________________
खरतरगच्छालंकार स्त्रीभिर्गीयमानो बहुपरिवारो गच्छन् परिणेतुं दृष्टः । श्रीजिनवल्लभगणिना भणितम्-'एता एव स्त्रियो रोदनं कुर्वन्त्यो व्याशुटिष्यन्ति'-इति परिभाव्यम् । पश्चाद्गतास्तत्र । तेषां मध्यात् परिणेता निःश्रेण्यामारुह्य चटितुमारब्धः। आरोहतः पादश्चलितः, पतितस्तथा यथाऽसौ पतन घरट्टोपरि पतितः, उदरं द्विधा जातम् , मृतश्च । ता अपि तथाभूता आगच्छन्त्यो दृष्टाः सर्वैरपि । अहो ! परिज्ञानं गुरूणाम् । पश्चाच्छ्रावकाणां धर्मपरिणाममुत्पाद्य पुनर्नागपुरे विर्हताः श्रीजिनवल्लभगणयः।
२६. तस्मिन् प्रस्तावे देवभद्राचार्या विहारक्रमं विदधाना अणहिल्लंपत्तने समायाताः। तत्रागतैश्चिन्तितम्-'प्रसन्नचन्द्राचार्येण पर्यन्तसमये भणितं ममाग्रे "भवता श्रीजिनवल्लभगणिः श्रीमदभयदेवसूरिपट्टे निवेशनीयः" । स च प्रस्ताघोऽद्य' । ततः श्रीनागपुरे श्रीजिनवल्लभगणेविस्तरेण लेखः प्रेषितः-'वया शीघ्रं समुदायेन सह चित्रकूटे समागन्तन्यम् , येन वयमागत्य चिन्तितप्रयोजनं कुर्मः' । ततः समागताः श्रीजिनवल्लभगणयः सपरिवाराः। तेऽपि तथैव समागता देवभद्रसूरयः। पण्डितसोमचन्द्रोऽप्याकारितः परं नागन्तुं शक्तः । इदानीं श्रीदेवभद्रसूरिभिः श्रीमदभयदेवमूरिपट्टे श्रीजिनवल्लभगणिनिवेशितः, सं० ११६७ आषाढ सुदि ६, चित्रकूटे वीरविधिचैत्ये । अनेके भव्यजनाः श्रीजिनवल्लभसूरीन् युगप्रधानान् युगप्रधानश्रीमदभयदेवमूरिपादभक्तान् समालोक्य मोक्षमार्गे प्रवृत्ताः। देवभद्राचार्यादयोऽपि स्वस्थाने प्राप्ताः" । क्रमेण ११६७ एकादशशतषष्टिसप्ताधिकसंवत्सरे कार्तिककृष्णद्वादश्यां रजन्याश्चरमयामे दिनत्रयमनशनं विधाय मिथ्यादुष्कृतपूर्वकं नमस्कारपरावर्तनं कुर्वन्तः श्रीजिनवल्लभसूरयश्चतुर्थदेवलोकं प्राप्ताः॥
२७. पूर्व श्रीजिनेश्वरसूरीणां श्रीधर्मदेवोपाध्यायस्य व्रतिनीभिर्गीतार्थाभिश्चतुर्मासी धवलके कृता । क्षपनकभक्तवाछिगपत्नी बाहडपुत्रसहिता वतिनीपार्श्व धर्मकथां श्रोतुं समागच्छति । वतिन्य विशेषेण धर्म कथयन्ति । ताश्च पुरुषलक्षणं शुभाशुभं विदन्ति । तस्याः पुत्रस्य प्रधानलक्षणानि पश्यन्ति । तल्लाभनिमित्तं बह्वाक्षिपन्ति तन्मातरम् । किंबहुना तथा भक्ता कृता यथा शिष्यत्वेन पुत्रं दास्यतीति । चतुर्मास्यनन्तरं धर्मदेवोपाध्यायस्य स्वरूपं दत्तम्-'पात्रमेकं प्राप्तमस्ति यदि युष्माकं प्रतिभास्यति' । ततः शीघ्रं सुशकुनेन समागताः। दृष्टश्च यथोक्त एव । ततः शुभलग्ने एकादशशतकचत्वारिंशत्संवत्सरे (सं० ११४१) सोमचन्द्रनामा विनेयो विहितः-'सर्वदेवगणे ! त्वया प्रतिपाल्यः, सर्व बहिभूमिनयनादिकार्यमस्य कार्यम्' । एकादशशतद्वात्रिंशत्संवत्सरे (सं० ११३२) जन्माऽस्य । स्वयमेव मातृकादिपाठोऽपाठि । अशोकचन्द्राचार्येणोत्थापना कृता । प्रथमव्रतदिवसे बहिभूमौ नीतः सर्वदेवगणिना सोमचन्द्रमुनिः । शिशुत्वादज्ञानत्वादुद्गतचणकक्षेत्राण्यामूलात् त्रोटितानि । शिक्षानिमित्तं रजोहरणं मुखवस्त्रिका च गृहीता-'स्वगृहे गच्छ ! व्रते गृहीते न त्रोटयन्ते क्षेत्राणि'-'युक्तं गणिना कृतं, परं सा मम मस्तके चोटिकाऽऽसीत् तां तु दापय, येन गच्छामी'ति भणिते गणेराश्चर्यमभूत्-'अहो ! अस्योत्तरं नास्ति' । एषा वार्ता धर्मदेवोपाध्यायस्याग्रे जज्ञे । गुरुभिश्चिन्तितम्-भविष्यति योग्य एषः ।
२८. सर्वत्र पत्तने परिभ्राम्य परिभ्राम्य लक्षणपञ्जिकादिशास्त्राणि भणितुमारेभे सोमचन्द्रः । एकदा पञ्जिकाभणनार्थ भावडायरियसमीपे गच्छन्तं दृष्ट्वा केनाप्युद्धतेन भैणितम्-'अहो सितपट ! कपलिकाग्रहणं किमर्थम् ?'- 'त्व
१ श्रीजिनवल्लभेनोक्तम् । २ लग्नः । ३-३ पादश्चलितः, पतितः, पतन् । ४ तथैवा० । ५ एवं श्राद्धानां । ६ नागपुरे गताः । ७ प्र० 'अनघिल्लपत्तनं प्राप्ताः'। ८ ममाग्रे उक्तमासीत् । जिनवल्लभोऽभयदेवपदे स्थाप्यः । ९ नास्ति प्र० । १० चिन्तितं कार्य । ११ तेऽप्यागताः' इत्येव । १२ शकितः । १३-१३ एतदकान्तर्गतपाठस्थाने प्र० 'जिनवल्लभोऽभयदेवपदे स्थापितः। युगप्रधानान् श्रीअभयदेवसूरिपादभक्तान् जिनवल्लभसूरीन् दृष्ट्वा सर्वे हृष्टाः । आचार्याः सर्वे स्वस्थान प्राप्ताः' । १४ नास्ति पदमिदं प्र०। १५ ततो। १६ सर्वदेवगणेः पालनाय दत्तः। १७ नास्ति वाक्यमेतत् प्र०। १८ गच्छेत्युक्ते शिष्येणोक्तम्' इत्येव प्र०। १९ गुरुगा । २० प्र० 'वीरायरिय.' । २१ उक्त।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org