________________
युगप्रधानाचार्यगुर्वावली। श्रिये कृतनतानन्दा विशेषवृषसंगताः। भवन्तु भवतां भूप! ब्रह्म-श्रीधर-शङ्कराः॥ [२०]
तं श्रुत्वा तुष्टो राजा । भणति 'सदैवात्र तिष्ठन्तु गुरवः' । 'युक्तमुक्तम् , परं राजन्! अस्मदीया स्थितिरेषा यत् सर्वत्रैव विहारक्रमः क्रियते लोकोपकाराय । अत्रापि सदाऽऽगमिष्यामो यथा युष्माकं समाधानं भविष्यति तथा विधास्यामः।' ततः समाधानेनोत्थितो राजा । पश्चाट्ठक्कुर आसधरो भणितः [गुरुणा]
इदमन्तरमुपकृतये प्रकृतिचला यावदस्ति सम्पदियम् । विपदि नियतोदयायां पुनरुपकर्तुं कुतोऽवसरः॥
[२१] इत्यादि [ततः]स्तम्भनक-शत्रुञ्जय-उज्जयन्त-कल्पनैया पार्श्वनाथ-ऋषभनाथ-नेमिनाथबिम्बस्थानानि परिभावनीयानि । उपरि अम्बिका देउली, तैले च गणधरादिस्थानं चिन्तनीयम् ।
३३. पैश्चाद् वागडे विहारक्रमः कर्तुमारब्धः। सुशकुनेन विहृतास्तत्र । पूर्वमेव तत्रत्यलोकाः श्रीजिनवल्लभसूरिविषये समाधानवन्तः सन्तस्तद्देवलोकगमनमाकर्ण्य तेषां पदे ये संस्थापिता ज्ञानध्यानगुणोपेताः श्रीमहावीरवदनारविन्दनिर्गतस्यार्थतः सूत्रतश्च सुधर्मस्वामिगणधररचितसिद्धान्तवेदिनः क्रियापराः श्रीजिनदत्तनामानः सुगुरवो युगप्रधानास्तीर्थकरकल्पास्तेज विहृताः श्रूयन्ते, तान् दृष्ट्वा सर्वेषां समाधानं समजनिँ । ततश्च ते श्रावका यद्यत् पृच्छन्ति तत्कथयन्तः केवलिन इव श्रीजिनदत्तसूरयस्तेषां समाधानमुत्पादयन्ति । ततश्च लोकाः केचन सम्यक्त्वं, केचन देशविरतिं, केचन सर्वविरतिं गृह्णन्ति तुष्टाः सन्तः। व्रतिनो बहवः कृताः। व्रतिन्यश्च तस्मिन् प्रस्तावे द्विपञ्चाशत् कृताः श्रूयन्ते । ___ ३४. तस्मिन्नेव प्रस्तावे जिनशेखरमुपाध्यायं कृत्वा कतिचित्साधुसहितो रुद्रपल्ल्यां विहारक्रमे मुत्कलितः । स च तपः करोति । स्वजनास्तत्र वसन्तीति तेषां समाधानहेतोः। तथेदं स्वरूपं श्रीजयदेवाचार्यः सपरिवारैः स्वस्थानस्थितैः श्रुतम्-श्रीजिनवल्लभमूरिपदे निवेशिताः श्रीजिनदत्तसूरयः सर्वगुणोपेता अत्र देशे विहृताः । भद्रं जातम् । पूर्वमेव तेषां श्रीजिनवल्लभगणेवसतिनिवासप्रतिपत्तिं श्रीमदभयदेवरिपार्श्व कृतां श्रुखा वसतिनिवासाभिप्राय उत्पन्न आसीदिदानी[मत्रागताः] दृश्यन्ते सुगुरवस्ततः सपरिवारा वन्दनार्थं समाजग्मुः। वन्दिताः सविनयं श्रीजिनदत्तसूरयः। तैश्च तथा सम्भाषिताः सिद्धान्तमधुरवचनैर्यथैवंपरिणामोऽभूद्-भवे भव एत एव गुरवोऽस्माकं भूयासुः । पश्चाद् भव्यदिन उपसम्पदं गृहीतवन्तः । पश्चान्न विलोकितं सनत्कुमारचक्रवर्तिमुनिवत् । श्रीजिनप्रभाचार्या अपि केवलीपरिज्ञानेन सर्वजनप्रसिद्धाः, ते च तुरुष्कभूम्यां गता आसन् । एकेन तुरुष्केण ज्ञानिनो ज्ञाखा पृष्टाः-'मदीयंहस्ते किमस्ति ?' तेनापि गणयित्वा कथितम्- 'बदामः, खटिकाखण्डं च वालश्च । स च वालं न जानाति । तेन दर्शितः करो। वालोऽपि खटिकायां लग्नोऽस्ति । ततस्तुष्टो हस्तं गृहीत्वा चुम्बितवान् , चङ्गा चङ्गेति कथितवान् । आचार्येण ज्ञातं दुष्टा एते भवन्ति कदाचिन्मारयिष्यन्तीति रात्रौ प्रपलाय्य स्वदेशे समागताः । तत्राऽऽगतो जयदेवाचार्य वसतिमार्गप्रतिपत्तारं श्रीजिनदत्तसूरिपार्श्वे श्रुत्वा तस्याप्यभिप्राय उत्पन्नः। परं गाढो मार्ग एतेषाम् । केवलीपरिज्ञानेन चिन्तयति । श्रीजिनदत्तसूरिरागच्छति युगप्रधानत्वेन । पुनश्चिन्तिते तदेवाऽऽगच्छति । तृतीयवेलाचिन्तनेऽग्निपुञ्जो ग[ग]नात्पतितः, वागुत्थिता-यदि धर्मे प्रयोजनं तव तदाऽमुं सुगुरुं प्रतिपद्य धर्म कुरु । ततोऽङ्गीकृतवान् समाधानं जज्ञे । तत्रैव स्थि
१ भणितं च सदैवात्र स्थातव्यम् । २-२ कल्पनया स्थानानि कारितानि। ३-३ नास्ति प्र० । ४-४ एतदकान्तर्गतपाठस्थाने-'ततो वागडे विहृतास्ते । जिनवल्लभसूरिविषये समाधानवन्तो लोका ये ज्ञानध्यानगुणोपेतास्तेषां पदे ये स्थापितास्तेषामागमनमाकर्ण्य दृष्ट्वा च देशनां च श्रुत्वा सर्वेषां समाधानमजनि' इत्येव प्र०। ५-५ नास्तीयं पंक्तिः प्र० । ६ तेषां सम्बन्धिनां । ७-७ एतदङ्कितपाठस्थाने प्र० 'तथा जयदेवाचार्यैः सपरिवारैः जिनदत्तसूर्यागमनं श्रुत्वा वसतिनिवासाभिप्रायः कृतः' इत्येव पाठः । ८ भवन्तु । ९ नास्ति वाक्यमिदं प्र०।१० मम करे। ११ कार्य । १२ ततो गत्वोपसम्पद् गृहीता।
यु० गु० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org