________________
युगप्रधानाचार्यगुर्वावली। गीतार्थः श्रावकैर्मत्रितम्-'विपक्षरविधिप्रवृत्तैर्विधिजिनोक्तो विधातुं न लप्स्यते, ततो यदि गुरोः सम्मतं भवति तदा तले उपरि च देवगृहद्वयं कार्यते । स्वसमाधानं गुरोनिवेदितम् । ततो गुरुणा कथितम्
जिनभवनं जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥
[१४] इति देशनया ज्ञातं गुरोर[प्य]भिप्रेतमेव । लोके च प्रवृत्ता वार्ता-एते देवगृहे कारयिष्यन्ति' । प्रह्लादनबृहत्तरेण बहुदाकेनाऽपि कथितम्-एते कापालिका देवगृहे कारयिष्यन्ति, राजमान्या भविष्यन्ति । इदं च श्रुतं गुरुणा। ततो बहिभूमौ गच्छतः श्रीजिनवल्लभगणेः सोऽपि मिलितस्तथा भणितः-'भद्र ! गर्वो न विधेयः । एतेषां मध्यात् कश्चिद्राजमान्योऽपि भविष्यति, यस्त्वां बद्धमुच्छोटयिष्यति । ततः श्रावकैः सोत्साहैमिलित्वा देवगृहे कारयितुमारब्धे । देवगुरुप्रसादेन प्रमाणीभूते । उपरि श्रीपार्श्वनाथविम्बं तले च महावीरबिम्बं कारितम् । विस्तरेण प्रतिष्ठा जाता। विधिना श्रीजिनवल्लभगणिभिः कृता । सर्वत्र प्रसिद्धिर्जातैत एव गुरवः ।
१७. अन्यदा ब्राह्मणः कश्चिज्ज्योतिष्किकः पण्डितमानी श्रीजिनवल्लभगणिसमीपे समागतो लोकमध्ये श्लाघां क (श्रु ?) त्वैवंविधा धर्मशास्त्रविदः, श्वेतपटाः समाजग्मुः । श्रावकैः पट्ट आसनं दत्तम् । गुरुणा पृष्टः-'कुत्र भवतो वासः' 'अत्रैव' । पश्चाद्गुरुभि पितः–'कस्मिन् शास्त्रे विशेषेणाभ्यासोऽस्ति ?' । 'ज्योतिष्के' । 'चन्द्रादित्यलग्ने सम्यग्वेत्सि ?' 'सम्यगेव, किमत्रैवागणित एकं द्वे त्रीणि च लग्नानि भणामि ।' जिनवल्लभगणिना ज्ञातम्-'गर्वेणाऽऽगतः।' गुरुणोक्तम्-'भद्रं परिज्ञानम् ।' स ब्राह्मणः पृच्छति-'युष्माकमपि परिज्ञानं विद्यते, लग्नविषये भविष्यति किञ्चित्तहिं कथयन्तु भगवन्तः । 'कति कथयामि दश विंशतिर्वा लग्नानि ?' । तस्यातीवाश्चर्यमभूत् । पश्चाच्छ्रीजिनवल्लभगणिना भणितम्-'भो विप्र ! गगने हस्तद्वयमाना डम्बरिका दृश्यते सा कियन्मात्रं पानीयं करिष्यति ? । [विप्रोजानानः शून्यदृष्टिदिशोऽवलोकयति । ततो भणितं गुरुणा-'भो विप्र! भाजनद्वयं यावत्'] पश्चादत्रैवोपविष्टस्य क्षणमात्रेणैव तया डम्बरिकया सकलं गगनमाच्छाद्य वृष्टिः कर्तुमारब्धा, तावदृष्टिजज्ञे यावद्भाजनद्वयमपि परिपूर्णीभूतम् । ततो विप्रो मस्तके हस्तौ योजयित्वा सुगुरोः पादयोः पतित्वा भणितवान्-'यावत्तिष्ठाम्यत्र तावद्भगवती पादान् वन्दित्वा निश्चयेन भोजनं विधास्यामि । न मयाऽज्ञायि भगवन्त एवंविधाः' । पश्चात् सर्वत्रैव प्रसिद्धिर्जाता ज्ञानिन एव श्वेतपटा भवन्तीति ।
१८. अन्यदा कदाचिन्मुनिचन्द्राचार्येण शिष्यद्वयं सिद्धान्तवाचनानिमित्तं श्रीजिनवल्लभगणिपार्श्वे प्रेषितम् । गणिरपि तयोर्वाचनां दातुं प्रवृत्तः। तावप्यशुभौ चिन्तयतो जिनवल्लभगणेः श्राद्धान् विप्रतारयाव इति बुद्ध्या रञ्जयन्तः श्रावकार्न । कदाचित् स्वगुरुपार्श्वे प्रेपितुं लेखोऽलेखि । तं च वाचनाकपलिकायां प्रक्षिप्य वाचनां ग्रहीतुं गतौ तौ वसतौ । गणिसमीपे वन्दनं दत्त्वोपविष्टौ तत्र । उच्छोटिता कँपलिका । ततो नंतनो लेखो दृष्ट्वा गृहीतः, उच्छोटितश्च । तावपि हस्ताद् गृहीतुं न शक्नुतः । अवधारितो लेखः । तत्रालेखि-'जिनवल्लभगणेः केचिच्छ्राद्धाः स्ववशं नीताः सन्ति, क्रमेण सर्वे (सर्वान् ?) वशीकरिष्याव इति मनोवृत्तिरस्ति' । ततः श्रीजिनवल्लभगणिना द्विधा विधायाऽऽर्याऽभाणि
१-१ एतदद्वयमध्यगतः पाठो नास्ति प्र० । २ चैत्ये । ३ चैत्ये । ४ जिनवल्लभेन कृता इत्येव प्र० । ५-५ गुरुपार्श्व आगतः । आसनं दत्तं श्राद्धैः-इत्येव प्र० । ६-६ 'गुरुणा भाषितः' इत्येव प्र०। ७-७ युष्माकं परिज्ञानमस्ति । किंचित् । कथयन्तु भवन्तः--इति प्र० । ८ ततो गुरुणोक्तम् । ९ जलं । १० प्र०--वृष्टिः कृता भाजनः । ११ नियोज्य । १२ भवतां । १३ नास्ति । १४ करिष्ये । १५ 'ज्ञानिनः श्वेतपटा इति लोके प्रसिद्धिर्जातेति ।' इत्येव । १६ श्राद्धान् । १७ अन्यदा । १८ ‘कपिलिका' मूलादर्शे । १९ 'नूतनं लेख' प्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org