक्त्या भग्नं मस्तकमधस्तनसोपानसमीपे क्षणं मूर्च्छा समागता । केनापि वण्ठेन प्रच्छादिकाऽपहृतेति तादृशमसमञ्जसं दृष्ट्वा जिनशासनलाघवभीरूभिः श्रीजिनपतिसूरिभिर्दया परिणामात्तत्क्षणादेवाऽऽत्मभक्त श्रावकहस्तेन श्वेता प्रच्छादिका दापिता तस्य । तथैकेन च वण्ठेन हस्तकादानपूर्वकमूर्ध्वकृत्य जितमस्माकं ठक्कुरेणेति वदता द्वितीयहस्तेन दत्ता तन्मस्तके टक्करा । तदनन्तरं सहस्रसंख्यैर्विटप्रायैर्लोकैस्तन्मस्तके टक्करां ददद्भिर्धवलगृहाद्वहिर्निष्कासितः । श्रीपूज्यैश्च श्रीपृथ्वीराजहस्ते महाश्वेतवहिकापट्टचतुष्कोण खण्डलघुहस्त चित्रकरलिखितमहाप्रधानछत्रबन्धपटो दत्तः । राजा पुनरतिकुतूहलाच्छत्रमवलोक्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org