Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
युगप्रधानाचार्यगुर्वावली ।
प्रामाणिक राधुनिकैर्विधेयः, प्रमाणमार्गः स्फुटमप्रमाणः । हहा ! महाकष्टमुपस्थितं ते, स्वर्गाधिरोहे जिनचन्द्रसूरे ! ॥
[२४]
इत्यादि भणिखा बृहदसमाधानवशादुच्चैः खरेणाऽश्रुपातं कर्तुं प्रवृत्तः प्रवर्तकसाधुगुणचन्द्रगणिः । तदनन्तरमितरेऽपि साध॑वो निजगुरुस्नेहविह्वलाः परस्परपराङ्मुखीभूयाश्रुपातं कर्तुं लग्नाः, श्रावका अपि प्रच्छादिकाञ्चलं नेत्रयोरग्रे दत्त्वा तथैव भावं कर्तुं प्रवृत्ताः । क्षणान्तरे तादृशमसमञ्जसं दृष्ट्वा स्वयं धैर्यमवलम्ब्य च - 'भो ! भो ! महासत्त्वाः साधवो ! माsसमाधानं कुरुत, श्रीपूज्यैर्मम सर्वाऽपि शिक्षा दत्ताऽस्ति, यथा युष्मन्मनोरथाः सेत्स्यन्ति तथा विधास्येsat मम पृष्ठलग्ना यूयमागच्छत' इत्याश्वास्य सर्वसाधुसमेतः कृतकर्तव्य क्रियाकलापः समाजगाम पौषधशालायां सर्वजनमान्यो भाण्डागारिकगुणचन्द्रगणिः । कतिचिद्दिनानन्तरं चतुर्विधसंघसमेतः श्रीबब्बेरके विहृतः ।
४५. तत्र च सं० १२१० विक्रमपुरे जिनपतिसुरेर्जन्म, सं० १२१७ फाल्गुन शुक्लदशम्यां व्रतम्, सं० १२२३ कार्तिकसुदि १३ अनेकदेशसमागतानेकसंघसम्मत्या प्रधानशकुनप्रेरणया श्रीजिनदत्तसूरिपादोपजीविश्रीजयदेवाचार्यहस्तेन श्रीजिनचन्द्रसूरिषट्टे चतुर्दशवर्षप्रमाणः षट्त्रिंशदाचार्यगुणालङ्कृतो महाप्राज्ञो नरपतिनामा क्षुल्लको महता महोत्सवेनोपवेशितः श्रीजिनपतिसूरिरिति नाम कृतम् । तस्य च द्वितीयस्थानीयः श्रीजिनचन्द्रसूरिवाचको मुनिः श्रीजिनभक्वाचार्यनामाऽऽचार्यः कृतः । तत्र च तत्रत्यसमुदायसहितेन सा० मानदेवेन देशान्तरीय समुदायसत्कारपूर्वकं सहस्रसंख्यद्रव्यव्ययेन महामहोत्सवः कारितः । तत्रैव स्थाने श्रीजिनपतिसूरिभिः पद्मचन्द्र - पूर्णचन्द्रयोर्व्रतं दत्तम् । सं०१२२४ विक्रमपुरे गुणधर - गुणशीलयोः पूर्णरथ- पूर्णसागरयोर्वीरचन्द्र-वीरदेवयोः क्रमेण दीक्षानन्दित्रयं कृतम् | जिनप्रियस्य चोपाध्यायपदं दत्तं श्रीजिनपतिसूरिभिः । सं० १२२५ श्रीपूज्यैः पुष्करिणां सभार्यस्य जिनसागरस्य जिनाकरजिनबन्धु-जिनपाल-जिनधर्म - जिनशिष्य - जिनमित्राणां व्रतं दत्तम् । पुनर्विक्रमपुरे जिनदेवगणिदीक्षा । सं० १२२७ श्रीपूज्यैरुच्चायां धर्मसागर - धर्मचन्द्र - धर्मपाल - धनशील - धर्मशील - धर्ममित्राणां धर्मशीलमातुश्च व्रतम्, जिनहितस्य वाचनाचार्यपदं दत्तम् | तथा मरुकोट्टे शीलसागर - विनयसागरयोः, शीलसागरभगिन्यजित श्रीगणिन्या व्रतं दत्तम् । सं० १२२८ सागरपाटे दु० सा ( दुसाझ ?) साढलसेनापत्याम्बडकारिता अजितस्वामि- शान्तिनाथचैत्ययोः प्रतिष्ठा कृता च श्रीपूज्यैः । तत्रैव वर्षे बब्बेरके विहारः । आसिकायां चाऽऽसिकासमीपवर्तिग्रामागतान् श्रीपूज्यान् श्रुला प्रमोदातिशयादासिकावास्तव्यसमुदायेनाऽऽत्मना सार्धं श्री भीमसिंहनामा राजाऽपि सम्मुखमानीतः । तत्र च सर्वातिशायिरूपान् लघुवयसः श्रीपूज्यान् दृष्ट्वा हर्षप्रकर्षाच्छ्री भीम सिंहभूपतिः कुशलवार्ताप्रश्नव्याजेन जिह्वापाटवदर्शनकुतूहलादालापयामास । श्रीपूज्यैश्च राजनीत्युपदर्शितद्वारेण विस्तरेण धर्मदेशना कृता । लब्धावसरेण राज्ञा केलिवशादुक्तम्- 'आचार्य ! अस्माकं नगरे महाविद्वान् दिगम्बरो वर्तते तेन सार्धं वादं ग्रहीष्यसि ?' पार्श्वोपविष्टेन श्रीजिनप्रियोपाध्यायेनोक्तम्'महाराज ! अस्माकं दर्शन उपेत्य केनापि सह वादो न क्रियते, परं यदि कदापि कोऽपि पण्डितमानी स्वशक्तिं स्फोरयन् जैनदर्शनं वाऽवहेलयन्नमानुद्वेजयति तदा पश्चाद् न भ्रूयते, किं बहुना यथातथा तस्मिन्निर्लोठित एवाऽस्माकं शरीरे सुखं भवति ।' श्रीपूज्यानुद्दिश्य राज्ञोक्तम्- 'आचार्य ! एवम् ?' श्रीपूज्यैरुक्तम्- 'महाराज ! एवमेव' । पुनरप्युपाध्यायेनोक्तम्– 'महाराज ! ज्ञानबाहुल्येनास्मद्गुरव एव समर्थाः परं दर्शनमर्यादया ज्ञानाभिमानं न कुर्वन्तोऽपि दर्शविप्लवकारिणं प्रतिवादिनं स्वशक्त्या सकललोकसमक्षं मानपर्वतादुत्तार्य मुञ्चन्ति' । राज्ञोक्तम्- 'आचार्य ! किमयमाचष्टे युष्माकं पण्डितः ?' श्रीपूज्यैरुक्तम्- 'महाराज !
.
ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः ? |
अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते ? ॥१॥
१ प्र० 'साधवः साध्व्यश्च' । + अत्र ५ पत्रात्मकं प्रत्यन्तरं समाप्तं भवति ।
Jain Education International
२३
For Private & Personal Use Only
[२५]
www.jainelibrary.org

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148