________________
युगप्रधानाचार्यगुर्वावली ।
९
समर्पितम् । गुरुभ्यः सकाशात् स्वगुरुसमीपगमने मुत्कलनवचनं प्रतीच्छति । ततो गुरुणाऽभाणि - 'पुत्र ! सर्व सिद्धान्तं यथाज्ञानं निवेदितम् । तदनुसारेण यथा वर्तसे तथा विधेयम्' । जिनवल्लभगणिना भणितम् -'तथैव यथाशक्ति प्रवर्तयिप्यामि' । ततः प्रधानदिने' चलितो यथागतमार्गेण । पुन र्म रु को ट्टे प्राप्तः । आगच्छता सिद्धान्तानुसारेण देवगृहे विधिलिखितः, येनाविधिचैत्यमपि विधिचैत्यं मुक्ति हेतुर्भवति । स चायम्
अत्रोत्सूत्रजनक्रमो न च न च स्नानं रजन्यां सदा,
साधूनां ममताश्रयो न च न च स्त्रीणां प्रवेशो निशि । जाति- ज्ञातिकदाग्रहो न च न च श्राद्धेषु ताम्बूलमित्याज्ञात्रेयमनिश्चिते विधिकृते श्रीजैन चैत्यालये ॥
[१३] इत्यादिविधिर्विधेयो येन धर्मो मुक्तिमार्गो भवति । ततोऽनन्तरं स्वगुरुसमीपे गन्तुं प्रवृत्तः । प्राप्तौ माइयडग्रामे आसीदुर्गादर्वाक्क्रोशत्रये । तत्रैव स्थितः । गुरुमीलनाय पुरुषः प्रेषितः । तस्य हस्ते लेखो लेखि - 'युष्माकं प्रसादेन सुगुरुसमीपे वाचनां गृहीत्वा माइयडग्रामे समाजगाम । प्रसादं कृत्वाऽत्रैव श्री पूज्यै मिलितव्यम् ।' ततो गुरुभिरज्ञायि'किमिति जिनवल्लभेत्थं निर्दिष्टम्, नात्राऽऽगतः ?' । ततो द्वितीयदिने सँकललोकेन समेतः समायात आचार्यः । अभिमुखगतो जिनवल्लभः । वन्दितो गुरुः । क्षेमवार्ता' पृष्टा गुरुभिः । सर्वा यथोक्ता कथिता । तथा ब्राह्मणसमाधाननिमित्तम्, मेघादिस्वरूपाणि ज्योतिष्कबलेन भणितानि कानिचित्तथा जातानि यथा गुरोरप्याश्चर्यकारीणि । पश्चाद्गुरुणा पृष्टो जिनवल्लभ गणि: - 'किमिति मध्ये त्वं नाऽऽगतः ?' । भणितम् - 'भगवन् ! सुगुरुमुखाजिनवचनामृतं पीत्वा कथं देवगृहनिवासं विषसदृक्षं सेवितुमिच्छामि ?' । ततो गुरुभिर्भणितम् -'भो जिनवल्लभ ! मयेदं चिन्तितमासीत्, तुभ्यं स्वपदं दवा व स्व-गच्छ-देवगृह - श्रावकादिचिन्तां निवेश्य, पश्चात् स्वयं गुरुपार्श्वे वसतिमार्गमङ्गीकरिष्यामः' । जिनवल्लेभो भगति - 'तर्हि किमिति नाङ्गीक्रियते ?, विवेकस्येदं फलमयुक्तं परिहियते युक्तमङ्गीक्रियते । ततोऽभाणि गुरुभिः'एवंविधा निस्पृहता नाऽस्त्यस्माकम् येन चिन्ताकरणसमर्थ पुरुषं विना स्वगच्छे देवगृहादिचिन्तां मुक्त्वा सुगुरुपार्श्वे 'सतिस्थितिमङ्गीकुर्महे; भवता तु विधातव्यं वसतिवसनम्' । ततो गुरुं वन्दित्वा तत्सम्मतेन पुनः पत्तने' विजहार । श्रीमदभयदेवसूरिपादान् भावेन वन्दितवान् । सुगुरोरतीव समाधानं समजनि । चिन्तितं यथा परीक्षितस्तथा जज्ञे । ततो मनसि विदन्ति न कस्यापि निवेदयन्ति - स्वपदयोग्य एष एव परं देवगृहनिवासिशिष्य इति हेतोरिदानीं गच्छस्य सम्मतं न भविष्यतीति - गच्छाधारको वर्द्धमानाचार्यो गुरुपदे निवेशितः । जिनवल्लभगणेः स्वकीयोपसम्पदं दत्तवन्तः–‘अस्माकमाज्ञया सर्वत्रैव "विहर्तव्यः' । एकान्ते प्रसन्नचन्द्राचार्यो भणित: - ' मदीयपदे भव्यलने जिनवल्लभगणी स्थापनीयः । तस्यापि सुगुरुपदनिवेशनप्रस्तावो न जज्ञे । तेनापि स्वायुःपरिसमाप्तिसमये कर्पटकवाणिज्ये देवभद्राचार्याणां विज्ञतम्- 'सुगुरूपदेशः पूर्वोक्तो युष्माभिः सफलीकर्तव्योऽवश्यमेव, मया न कर्तुं शक्तः । तैरपि प्रतिपन्नम् - 'वर्तमानयोगेन करिष्यामः । समाधानं विधेयं किं बहुना ?' पूर्वोक्तकथनेन । नवाङ्गवृच्या भव्यजीवान् सुखिनः कृत्वा कालक्रमेण सिद्धान्तविधिना समाधानेन चतुर्थदेवलोकं प्राप्ताः श्रीमदभयदेवसूरयः ॥
,
१ नास्ति पदमेतत् प्र० । २ निजगुरु । ३ ' वाचनां लात्वाऽनागतः' इत्येव प्र० । ४ मिलनीयं । ५ शिष्येणेत्थमादिष्टम् । ६ लोकसमेतोऽभिमुखमाचार्यः । वन्दितो गुरुर्जिनवल्लभेन । ७ तेनोक्तं । ८ चैत्यनिवासं विषवृक्षं । ९ गुरुणोक्तं । १० नास्ति प्र० 'त्वयि स्वगच्छ ' । ११ ततः । १२ जिनवल्लभे नोक्तं । १३ सेव्यते । १४ ततो गुरुणाऽभाणि । १५ नरं । १६ चैत्यादि । १७ वसतिमङ्गीकुर्मः । १८ पत्तनं गतः । १९ नास्ति 'भावेन' । २० जातं । २१ ज्ञातं । २२ चैत्यवासिशिप्य । २३ स्थापितः । २४ सर्वत्र विहर्तव्यं । २५ उक्तः । २६ देशो युष्माभिः सफलीकार्यः मया कर्तुं न शक्तिः । पन्नं करिष्यामः समाधानं कार्यं' इत्येव प्र० । २७ नास्ति पदद्वयं प्र० ।
एतदङ्कितपाठस्थाने - 'तेन प्रति
दु० गु० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org