________________
खरतरगच्छालंकार भविष्यति; तदर्धेन सिद्धान्तलेखनं कारयिष्यामः' । गुरुणाऽभाणि-'भवतां मुक्तिकारणम् , युक्तः परिणामः, कर्तव्य एव । ततः पुनरपि प त ने समायाताः श्रीमदभयदेवसूरयः । सर्वदिक्षु प्रसिद्धि प्रापुरेत एव सिद्धान्तपारगाः ।
१३. तत आ शी दुर्गे श्रीमत्कूर्चपुरीयदेवगृहनिवासिजिनेश्वरसरिरासीत् । तत्र ये श्रावकपुत्रास्ते सर्वेऽपि तस्य मठे पठन्ति । तत्रापि जिनवल्लभनामा श्रावकपुत्रोऽस्ति । तस्य पिता मृतो । मात्रा पालितः। पाठयोग्यः सन् मठे पठितुं क्षिप्तः । सर्वेभ्यश्चट्टेभ्यः सकाशात्तस्याधिकः पाठ आजगाम । अन्यदा, कदाचित् तेन जिनवल्लभचट्टेन बहिर्गच्छता टिप्पनकमेकं प्राप्तम् । तत्र विद्याद्वयं लिखितमस्ति, सर्पाकर्षणी मोक्षणी च । प्रथमं प्रथमा वाचिता । तस्याः प्रभावेन सर्वाभ्यो दिग्भ्यः सर्पानागच्छन्तो दृष्ट्वा निर्भीकेनाऽचिन्ति-विद्याप्रभावोऽयम् । पुनस्तले द्वितीया वाचिता, तत्प्रभावेण पश्चान्मुखाश्चलिताः । एतत्स्वरूपं गुरुणा श्रुतम् । तेन विदित-बहुगुण एषः स्वीकर्तुं युक्तः। ततस्तं वशीकृत्य तन्मातरं प्रियवचनैः सम्बोध्य द्रम्मशतपञ्चकं तस्यै दापयित्वा जिनवल्लभो विनेयः कृतः । लक्षणादिसर्वा विद्याः पाठिताः। कदाचित्तस्याऽऽचार्यस्य ग्रामादौ प्रयोजनमुपस्थितम् । तेन गच्छता पण्डितजिनवल्लभायाऽऽढतिदत्ता-'सर्वा चिन्ता कार्या यावत् प्रयोजनं विधायाऽऽगच्छामि' । 'भवद्भिः शीघ्रं स्वप्रयोजनं निष्पाद्याऽऽगन्तव्यम् । ततो द्वितीये दिने चिन्तितं जिनवल्लभेन-'भाण्डागारमध्ये मञ्जुषा पुस्तकभृता दृश्यते, एतेषु पुस्तकेषु किमस्ति ?' । तद्वशे सर्व ज्ञानमस्तीत्येकं पुस्तकमुच्छोटितं सिद्धान्तस्य । तत्रोक्तं पश्यति-'यतिना द्विचत्वारिंशद्दोषविवर्जितः पिण्डो गृहस्थगृहेभ्यो मधुकरवृत्त्या गृहीत्वा संयमहेतुर्देहधारणा कर्तव्या-इत्यादिविचारान् दृष्ट्वा मनसा विस्मितः-'अहो व्रताचारौ न्यायेन मुक्तौ गम्यते । नाऽस्माकमाचारो मुक्तिगमनयोग्यः' इत्यादि परिभाव्य गम्भीरवृत्त्या यथास्थितिं कृत्वा भणितरीत्या स्थितः । आचार्योऽपि समागतः । तेन चिन्तितम्-'किमपि स्थानं न हीनं समजनि, सर्व जिनवल्लभेन भव्यरीत्या धारितम् । तस्माद् यथा योग्यश्चिन्तितस्तथा भविष्यति । परं सर्वा विद्या अनेन सिद्धान्तं विनाऽभ्यस्ताः । सा च सिद्धान्तविद्या सम्प्रति श्रीमदभयदेवमूरिसमीपे श्रूयते । तस्य पार्श्वे जिनवल्लभं प्रेषयित्वा सिद्धान्तवाचनां ग्राहयित्वा स्वपदे निवेशयामः' इति परिभाव्य वाचनाचार्य कृत्वा पञ्चशतसुवर्ण निर्व्याकुलभोजनादियुक्तिं च जिनशेखराभिधानद्वितीयशिष्यवैयावृत्त्यकृत्सहितं च जिनवल्लभं श्रीअभयदेवमूरिसमीपे मुत्कलितो मरु को ट्ट मध्ये । अन हिल्लं पत्त ने गच्छता म रु कोट्टे रात्रौ माणूश्रावकदेवगृहे प्रतिष्ठा कृता । ततः प त ने प्राप्तः। श्रीमदभयदेवरिवसतिं पृष्ट्वा गतस्तत्र । दृष्टो गुरुभक्त्या वन्दितः । गुरुणा च दर्शनमात्रेण चूडामणिज्ञानाच्च ज्ञातः-योग्यो जीवो दृश्यते । पृष्टश्च 'किमागमनप्रयोजनम् ?' । 'गुरुणा श्रीपूज्यपादपॅझे सिद्धान्तवाचनारसास्वादलम्पटो मधुकरसदृशः प्रेषितोऽहं युष्माकं पार्श्वे' । पश्चादचिन्ति सुगुरुणा-देवगृहनिवासिगुरुशिष्य एषः, परं योग्यः । सिद्धान्तवचनं च चिन्तितम्
मरिजा सह विजाए कालंमि आगए विऊ। अपत्तं च न वाइजा, पत्तं च न विमाणए ॥[१२] इति परिभाव्योक्तम्-'युक्तं विहितं भवता यत्सिद्धान्तवाचनाभिप्रायेणात्र समागतः । ततः प्रधानदिने वाचनां दातुमारब्धा । यथा यथा सुगुरुर्जिनवचनवाचनां ददाति तथा तथा सन्तुष्टः सन् शिष्यः सुधारसमिव तामास्वादयति । तं तादृशं शिष्यमवलोक्य गुरुरप्यानन्दभाक् संपनिपद्यते । पश्चात् सुगुरुरहनिशं तथा तथा ज्ञापनाबुद्ध्या वाचनां दातुं प्रवृत्तो यथा स्तोकेनैव कालेन सिद्धान्तवाचना परिपूर्णा भूती
१४. तथा गुरोज्योतिष्किक एकः प्रतिपन्न आसीत्-'यदि भगवतां कश्चिच्छिष्यो योग्यो भवति तदा मह्यं समर्पणीयो येन तस्मै ज्योतिष्कं समर्पयामि यथापरिज्ञातम्' । ततो जिनवल्लभगणिः समर्पितः । तेनाऽपि तस्मै यथापरिज्ञानं
१ नास्ति पदमेतत् प्र० । २ नास्ति 'कदाचित्' । ३ 'तेनाचिन्ति जिनवल्लभेन' इत्येव प्र० । ४ 'पार्थे' । ५ 'अनघिल्ल०' आदर्श । ६ 'माणदेवश्रावकगृहे' । ७ नास्ति पदमेतत् प्र० । ८ 'दृष्ट्वा' । ९ 'जातः' । १० 'ततः' । ११ 'पूर्णी जाताः'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org