________________
युगप्रधानाचार्यगुर्वावली ।
१३
२२. अन्यदा धारानगर्यां श्रीनरवर्मराज्ञो राजमान्यां पण्डितसभां श्रुत्वा दक्षिणदिग्विभागात् पण्डितद्वयं कौतुकेन पाण्डित्यस्य दर्शनार्थमाजगाम । आगत्य पण्डितसभामध्ये 'कण्ठे कुठारः कमठे ठकारः' इत्येकपदानुसारिणाऽन्यपदत्रयेण पूरयन्तु समस्यां भवन्तः । प्रत्येकं पूरिता, परं न तयोस्तां दृष्ट्वा मनो मुमुदे । केनापि राज्ञः पुरो भणितम् - 'देव ! न पण्डितपूरिताः समस्याः प्रतिभान्त्यनयोः ।' देवेनाभाणि - 'अस्ति कश्चिदुपायो येनानयोर्मनो रज्यते ?' नापि विवेकिना पुरुषेणोक्तम्- 'देव ! चित्रकूटे श्वेतपटो जिनवल्लभगणिः सर्वविद्यानिधानमाकर्ण्यते । राज्ञा तदैवोष्ट्रद्वयं शीघ्रगतिं सपुरुषं सलेख प्रेषितम्- 'इयं समस्या पूरिता मनोहारिणी सती स्वगुरोः पार्श्वात् समागच्छन्ती शीघ्रं भोः साधारण ! तथा कार्यम्' । प्रतिक्रमणवेलायां सन्ध्यासमये प्राप्तं स्वरूपं साधारणेन । गुरोर्दर्शितं स्वरूपम् । प्रतिक्रमणं कृत्वा पूरिता, लेखिता च
रे रे नृपाः ! श्रीनरवर्मभूपप्रसादनाय क्रियतां नताङ्गैः । कण्ठे कुठारः कमठे ठकारश्चक्रे यदश्वोऽग्रखुराग्रघातैः ॥
[१८]
आगन्तुक पुरुषद्वयं रात्रावपि मुत्कलितं शीघ्रं प्राप्तम् । तया समस्यया रञ्जित तयोर्मनः, भणितं ताभ्याम् -'अस्यां सभायां नास्तीदृशो विद्वान्, येनेयं पूरिता; किं तर्ह्यन्यः कश्चित् ।' वस्त्रादिदानेन पूजयित्वा मुत्कलितौ ।
२३. श्रीजिनवल्लभगणिरपि कतिचिद्दिनैर्विहृतो धारायाम् । केनाप्युक्तं राज्ञः पुरो- 'देव ! सोऽपि श्वेतपटो समस्यापूरक आगतोऽस्ति ।' राज्ञोक्तम्- 'शीघ्रमाकारय तम्' । तमाकारितः । राज्ञा तुष्टेनोक्तम्- 'भो जिनवल्लभगणे ! पारुत्थलक्षत्रयं ग्रामत्रयं वा गृहाण' । भणितं गणिभिः - 'भोः महाराज ! वयं व्रतिनोऽर्थादिसङ्ग्रहं न कुर्मः । चित्रकूटे देवगृहद्वयं श्रावकैः कारितमस्ति, तत्र पूजार्थं स्वमण्डपिकादानात् पारुत्थद्वयं प्रतिदिनं दापय' । ततो राजा तुष्टः- अहो निर्लोभता एतस्य महात्मनः श्रीजिनवल्लभगणेरिति चिन्तितवान् । चित्रकूटमण्ड पिकातस्तत् शाश्वतदानं भविष्यतीति कृतम् । श्रीजिनवल्लभगणेर्धार्मिकत्वेन सर्वत्र प्रसिद्धिर्जज्ञे ।
२४. श्रीनागपुरे श्रावकैर्नेमिनाथदेवगृहं नेमिनाथबिम्बं च कारितमस्ति नूतनम् । तेषामेषोऽभिप्रायो जज्ञे - 'वयं श्रीजिनवल्लभगणिं गुरुत्वेनाङ्गीकृत्य तस्य हस्तेनोभयोः प्रतिष्ठां कारयिष्यामः - इति चिन्तयित्वा सर्वसम्मतेन प्रतिपत्त्या श्रावकैराकारितः श्रीजिनवल्लभगणिः । ततः शुभलग्नेन देवगृहं नेमिनाथविम्बं च प्रतिष्ठितम् । तत्प्रभावालक्षपतयः श्रावको जज्ञिरे । नेमिनाथविम्बे रत्नमयान्याभरणानि कारितवन्तः । [ एवमनेके श्राद्धाः प्रतिबोधितास्तत्र, प्र० ] तथा नरवरश्रावकाणां तथाऽभिप्रायो जज्ञे - 'वयमपि जिनवल्लभगणिं कक्षीकृत्य गुरुत्वेन प्रतिष्ठां देवगृहे च बिम्बे च कारयामः' - इति पर्यालोच्य कृतं तथैव । उभयोरपि देवगृहयो रात्रौ बलिधरण-स्त्रीप्रवेश - लकुटादिदानं निषेधादिको विधिलिखितो मुक्तिसाधकः । ततो मरुकोट्टश्रावकैः श्रीजिनवल्लभगणयो विहारक्रमेण समाहूतास्ततो विक्रमपुरमध्येन मरुकोट्टे विहृताः । तत्र श्राद्धैः श्रद्धावद्भिर्वसतिर्गुप्तिस्थानयुक्ता दत्ता । स्थितास्तत्र । श्रावकैरभाणि - 'भगवन् ! युष्मद्वदनारविन्दाजिनवचनरसमाखादितुमिच्छामः' । 'युक्तमेतच्छ्रावकाणाम्, तद्युपदेशमाला कथयितुमारभ्यते' । तैरभाणि - 'पूर्वमेव श्रुता । तथाऽपि पुनरपि भणितव्या' - अभयदिने भणितुमारब्धा । 'संवच्छर मुस भजिणो' - इत्यादिगाथाया एकस्या भणने षण्मासावधिः कालो लग्नस्तथाऽपि श्रावकाणां नानासिद्धान्तोदाहरणामृतेन तृप्तिर्न जाता । वदन्ति- 'भगवन् ! तीर्थकरा एवैतत्सुखमुत्पादयितुं समर्थाः, वचनामृतेन भगवन्तोऽप्येवंविधातुं समर्थाः - इत्याश्चर्यतुष्टाः श्रावकाः देशनया ।
२५. अन्यदा कदाचिद् व्याख्यानं कृत्वा श्राद्धैः सह वसतौ समाजगाम । तस्मिन्नेव प्रस्ताव एकः पुरुषोऽश्वारूढः * एतत् प्रकरणं नास्ति प्र० । १ गृहं बिम्बं । २ जाताः श्राद्धाः । ३ नेमिबिम्बे । ४ - ४ एतदङ्काङ्किता पंक्तिर्नास्ति प्र० । ५--५ एतत् समस्तप्रकरणस्थाने प्र० ' ततो मरुकोट्टे विहृतास्तत्र श्राद्धैः सह वसतौ जगाम' - इत्येव पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org