________________
१२
खरतरगच्छालंकार
आसीजनः कृतघ्नः क्रियमाणघ्नस्तु साम्प्रतं जातः । इति मे मनसि वितर्को भविता लोकः कथं भविता ॥
[१५]
अहो ! सृतं वाचनया भवतोरेवंविधाशुभभावेन । पश्चाद्विमुखौ गतौ स्वस्थानं पुनर्न दृष्टौ तदैव गतौ । १९. कदाचिञ्जिनवल्लभगणेर्बहिभूमौ गच्छतो विचक्षणः कश्चित् प्रसिद्धिं ज्ञात्वा पाण्डित्यस्य मिलितः । समस्यापदं प्रक्षिप्तं कस्यापि राज्ञो वर्णनामाश्रित्य
'कुरङ्गः किं भृङ्गो मरकतमणिः किं किमशनिः ' पश्चान्मनाक परिभाव्य पूरिता समस्या, तदैव कथिता तस्य पुर:चिरं चित्तोद्याने वससि च मुखाब्जं पिबसि च, क्षणादेणाक्षीणां विषयविषमोहं हरसि च । नृप ! त्वं मानाद्रि दलयसि च क्षितौ कौतुककरः, कुरङ्गः किं भृङ्गो मरकतमणिः किं किमशनिः ? ॥
[१६]
इति श्रुत्वा तुष्टः । कथितवान् -सत्या लोके प्रसिद्धि:, अस्मिन्विषये, गुणस्तुतिं कृत्वा पादयोः पतित्वा गतः । पश्चात् सुगुरुर्वसतौ समागतः । ततः श्रावकैः पृष्टः सुगुरु: - 'बह्वी वेला लग्ना सुगुरोः, किं कारणम् ?' पश्चात् सहगतेन शिष्येण सर्वा वार्ता कथिता । प्रमोदो जज्ञेऽतीव श्रावकाणाम् ।
२०. तथा गणदेव श्रावकैः स्वर्णार्थी जिनवल्लभगणिपार्श्वे सुवर्णसिद्धिरस्तीति श्रुत्वा तस्य समीपे चित्रकूटे गत्वा पर्युपासनां कर्तुमारब्धा । लक्षितो भावो गणिना । ततो योग्यं ज्ञात्वा तथा तथा तस्य देशना कृता यथा संविग्रभावो जातः । पश्चाद् भणति गणिः - 'भद्र ! सुवर्णसिद्धिं कथयामि ?' | 'भगवन् ! सृतम् विंशतिद्रम्मनीव्या व्यवहारं कुर्वन् श्राद्धधर्म करिष्यामि' । भव्यानां धर्मकथने लब्धिरस्ति तस्य । ततः शिक्षयित्वा धर्म प्रेषितो वागडदेशे । ततो लिखितकुलकलेखैः सर्वोऽपि लोको जिनवल्लभगणिधर्मेऽभिमुखीकृतस्तेन ।
२१. श्रीजिनवल्लभगणेर्व्याख्याने सर्वे विचक्षणजना उपविशन्ति; विशेषतो ब्राह्मणाः स्वस्वविद्यानिःसन्देहार्थम् । कदाचिदियं गाथा व्याख्याने समागता - 'धिजाईण गिहीणं' इत्यादि- धिग्जातीया ब्राह्मणाः - इति व्याख्यानं श्रुत्वा रुष्टा विद्या बहिर्निर्गताः, कुपिता एकत्र मिलिताः, विपक्षाच निकटीभूताः । एतैः सह विवादं विधाय निष्प्रभीकरिष्यामः' । किं तेषां स्वरूपं ज्ञात्वा श्रीजिनवल्लभगणेर्हृदि तेभ्यो भयं समजनि ?, न मनागपि । तस्य तीर्थकरसदृक्ष - त्वात् । ततश्च
मर्यादाभङ्गभीतेरमृतमयतया धैर्यगाम्भीर्ययोगान्
न क्षुभ्यन्त्येव तावन्नियमितसलिलाः सर्वदैते समुद्राः । आहो क्षोभं व्रजेयुः क्वचिदपि समये देवयोगात्तदानीं
न क्षोणी नाद्रिचक्रं न च रवि-शशिनौ सर्वमेकार्णवं स्यात् ॥
[१७]
इदं वृत्तं भूर्जखण्डे लिखित्वा विवेकिजनहस्ते दत्त्वा प्रेषितम्, भणितश्च संमिलितानां मध्ये बृहद्ब्राह्मणहस्ते दातव्यम् । तेन तथैव कृतम् । तेनाचिन्ति विवेकबुद्ध्या - वयमेकैकविद्याधारिणस्ते च सर्वविद्यानिधानम्, कथं तैः सह विवादं कर्तुं शक्यते । तेन सर्वे विप्राः सम्बोध्योपशमं नीताः ।
Jain Education International
१ 'वाचनया सृतं ' इत्येव प्र० । एतत् समग्रं प्रकरणं नोपलम्यते प्र० । २ श्राद्धः । ३ हेमसिद्धिं श्रुत्वा । ४ नास्ति प्र० । ५ गुरुसेवा प्रारब्धा । ६ गणिभिरुक्तम् । ७ हेमसिद्धिं । ८ कथनेन । ९ जनो ।
For Private & Personal Use Only
www.jainelibrary.org