________________
खरतरगच्छालंकार सदृशैः कृता यथा सर्वाऽभयाप्रजा रञ्जिता सती भणति-'धन्या देवभद्राचार्या यैरिदं सुपात्रं पात्राणां पदे निवेशितम्।' यच्छ्रीजिनवल्लभसूरिभिरुक्तमस्मत्पदे सोमचन्द्रगणिर्भवद्भिः स्थापनीय इति तत्सफलीकृतम् । विज्ञप्तं च देवभद्राचार्यैः'कतिचिद्दिनानि पत्तनादन्यत्र विहर्तव्यम्' । ‘एवं करिष्यामः'।
३१. अन्यदा जिनशेखरेण व्रतविषयेऽयुक्तं कृतं किश्चित् , ततो देवभद्राचार्येण निस्सारितः। ततो यत्र भूमौ बहिर्गम्यते तत्र गत्वा स्थितः। यदा श्रीजिनदत्तसूरयो बहिभूमौ गतास्तदा पादयोः पतितो भणितवान्-'मदीयोऽन्यायः क्षन्तव्यो वारमेकं न पुनः करिष्यामि । कृपोदधयः श्रीजिनदत्तसूरयः। प्रवेशितः। पश्चादाचार्यैभणितम्-'न सुखावहो भवतां भविष्यति' । सूरिभिराणि-'श्रीजिनवल्लभसूरिपृष्ठे लग्नो यावदनुवर्तयितुं शक्यते तावदनुवर्त्यते । पश्चादाचार्यादयः स्वस्थाने गताः।
३२. ततः श्रीजिनदत्तसूरीणां विहारक्रमः । क क्रियते ?-देवगुरुस्मरणार्थमुपवासत्रयमकारि। ततो देवलोकाच्छीहरिसिंहाचार्य आगतः। 'किमिति स्मरणा कृता ?' 'कुत्र विहरामीति ।' मरुस्थलीप्रभृतिषु देशेषु विहरेत्युपदेशो जातः । तत्रैव स्थितवतां मेहर-भोखर-वासल-भरतादयः श्रावकास्तत्र व्यवहारे समागताः । तत्र श्रीजिनदत्तमूरिगुरुं दृष्ट्वा वचनं च श्रुत्वाऽतीव मुमुदिरे। ते गुरुत्वेन प्रतिपन्नाः। भरतस्तत्रैव स्थितो वाचकत्वेन । अन्ये स्वस्थाने गत्वा कुटुम्बेषु गुरुवर्णनं कुर्वन्ति । तत्रापि किश्चित् प्रवेशो जातः । ततो नागपुरे विहताः । तत्र धनदेवः श्रावकः प्रतिपत्तिं करोति, भणति च-'यदि मदीयवंचनं करोषि तदा सर्वेषां पूज्यो भवसि ।' पश्चाद् भणितं श्रीजिनदत्तसूरिभिः-'भो धनदेव ! सिद्धान्ते श्राद्धेन गुरुवचन विधेयं न तु श्राद्धवचनं गुरुणेति भणितम् । न च वक्तव्यं परिवाराभावात् पूजा न भविष्यति । यत उक्तम्
मैवं मंस्था बहुपरिकरो जनो जगति पूज्यतां याति।
येन घनतनययुक्ताऽपि शूकरी गूथमश्नाति ॥ पश्चान्न भावितं धनदेवस्य । यद्यपि न भावितं तस्य तथापि गुरुणा युक्तमेव वक्तव्यं (उक्तमिति) केषांचिद्विवेकिनां भावितम् । ततोऽजयमेरौ विहृताः । तत्र ठ० आसधर सा० रासलप्रभृतिश्रावकाः सन्ति । बाहडदेवगृहे गच्छन्ति देववन्दनार्थ श्रीजिनदत्तसूरयः। अन्यदा तत्रान्य आचार्य आगतः । स च पर्यायेण लघुः, तत्र चैत्ये गच्छतां गुरूणां व्यवहारं न करोति । ततष्ठक्कुराऽऽसधरप्रभृतिश्रावकैभणितम्-'किमिति गच्छतां फलं यदि युक्तं न प्रवर्तते ?' ततो वन्दनादिव्यवहारो निवृत्तः। ततः श्रावकैर्विज्ञप्तोऽर्णोराजा-'देवास्माकं श्रीजिनदत्तसूरयः स्वगुरवः समागताः सन्ति । राज्ञाऽभाणि-'यद्यागतास्तदा भद्रम् । कार्य कथयत' । 'देव ! भूमिखण्डमवलोक्यते, यत्र देवगृह-धर्मस्थानानि श्रावकाणां स्वकुटुम्बसदनानि सम्पाद्यन्ते' । पश्चादभाणि-'दक्षिणदिग्भागे यः पर्वतस्तस्मिंस्तत्तले च यद्रोचते तत्कुरुत । आत्मीयगुरवश्च दर्शनीयाः'-इदं स्वरूपं सुगुरोरग्रे भणितवन्तः श्रावकाः । ततोगुरुणाऽभाणि-'आकारयितव्यो राजा य एवं स्वयमेव भणति, गुण एव तस्याऽऽगतस्य' । आकारितो भव्यदिने । आगंतस्तेन नमस्कारः कृतः सुगुरुषु तेषु । आशीर्वादः पठितो राज्ञः पुरः
१ 'तथा सिद्धान्तोदाहरणैर्देशना कृता यथा सर्वे भव्या रञ्जिताः, भणन्ति च'। २ स्थापितं । ३ जिनवल्लभसूरिवचनं च सफलीकृतम् । ४-४ श्रीसूरिणा कृपया प्रवेशितः। ५ सूरिभिर्भणितमस्मत्पृष्ठे । ६ ततः आचार्याः । ७ जिनदत्तसूरिणा विहारकृते। ८ श्रुत्वा गुरुत्वेन प्र० । ९-९ नास्तीयं पंक्तिः प्र० । १० मम वचनं। ११ न चिन्तनीयं । १२ गताः। १३ 'देवगृहे देववन्दनार्थ गच्छन्ति गुरवः तत्राद्याचार्यः' । १४ राज्ञोक्तम् । १५ गुरुश्च दर्शनीयः । १६ सर्व स्वरूपं भणितं गुरोरग्रे। १७ आकारयत सो राजा यत एवं स्वयमेव भणति। १८ कृतो नमस्कारस्तैश्चाशीर्वादः पठितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org