________________
१५
खरतरगच्छालंकार दीयमुखचूरणार्थमात्ममुखमण्डनार्थ च' । पश्चाद्गतः स न किमपि वक्तुं शक्तः । भणनस्थाने गतः। तत्रानेकेऽधिकारिपुत्रा भणन्ति पञ्जिकाम् । सा च धर्मशाला । तत्र सोमचन्द्रोऽपि भणति। अन्यदा कदाचित्तेनाचार्यण परीक्षार्थ पृष्टैः-'भो सोमचन्द्र ! नवकारो यथार्थ नाम ?' पश्चादभाणि सोमचन्द्रेण-'मैवमाचार्या भणन्तु, किं तर्हि ? नवकरणं नवकार एवं व्युत्पत्तिः कार्या' । आचार्येण ज्ञातं वक्तुं न शक्यतेऽनेन सह । सदुत्तर एषः।। ____ अन्यदा लोचदिने न गन्तुं शकितो व्याख्याने। व्याख्यानव्यवस्थेशी-योकोऽपि छात्रो नागच्छति तदा व्याख्यानं न भाणय त्याचार्यः । ते अधिकारिपुत्रा गर्विष्ठा भणन्ति-'तस्य स्थाने पाषाणो धृतः' भाणयन्त्वाचार्या व्याख्यानम् । तदनुरोधेन भाणितम् । द्वितीय दिने त्वागतः सोमचन्द्रो भणितवान्-'युक्तं कृतं यन्मम स्थाने पाषाणो धृतः। परं यावती पञ्जिका भाणिता तावती मां पृच्छन्तु, एतानपि; याथातथ्यां यो भणिष्यति, स न पापाणोऽन्यः पापाण एव' । 'भोः सोमचन्द्र ! खां कस्तूरिकां जानाम्येव परमेतेमूखैः प्रेरितो व्याख्याने, क्षन्तव्यं भवता ।'
२९. हरिसिंहाचार्येण सर्वा सिद्धान्तवाचना दत्ता पण्डितसोमचन्द्राय । तथा मन्त्रपुस्तिका कपलिका च दत्ता यया सिद्धान्तवाचना गृहीता, भगवता तुष्टेन । तथा देवभद्राचार्येण कटाखरणं दत्तं येन महावीरचरितादि चखारि कथाशास्त्राणि पट्टिकायां लिखितानि तुष्टेन । पण्डितसोमचन्द्रगणिामानुग्रामं ज्ञानी ध्यानी मनोहारी सन् विहरति यतिक्रमेण श्रावकाणामतीवाह्लादकारी ।
३०. ऐवं सोमचन्द्र पण्डिते विहारं कुर्वति सति श्रीदेवभद्रसूरिभिः श्रीजिनवल्लभसूरीणां देवलोकगमनमश्रावि । अती4 सन्ताप उत्पन्नः । अहो सुगुरूणां पदमुद्योतितमासीत् परं विघटितम् । पश्चाद् देवभद्राचार्याणामीदृश चित्तमुदपादियदि श्रीजिनवल्लभसूरेयुगप्रधानपदं योग्यस्थानेन नोद्धियते तदा का भक्तिः कृता भवति । पश्चाच्चिन्तयत्याचार्योऽस्मिन् गच्छे कस्तत्पदयोग्यः । चिन्तयतश्चित्ते पण्डितसोमचन्द्रो लग्नः-एष एव योग्यः, श्रावकाणामानन्दकारी ज्ञानध्यानक्रियापरवात् । पश्चात् सर्वसम्मतेन 'पण्डितसोमचन्द्रस्य लेखो दत्तः-खया चित्रकूटे समागन्तव्यम् , येन श्रीजिनवल्लभसूरीणां पदे निवेशयामि त्वाम् । तेषामपि सम्मतमेतत् 'श्रीजिनवल्लभसूरीणाम् । यतः पूर्वमेवाकारित आसीत् । अनेके तत्पदे स्थातुमभ्युद्यता आसन् । किं बहुना सोमचन्द्रपण्डितो देवभद्राचार्या अपि समाजग्मुः। सर्वोऽपि लोको वेत्ति सामान्येन श्रीजिनवल्लभसूरिपदे सूरिस्थापनं भविष्यतीति । 'श्रीचित्रकूटे श्रीजिनवल्लभमूरिप्रतिष्ठिते श्रीमहावीरचैत्ये श्रीसाधारणसाधुना श्राद्धेन पूजिते श्रीमहावीरसंघे-त्वामहं श्रीजिनवल्लभसूरिपदे स्थापयिष्यामि -अर्वागेव दिने पण्डितसोमचन्द्रं भणितवान् श्रीदेवभद्रसूरिरेकान्ते-'अस्मिन् दिने परिभावितमस्ति लग्नम्' । 'युक्तमेतत् , परं यद्यस्मिन् लग्ने स्थापयिष्यथ तदा न चिराय जीवितं भविष्यति । यदी तु षण्णां दिनानामुपरि शनैश्चरवारे यल्लग्नं भविष्यति तत्रोपविष्टानामस्माकं चतुर्दिक्षु विहरतां चतुर्विधश्रीश्रमणसंघः श्रीजिनवल्लभसूरिवचने प्रभूतो भविष्यति । श्रीदेवभद्रसूरिभिरमाणि-'तल्लग्नं न दूरे, तत्रैव भवतु' । ततस्तस्मिन्नेव दिने -११६९ वैशाख सुदि १-चित्रकूटे श्रीजिनवल्लभसूरिपदे विस्तरेण संस्थापिताः श्रीजिनदत्तसूरिनामानः । सन्ध्यासमयं यावल्लग्नवेला, ततो वादित्रैर्वाद्यमानैः समागता वसतौ । प्रतिक्रमणानन्तरं वन्दनकं दत्त्वा श्रीदेवभद्रसूरिमिभणितम्-'देशनां कुरुत'। तथा देशना सिद्धान्तोदाहरणैः सुधा
१ नास्ति प्र०।२ शकितः। ३ पृष्टः सोमचन्द्रः। ४ इति । ५ नायाति । ६ भणत्या० । ७ व्याख्यानं । ८ द्वितीयेऽहि । ९-९ किं करोग्याचार्येणोक्तमेतैमूर्खः प्रेरितः । १० हरिचन्द्राचा०। ११-११ एतदकाङ्किता पंक्तिर्नास्ति प्र० । १२ ज्ञानी ध्यानी श्राद्धानामतीवाह्लादकारी विहरति । १३ एवं विहरति । १४ °सूरिणा। १५ °सूरेः । १६ 'अतीव' नास्ति । १७-१७ 'ततो गच्छे आचार्येणोपयोगो दत्तः। सोमचन्द्रो लमः, जनानन्दकारी' । १८ लेखः प्रेषितः सोमचन्द्राय । - एतदङ्किता पंक्तिर्नास्ति प्र०। १९-१९ श्रीजिनवल्लभसूरिप्रतिष्ठिते श्रीवरचैत्ये सूरिपदे स्थापयामि । २० यदि । २१ शनिवारे। २२-२२ 'चतुर्विधः संघः प्रभूतो' । २३ आचार्येणोक्तं तत्र भवतु । २४ दिने सूरिपदे। २५श्रीआचार्येणोक्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org