________________
युगप्रधानाचार्यगुर्वावली । १०. तत्स्थानात् पत्त ने समायाताः । क र डि ह ट्टी वसतौ स्थिताः । तत्र स्थितैनवाङ्गानां स्थानप्रभृतीनां वृत्तयः कृताः । यत्र सन्देह उत्पद्यते तत्र स्मरणप्रस्तावे, जया-विजया-जयन्ती-अपराजिता देवताः स्मृताः सत्यस्तीर्थकरपार्श्व महाविदेहे गत्वा तान् पृष्ट्वा निस्सन्देहं तत्स्थानं कुर्वन्ति ।
११. तस्मिन् प्रस्तावे देवगृहनिवास्याचार्यमुख्यो द्रोणाचार्योऽस्ति । तेनाऽपि सिद्धान्तो व्याख्यातुं समारब्धः । सर्वेऽप्याचार्याः कपलिकां गृहीत्वा श्रोतुं समागच्छन्ति । तथाऽभयदेवसरिरपि गच्छति । स चाचार्य आत्मसमीपे निषद्यां दापयति । यत्र यत्र व्याख्यानं कुर्वतस्तस्य सन्देह उत्पद्यते, तदा नीचैः स्वरेण तथा कथयति यथाऽन्ये न शृण्वन्ति । अन्यस्मिन् दिने यद् व्याख्यायते सिद्धान्तस्थानं तवृत्तिरानीता। एतां चिन्तयित्वा व्याख्यानयन्तु भवन्तः । यस्ता पश्यति सार्थकां, तस्याऽऽश्चर्यं भवति; विशेषेण व्याख्यातुराचार्यस्य । से चिन्तयति-किं साक्षाद्गणधरैः कृताऽथवाऽनेनाऽपि, तस्मिन् विषये ऽतीवादरो मनसि विहितः । द्वितीयदिने सम्मुखमुत्थातुं प्रवृत्तः । ततस्तादृशं सुविहिताचार्यविषयमादरं दृष्ट्वा, रुष्टा व्युत्थिताः सन्तो वसतौ गता भणन्ति देवर्गृहनिवास्याचार्याः-'केन गुणेनैषोऽधिकः, येनाऽस्माकं मुख्योऽप्येवंविधमादरं दर्शयति; पश्चात् के वयं भविष्यामः । द्रोणाचार्योऽपि बृहत्तरः सदर्थो विशेषज्ञो गुणपक्षपाती सन् नूतनं वृत्तं कृत्वा सर्वेषु देवगृहनिवास्याचार्यमठेषु प्रेषितम्
आचार्याः प्रतिसद्म सन्ति महिमा येषामपि प्राकृतै
तुं नाऽध्यवसीयते सुचरितैस्तेषां पवित्रं जगत् । एकेनापि गुणेन किन्तु जगति प्रज्ञाधनाः साम्प्रतं, यो धत्तेऽभयदेवसूरिसमतां सोऽस्माकमावेद्यताम् ।।
[१०] तत उपशान्ताः सर्वे । द्रोणाचार्येणाऽभाणि श्रीमदभयदेवसूरीणामग्रे-'या वृत्तीः सिद्धान्ते करिष्यसि ताः सर्वा मया शोधनीया लेखनीयाश्च ।' तथा तत्र स्थितेन पारिग्रहिकद्वयं प्रतिबोधितम् , सम्यक्त्वद्वादशव्रतस्थितं कारितम् । तच्च समाधिना श्रावकत्वं प्रतिपाल्य देवलोकं गतम् । देवलोकात् तीर्थकरवन्दनार्थ महाविदेहे गतम् । सीमन्धरस्वामि-युगन्धरस्वामिनौ वन्दितौ, धर्म श्रुत्वा पृष्टौ-'मम गुरुः श्रीमदभयदेवसूरिः कतिथे भवे मुक्तिं गमिष्यति ?' भगवद्भयां भणितम्-'तृतीये भवे सेत्स्यती'ति श्रुत्वा तुष्टौ देवौ स्वगुरुपायें गतौ जिनवार्ता कथिता । वन्दित्वा गच्छद्भयामिमा गाथा पठिता
भणियं तित्थयरेहिं महाविदेहे भवंमि तइयंमि । तुम्हाण चेव गुरवो मुत्ति सिग्धं गमिस्संति ॥
[११] सा च स्वाध्यायं कुर्वत्या तिन्या श्रुताऽऽनायिता च गुरूणां निवेदिता । भणितम्-ज्ञाता चैवाऽस्माभिः ।
१२. पश्चात् पा.ब्द उदा ग्रा मे विहृताः । तत्र सम्बन्धिनो भक्ताः श्रमणोपासकाः सन्ति । तेषां यानपात्राणि वहन्ति। पयोधौ तानि च प्रेषितानि । तेषां चाऽऽगच्छतां क्रयाणकभृतानां वार्ता जाता-'बुडितानि' । ते च श्राद्धा वार्ता श्रुत्वाऽसुखिनो जज्ञिरे । ते च श्रीमदभयदेवसूरिस्मरणप्रस्तावे वसतौ गताः । वन्दिता भगवन्तः । तैश्च पृष्टाः-'किमिति वन्दनकविषयवेलातिक्रमो जातः । 'भगवन् ! कारणेन' । 'किं कारणम् ?' 'पोतबुडनोदन्ताकर्णनेनाऽसुखिताः स्मः तेन नाऽऽगताः । ततः क्षणमात्रं चित्ते ध्यानं धृत्वा भणितम्-अत्र विषयेऽसमाधानं न विधेयं भवद्भिः । पश्चाद् द्वितीयदिने मानुष आगतः। पोताः क्षेमेणोत्तरिताः । वार्तामाकर्ण्य श्राद्धैः सर्वसम्मतेन गुरखो भणिताः-'यावल्लाभः क्रयाणकेन
१ ततः पत्तने । २ 'स्थानाङ्ग' । ३ 'लात्वा' । ४ 'यद्यत्र' । ५ 'किं' । ६ 'चैत्यनिवा०' । ७ 'पाल्हउद ग्रामे' । ८ 'श्राद्धाः'। ९ जाताः' । १० 'स्मरणाकाले' । ११ 'उक्तम् । १२ 'चिन्ता न कार्या' । १३ 'उत्तीर्णा' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org