Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 51
________________ खरतरगच्छालंकार इत्यादिदेशनया गाढतरमावर्जितो राजोक्तवान्- 'आचार्य ! किमिति विलम्बः क्रियते ; नगरप्रवेशेऽपि बृहती वेला लगिष्यतीति' । तदनन्तरं चतुर्विधसंघेन पृथ्वीपति श्री भीमसिंहेन च साधे पूर्वोक्तढिल्लीप्रवेशकरीत्या श्रीआसिकायां श्रीपूज्याः प्रविष्टाः । २४ ४६. तत्र चान्यदा वहिर्भूमौ गच्छतां साधुवृन्दालङ्कृतपञ्चाद्भागानां श्रीपूज्यानां प्रतोलीप्रदेशे मिलितः सम्मुखमागच्छन् महाप्रामाणिको दिगम्बरः । सुखवार्ताप्रश्नव्याजेनाऽऽलाप्य श्रीपूज्यैः सज्जनस्वरूपप्रतिपादकवृत्तेषु व्याख्यायमानेषु मिलितः कुतूहलात् सर्वोऽपि नागरिकलोको राजलोकश्च । तत्र च श्रीपूज्यानां स्फुर्जितं दृष्ट्वा लोकः सर्वोऽपि लघुनापि श्वेताम्बराचार्येण जितो दिगम्बरः पण्डितराज इति परस्परं वार्तयामास । राजप्रधानदिदा - कक्करिउ - कालाश्च राजसभायां गत्वा राजश्री भीमसिंहस्याग्रे कथयामासुः - 'देव ! यस्याऽऽचार्यस्य सम्मुखं तस्मिन् दिने यूयं गता आसन् तेनाऽऽचा लघुनाsप्यत्रत्योदिगम्बरो जित इति ।' राजा हर्षवशाद् विकसितवदनः प्राह- 'सत्यम् ?' ते प्राहु: - 'देव ! सत्यं, नास्त्यत्र हास्यम्' । राजोवाच- 'भोः कथं कथम् ?' 'च हर्षावेगात् परवशा इवोचुः - 'देव ! प्रतोलीप्रदेशे सर्वलोकसमक्षं तैरित्थमित्थं दिगम्बरो जितः ।' राजा प्राह- 'अहो ! पौरुषमेव प्राणिनां सर्वसम्पदो हेतुर्न लघुत्वं महत्त्वं वा । मया तस्मिन्नेव दिने तदाकृतिं दृष्ट्वा सम्भावितं यदस्याग्रतो दिगम्बरो वाऽन्यो वा विद्वान् स्थातुं न शक्यते ' - इत्यादिकां बह्रीं प्रशंसां कृतवानिति । फाल्गुनशुक्ल तृतीयायां देवगृहे श्रीपार्श्वनाथप्रतिमां स्थापयित्वा श्रीसागरपाटे देवकुलिका प्रतिष्ठिता श्री पूज्यैः । 1 ४७. सं० १२२९ धान पाल्यां श्रीसंभवस्थापना शिखरप्रतिष्ठा च कृता । सागरपाटे च पं० माणिभद्रपदे विनयभद्रस्य वाचनाचार्यपदं दत्तम् । सं० १२३० विक्रमपुरे थिरदेव - यशोधर - श्री चन्द्राणाम्, अभयमति - जयमत्यासमति - श्रीदेवीसा - वीनां च दीक्षा दत्ता । सं० १२३२ फाल्गुनसुदि १० विक्रमपुरे भाण्डागारिकगुणचन्द्रगणिस्तूपः प्रतिष्ठितः । तत्रैव वर्षे निजप्रभुप्रसादननिमित्तसमागतमण्डलीक भूपमण्डलीमण्डितमण्डलाकारस्कन्धावारवारोपशोभितकोदृबहिः प्रदेशस्वकीयप्रासादमध्यवर्तमानचक्रवर्त्तिराजधानीसमानलक्ष्मीकतत्कालनिष्पन्न श्रीपार्श्वनाथमन्दिरशिख रहिरण्यमयकलशदण्डप्रभृतिप्रभूतधर्मस्थानार्थप्रारब्धप्रतिष्ठामहोत्सवदर्श नकुतूहलबलमिलितनानादेशवास्तव्यभव्यलोकसंघसंघाताकारसन्निवेशविशेषशोभमानबहिः परिसर श्रीमदासिकायां चत्वारिंशत्संख्यसर्वानवद्यविद्याभ्यासजितवाचस्पतिमतिसुयतिजनमनः कुमुदखण्डमार्तण्डमण्डलायमानोपदेशैः श्रीपूज्यैर्विक्रमपुरीय समुदायेन सार्धं विजहे । तत्र च ज्येष्ठानुक्रमेण समकालपुरः प्रारव्धपृथक्पृथक्प्रेक्षणीयकपञ्चशब्दवादनादिवर्धापनकहर्ष भरनृत्यमानास्तोकलोकोत्तारित निरुञ्छनकदानगीयमानयुगप्रधानगुरुनामश्रवणानन्तरवितीर्यमाणार्थसार्थतिरस्कृतवैश्रवणद्रव्यगर्वगान्धर्विकलोकोप श्लोक्यमाननिजनिजदेशपूर्वजनामधे - याकर्णनोच्छलदमन्दानन्दामृतसरस्तरङ्गभङ्गिसङ्गमुखी भवदङ्गसमग्रसङ्घानुगम्यमानानां श्रीपूज्यानां प्रवेशः सञ्जातो ज्येष्ठशुक्लतृतीयायाम् । वादलब्धिलब्ध जगन्मध्याध्यामसाधुवादाशीतिसंख्यसाधुमधुपपर्युपास्यमानक्रमकमलैः श्रीपूज्यैर्महता विस्तरेण प्रतिष्ठिते श्रीपार्श्वनाथशिखरे प्रतिष्ठितौ सुवर्णदण्ड-कलशावध्यारोपितौ । तस्मिन्नेव समये दुसाझसादलपुत्र्या साऊश्राविकया पारुत्थद्रम्मशतपञ्चकेन माला गृहीता । धर्मसारगणि-धर्मरुचिगणी व्रतिनौ कृतौ । आषाढमासे च कन्यानयने विधिचैत्यालये गृहस्थावस्थजिनपतिसूरिपितृव्यविक्रमपुरवास्तव्यसा० मानदेवकारितश्रीमहावीरदेवप्रतिमा स्थापिता । व्याघ्रपुरे पार्श्वदेवगणिर्दीक्षितः श्रीपूज्यैः । सं० १२३४ फलवर्धिकायां विधिचैत्ये पार्श्वनाथः स्थापितः । लोकयात्रादिकारणकलापभावि विज्ञ स्वकीय धर्म ध्यानशास्त्रपरिज्ञानहानिसंभावनानङ्गीकृतलभ्यमानाचार्यपदानुमेयजगदसाधारण गुणगणस्य जिनमतस्य चोपाध्यायपदं दत्तम्, गुणश्रीगणिन्या महत्तरापदं च श्रीसर्वदेवाचार्याणां च दीक्षा जयदेवीसाव्याश्च । सं० १२३५ अजयमेरौ चतुर्मासी कृता । श्रीजिनदत्तसूरिस्तूपः पुनरपि महाविस्तरेण प्रतिष्ठितः । देवप्रभो दीक्षितस्तन्माता चरणमतिगणिनी च । सं० १२३६ अजयमेरौ पासटकारितमहावीरप्रतिमा प्रतिष्ठिता, अम्बि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148