________________
१८
खरतरगच्छालंकार
तानां श्रीजिनदत्तसूरीणामतिशयज्ञानिनां पार्श्वे विमलचन्द्रगणिर्देव गृहनिवासी सोडप्याचार्ययोर्वसति निवासप्रतिपतिं श्रुत्वा वसतिमार्गमङ्गीकृतवान् । तस्मिन्नेव प्रस्तावे जिनरक्षित - शीलभद्रौ मात्रा सह प्रव्रजितौ । तथा थिरचन्द्र-वरदनामानौ भ्रातरौ प्रव्रजितौ । जयदत्तनामा मुनिर्मन्त्रवादी । तस्य पूर्वजा मत्रशक्तियुक्ता आसन् । ते सर्वेऽपि रुष्टया देवतया विनाशिताः । एष पुनर्नष्टः श्रीजिनदत्तसूरीणां शरणागतो व्रतं गृहीतवान् । श्रीपूज्यैस्ततो रक्षितो देवतात । गुणचन्द्रगणिः सोऽपि श्रीजिनदत्तसूरिभिर्दीक्षितः । पूर्वं स श्रावकः सन् तुरुष्कैनीत आसीत् । हस्तदर्शनेन चङ्गी भाण्डारिको भविष्यतीति । नाशनभयात् संकलानिबद्धः । तेन च नमस्कारलक्षं गुणितम् । तत्प्रभावात् संकला स्वयमेव त्रुटिता । ततो निर्गत्य रात्रिपश्चिमप्रहरार्धे कस्याश्चिद्वृद्धाया गृहेऽवातिष्ठत् । तया च कृपया कोष्ठिकामध्ये प्रक्षिप्तस्तुरुष्कैः प्रेक्षितो न लब्धः । रात्रौ निर्गत्य स्वदेशे गतः । तेन च संवेगेन व्रतं गृहीतम् । रोमचन्द्रगणिर्जीवानन्दपुत्रसहितोऽन्यगच्छाद्भव्यं धर्मं ज्ञात्वा श्रीजिनदत्तसूरेराज्ञां प्रतिपन्नः । तथा ब्रह्मचन्द्रगणिव्रतं गृहीतवान् । एतेषां मध्याजिनरक्षित- स्थिरचन्द्रप्रभृतिसाधवः, श्रीमति - जिनमति - पूर्ण श्रीप्रभृतित्रतिन्यश्च धारायां प्रेषिता वृत्तिपञ्जिकादिलक्षणभणनार्थम् | तैश्च भणितं श्रावक साहाय्येने । आत्मना श्रीजिनदत्तसूरयोरुद्रपल्ल्यां विहृताः । तत्र पथि गच्छतामेकस्मिन् ग्रामे श्रावक एकः प्रतिदिनं व्यन्तरेण प्रचण्डेन पीड्यते, तस्य पुण्येन श्रीजिनदत्तसूरिस्तत्रैवोत्तरितः । तेन विज्ञप्तं शरीरस्वरूपम् । परिभावितं सूरिभिर्मत्रतत्रैः साध्यः पीडाकर्तृव्यन्तरः । ततो गणधरसप्ततिकां कृत्वा, टिप्पणके लेखयित्वा, हस्ते टिप्पनकं दत्तम्, हृदयं दृष्टिश्चात्र निवेशनीया श्राद्धस्याग्रे कथितम् । तेन च तथा कृतम्। स च व्यन्तरो विस्तरेण पीडायै समागतः खवासीमाम्, न शरीरे संक्रान्तो गणधर सप्ततिकाप्रभावात् । द्वितीयदिने द्वारसीमां समाग/ तस्तृतीयदिने नाऽऽगतः, श्रावकः स्वस्थो जातः, किं बहुना । रुद्रपल्ल्यां प्राप्ताः । जिनशेखरोपाध्यायाः श्रावकैः सहिताः सम्मुखाः समाजग्मुर्विस्तरेण मध्ये प्रविष्टाः । विंशत्युत्तरं शतं कुटुम्बानां तत्र श्रीजिनवचने कारितम् । पार्श्वनाथऋषभचैत्यद्वयं प्रतिष्ठितम् । श्रावकैः सम्यक्त्वमङ्गीकृतं देशविरतिरङ्गीकृता । सर्वविरतिश्च देपालगणिप्रभृतिभिः श्रावकैः सद्भिः परिगृहीता । तेषां समाधानमुत्पाद्यात्र जयदेवाचार्य प्रेषयिष्याम इति भणिवा पुनः पश्चिमदेशे विहृताः ।
३५. वागडदेशे समायाताः तत्रापि व्याघ्रपुरे । श्रीजयदेवाचार्याः शिक्षां दत्त्वा श्रीरुद्रपल्ल्यां मुत्कलिताः । तत्र स्थितैश्च च च री श्रीजिनवल्लभसूरिप्ररूपित श्री चैत्यगृहविधिस्वरूपा कृता । सा च टिप्पनके लेखयित्वा प्रेषिता..... वासलप्रभृतिश्रावकाणां ज्ञानार्थम् । विक्रमपुरे देवधरपितृसहियागृहसमीपे पौषधशालाऽस्ति । तत्र श्रीजिन श्रावकैरुपविश्योच्छोटितं चच्चरीटिप्पनकम् । 'चच्चरीटिप्पनकं कच्चरीटिप्पनकं' भणिला मदोन्मत्तेन देवधरेण हस्तादुद्दालय द्विधा कृतम् । तस्य किमपि कर्तुं न शक्नुवन्ति । पितुरग्रे वार्ता कथिता । तेनोक्तम्- गाढ एषः, तथापि वारयिष्यामः । पुनरपि पूज्येभ्यो लेखो दत्तस्तत्र चच्चरीटिप्पनकस्वरूपं लिखितम् । श्रीपूज्यैलेखखरूपं परिभाव्य द्वितीयटिप्पनकं प्रेषितम्, लेखश्च प्रेषितः । इदं च लिखितम् - देवधरस्योपरि विरूपकं न भणनीयम्, देवगुरुप्रसादाद्भन्यो भविष्यति । द्वितीयटिप्पनकं प्राप्तं तेषाम् । प्रतिपन्योच्छोटितं वाचितं समाधानं जज्ञे । देवधरेण चिन्तितम् - यद्यपि मया स्फाटितं टिप्पनकं तथापि पुनरपि प्रेषितम्, कारणेन भवितव्यम् । किं तत्राऽलेखि प्रच्छन्नं परिभावयाम्येकान्ते । यदा श्राद्धाष्टिप्नकं स्थापनाचार्या के मुक्त्वा द्वारं स्थगयित्वा गतास्तदोपरि पाटके स्वगृहात् प्रविश्य बहिर्द्वारे स्थगितेऽपि टिप्पनकं गृहीतम् । वाचयितुं प्रवृत्तः । यथा यथाऽर्थानवधारयति तथा तथा मनस आह्लाद उत्पद्यते । अनायतनं बिम्बम् स्त्री पूजा न
,
१ 'गुरूणां ' इत्येव प्र० । २ विमलचन्द्राचार्यैः चैत्यवासिभिर्वसतिवासोऽङ्गीकृतः । ३ - ३ एतदङ्काङ्किता पंक्तिर्नास्ति प्र० । ४-४ एतदङ्कितपाठस्थाने प्र० ' गुणचन्द्रः सोऽपि दीक्षितः । पूर्वं श्राद्धः सन् तुरुष्कैर्नीतो हस्तदर्शनात् भव्यो भांडारि भविष्यति । नाशनभयात्संकलया बद्धः । नमस्कारलक्षं गुणितं । संकला स्वयमेव त्रुटिता । रात्रौ निर्गत्य स्वदेशे गतौ गुरुं दृष्ट्वा संवेगेन व्रतं गृहीतम् । इत्येष पाठो लभ्यते । ५-५ नास्ति पंक्तिरियं प्र० । ६-६ ततो विहृताः । ७-७ एतदङ्काङ्कितं प्रकरणं नास्ति प्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org