Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 52
________________ युगप्रधानाचार्यगुर्वावली। २५ काशिखरश्च । सागरपाटेऽप्यम्बिकाशिखरः । सं० १२३७ बब्बेरके जिनरथो वाचनाचार्यः कृतः । सं० १२३८ आसिकायां बृहजिनयुगलं स्थापितम्। ४८. सं० १२३९ फलवधिकायां भक्तिवशादनेकश्रावकैरनुगम्यमानान् बहिर्भूमौ गच्छतः श्रीजिनभक्ताचार्यान् दृष्ट्वा मत्सरवशादज्ञानाद्वा महर्दिकश्रावकदर्याद्वा कुकर्मपरिपाकाद्वा नटभटपटलवेष्टित ऊकेशगच्छीयः पद्मप्रभनामा पण्डितंमन्य आत्मनः पुरः पद्मप्रभेण जितो जिनपतिसूरिरिति भट्टान् पाठयितुं लग्नः । तदनन्तरं कोपावेगादुत्तालगत्या गत्वा श्रीपूज्यभक्तश्रावकैरालापितः स-'आः पाप ! अलीकभाषिन् पद्मप्रभ ! कस्मिन् काले जितस्त्वया जिनपतिमूरिर्यदेवं भट्टान पाठयसि ?' तेनोक्तम्-'यद्यलीकं मन्यथ तदा पुनरप्यानयत स्वगुरुमिदानीमपि जेष्यामीति' । तैरुक्तम्-'आस्ताम[स]मभीमसमप्रकृते दुरात्मन् ! शृगालोऽपि सन् सिंहेन सह स्पर्धमानो निश्चितं मुमूर्षसी' त्यादिवदत्सु तेषु, मिलिता उभयभक्तश्रावका अहङ्कारवशात् पणत्यागपूर्वकं चक्रुर्वादव्यवस्थाम् । श्रुता च वार्ताऽजयमेरौ श्रीपूज्यैः, प्रेपितश्च तत्र तद्विजया) संघप्रमोदार्थं च श्रीजिनमतोपाध्यायः । पुनरपि तत्रत्यसमुदायेन चिन्तितम्-'एप दुरात्मा मृपाभाषी कथयिष्यति मया पूर्व जिनपतिसूरिर्जितोऽतो ममाग्रे स्थातुमशक्नुवन् स्वकीयपण्डितं प्रेषितवानित्यादि । तस्माच्छ्रीपूज्याः श्रीमुखेन जयन्त्वेनमिति विचार्य समुदायः श्रीजिनमतोपाध्यायेन सहाजयमेरौ गतः । तत्र च राजमान्येन श्रा० रामदेवेन विज्ञप्तः श्रीपृथ्वीराजः पृथ्वीपतिः--'देव ! अस्मद्गुरूणां श्वेताम्बरेणैकेन सह वादव्यवस्था निष्पन्ना वर्तते, अतो यथा महापण्डितमण्डलीमण्डिते युष्माकं सभामण्डपे फलवती भवति तथा प्रसाद कुरुतावसरं प्रयच्छतेति' । केलिप्रियेण राज्ञोक्तम्-'इदानीमेवावसरः' । श्रे० रामदेवेन विज्ञप्तम्-'गोस्वामिन् ! द्वितीयः श्वेताम्बरः पद्मप्रभनामा फलवधिकायां वर्तते' । कौतुकार्थिना राज्ञोक्तम्-'तद्विपयेऽहं भलिष्यामि, स्वकीयान् गुरून् प्रगुणयेति' । श्रे० रामदेवेनोक्तम्-'देव ! अस्मद्गुरवोऽत्रैव वर्तन्त इति ।' तदनन्तरं राज्ञा भट्टपुत्रान् प्रेष्य पद्मप्रभ आनायितः । तस्मिंश्चागते दिग्विजयार्थ नरानयने प्रस्थानीभूतः सकलबलसमेतः श्रीपृथ्वीराजः । तत्र पुनरपि श्रेष्ठिरामदेवेन विज्ञप्तो राजा-'देव ! अस्मद्विज्ञप्तिकाविषये कीदृश आदेशः ?' प्रतिपन्नप्रतिपालकेन राज्ञोक्तम्-'प्रगुणय स्वगुरून् , कार्तिकशुक्लसप्तमीदिने वादावसरः।' श्रे० रामदेववचनात्तदिनोपरि श्रीअजयमेरुतः श्रीजिनमतोपाध्यायपं० थिरचन्द्र-वा० मानचन्द्रादिसाधुवृन्दपरिकरिताः श्रीजिनपतिसूरयो नरानयने राजसभायां प्रभूताः, पद्मप्रभोऽपि भट्टपुत्रसमेतस्तत्र समागतः । 'यावदहमागच्छामि तावत्वया वागीश्वर-जनार्दनगौड-विद्यापतिप्रभृतिपण्डितसमक्षमेतौ वादयितव्यौ' इत्यादेश मण्डलेश्वर-कइमासस्य दत्त्वा स्वयं राजा श्रमकृते श्रमस्थानं गतः। अतीवरमणीयां श्रीपूज्यानां मूर्तिं दृष्ट्वा हर्षादाह मण्डलेश्वरः-'अहो ! एके ईदृशा दर्शनिनः सन्ति ये दृष्टाः सन्तो नेत्रयोरानन्दं जनयन्ति, निर्वासाश्च दिगम्बराः पिशाचप्राया दृष्टाः सन्तो नेत्रयोरुद्वेगमुत्पादयन्तीति' । तदनन्तरं श्रीपूज्यैरुक्तं मण्डलेश्वरं [प्रति] पश्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ॥ [२६] अतो दर्शनिनां निन्दा न कर्तव्येत्यादि व्याचख्यानेषु पूज्येष्वन्तरेवेर्ध्यावशादुत्तालः पण्डितपद्मप्रभो वृत्तं पठितुं प्रवृत्तो मण्डलेश्वरं [प्रति] प्राणा न हिंसा न पिबेच्च मद्यं, वदेच सत्यं न हरेत्परस्वम् । परस्य भार्या मनसा न वाञ्छे, स्वर्ग यदीच्छे विधिवत्प्रविष्टुम् ॥ [२७] ___ -इति । श्रीपूज्यैरुक्तम्-'अहो शुद्धपाठकता' । स प्राह-'आचार्य ! मामुपहससि ?' श्रीपूज्यैरुक्तम्-'महानुभाव पद्मप्रभ ! कलाविकले कालेऽस्मिन् क एक उपहस्यते को वा नोपहस्यते' । स प्राह-'तहि किमित्यहो शुद्धपाठकतेत्युक्तम् ?' श्रीपूज्यैरुक्तम्-'महासत्त्व ! पण्डितसभायां शुद्धमेव पठ्यमानं मुखालङ्कृतये भवति । स प्राह-'किं कश्चित् सोऽप्यस्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148