________________
खरतरगच्छालंकार
१५. ततो वाचनाचार्यो जिनवल्लभगणिः कतिचिदिनानि पत्तनभूमौ विहृत्य न तादृशो विशेषेण बोधो विधातुं कस्यापि शक्यते येन सुखमुत्पद्यते मनसि । ततश्चाऽऽत्मतृतीय आगमविधिना सुशकुनेन भव्यजनमनसि भगवद्भणितविधिधर्मोत्पादनाय चित्रकूटदेशादिषु विहृतः । ते च देशाः सर्वेऽपि प्रायेण देवगृहनिवासिमुनीन्द्राप्ताः । सर्वोऽपि तद्वासितो लोकः, किंबहुना । नानाग्रामेषु विहारं विदधश्चित्रकूटे प्राप्तः । यद्यपि तत्राऽशुभैर्भाविता लोकास्तथाऽप्ययुक्तं कर्तुं न शक्नुवन्ति, पत्तने गुरूणां प्रसिद्धिश्रवणात् । स्थानं याचितास्तत्रत्यश्राद्धाः। तैश्च भणितम्-'चण्डिकामठोऽस्ति यदि तत्र तिष्ठथ' । ततो जिनवल्लभगणिना ज्ञातमशुभबुद्ध्या भणन्त्येते, तथापि तत्रापि स्थितस्य देवगुरुप्रसादाद् भद्रं भविष्यतीति चिन्तयित्वा भणितास्ते-'तत्रैव बहु मन्यध्वं यूयं येन तिष्ठामः' । तैरभाणि तिष्ठत । ततो देवगुरून् स्मृत्वा देवतां चानुज्ञाप्य स्थितास्तत्र । देवता च तेषां ज्ञानेन ध्यानेन सदनुष्ठानेन तुष्टा सती तान् प्रत्ययुक्तं रक्षति । ते चं जिनवल्लभगणयः सर्वविद्यानिधानभूताः। कथम् , तथाहि-वेदितारो जिनेन्द्रमतस्थापकतर्काभयदेवानेकान्तजयपताकादि परदर्शनकन्दली -किरणावली-न्यायतर्कादि पाणिन्याद्यष्टव्याकरणं सूत्रतोऽर्थतश्च, चतुरशीतिनाटक-सर्वज्योतिप्कशास्त्र-पञ्चमहाकाव्यादिसर्वकाव्य-जयदेवप्रभृतिसर्वच्छन्दोज्ञातारः' इति प्रसिद्धिश्चित्रकूटे जाता। सर्वे परदर्शनीयविप्रादिलोका आगन्तुं प्रवृत्ताः । यस्य यस्य यस्मिन् यस्मिन् शास्त्रविषये संशय उत्पद्यते स सर्वोऽपि जनः पृच्छति, यथा सन्देहस्त्रुट्यति तथोत्तरं ददाति । श्रीवका अपि केचन केचन समाजग्मुः । सिद्धान्तवचनानि श्रुत्वा तदनुसारेण क्रियामपि दृष्ट्वा साधारण-सड्डकप्रभृतिश्रावकैः समाधिना श्रीवाचनाचायजिनवल्लभगणयो' गुरुत्वेन प्रतिपन्नाः । गुरूपदेशेन परिज्ञानं, ज्योतिष्कपरिज्ञानमप्यतीवाऽऽसीत् । साधारणेन परिग्रहपरिमाणयार्चनं कृतम् । गुरुगा भणितम्'गृहाणं कियन्मानं ग्रहीष्यसि ?' । 'भगवन् ! विंशतिसहस्रमानं सर्वसंग्रहे करिष्यामि' । पश्चाद् गुरुभिरुक्तम्-'बहुतरं कुरु, किं बहुना, लक्षं द्रम्माणां परिमाणं कारितः। पश्चाद् यथा यथा सर्वसम्पदा प्रवर्धमानः साधारणो जज्ञे तथा तथा संघस्य सर्वसामर्थेन गुर्वाज्ञया साधारणो भवितुं प्रवृत्तः । अन्ये तु श्राद्धास्तथा प्रवर्तितुमारब्धाः।
१६. तथाऽश्वयुजि मासे कृष्णपक्षे त्रयोदश्यां श्रीमहावीरगर्भापहारकल्याणकदिने भणितं श्रीजिनवल्लभगणिना श्राद्धानां पुरः-'यदि देवा वन्द्यन्ते देवगृहे महावीरस्य तदा सुभद्रं भविष्यति । षष्ठमपि कल्याणकं गर्भापहारलक्षणम् , *यतः "पंच हत्थुत्तरे होत्था साइणा परिनिव्वुडे" इति सिद्धान्ते भणनात्' । तस्मिन् प्रस्तावे विधिचैत्यं नास्ति । चैत्यनिवासिगुरुदेवगृहेषु गम्यते । पश्चाच्छ्रावकैर्भणितम्-'भयवन् ! यदि युष्माकं सम्मतं तत् क्रियते' । ततः सर्वे श्रावका निर्मलशरीरा निर्मलवस्त्रा गृहीतनिर्मलपूजोपकरणा गुरुणा सह देवगृहे गन्तुं प्रवृत्ताः। ततो देवगृहस्थितयाऽऽयिकया गुरून् श्राद्धसमुदायेनाऽऽगच्छतो दृष्ट्वा पृष्टम्-'को विशेषोऽद्य ?' केनापि कथितम्-वीरगर्भापहारपेष्ठकल्याणकपूजाकरणार्थ समागच्छन्ति । तयाऽचिन्ति -पूर्व केनापि न कृतमेते करिष्यन्तीति न युक्तम् । पश्चात् संयती देवगृहद्वारे पतित्वा स्थिता, द्वारे समागतान् दृष्ट्वा तयाऽशुभयाऽभाणि-'मया मृतया यदि प्रविर्शत' । ततोप्रीतिकं ज्ञात्वा निवर्त्य स्वस्थाने गत्वा श्राद्धरुक्तम्-'बृहत्तरसदनानि सन्त्येकस्य गृहस्योपरि चतुर्विंशतिजिनपट्टकं धृत्वा देववन्दनादिसर्व धर्मप्रयोजनं क्रियते' । गुरुणा भणितं युक्तमेव । तत आराधितं विस्तरेण कल्याणकम् । समाधानं समजनि । ततो
१ कोऽपि बोधः । २ नास्ति । ३ येन चित्ते। ४ तत आत्मना तृतीयः। ५ नास्ति। ६ चैत्यनिवासि० । ७ कुर्व । ८ गतः । । एतदन्तर्गता पंक्तिर्नास्ति प्र० । ९ लोकाः। १० जिनवल्लभेनाऽचिन्ति--एतेऽशुभबुद्ध्या भणन्ति । ११ वा० जिन । +-+ एतद्दण्डान्तर्गतः पाठो नास्ति प्र० । १२ श्राद्धाः । १३ समाययुः । १-१ नास्ति प्र० । १४ याचितं । १५ गुरुणोक्तं । १६ 'लक्षं परिमाणं' इत्येव प्र०। १७ ततो। १८ उक्तं। १९ भद्रं भवति। २० श्रीवीरस्य षष्ठं कल्याणकं। * नास्ति प्र० । २१ श्राद्धैः सहा । २२ केनोक्तं । २३ वीरषष्ठं । २४ चिन्तितं। २५ चैत्यद्वारे पतिता मया मृतया मध्ये गमिष्यन्ति-इत्येव । २६ गुरुणोक्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org