________________
६
खरतरगच्छालंकार
'मसट सटच' । प त्त ने गत्वा यस्याssचार्यस्य हस्तेन प्रक्षालितानि यास्यति स युगप्रधानः । सर्वासु वसतिषु गतः, दर्शितान्यक्षराणि, न केनापि बुद्धानि । श्रीजिनेश्वरसूरिवसतौ गतः । दर्शितान्यक्षराणि । चिन्तयित्वा प्रक्षालितानि, गाथात्रयं चालेखि । तेन चिन्तितम् - एष युगप्रधानः । विशेषेण गुरुत्वेनाऽङ्गीकृतः । इत्यादितीर्थकरमहावीरदर्शितधर्मप्रभावनां कृत्वा श्रीजिनेश्वरसूरिर्देवत्वं गतः ।
८. पश्चजिनचन्द्रसूरिः सूविर आसीत्, यस्याष्टादश नाममालाः सूत्रतोऽर्थतश्च मनस्यासन् । सर्वशास्त्रविदा येनाऽष्टादशसहस्रप्रमाणा ‘संवेग रंगशाला' मोक्षप्रासादपदवी भव्यजन्तूनां कृता । येन जा वा लिपु रे विहृतेन श्रावकाणामग्रे 'चीवंदणमावस्सय' इत्यादिगाथाया व्याख्यानं कुर्वता, ये सिद्धान्तसंवादाः कथितास्ते सर्वे सुशिष्येण लिखिताः । शतत्रयप्रमाणो 'दिनचर्याग्रन्थो' जातः श्राद्धानामुपकारी । सोऽपि श्रीवीरधर्म याथातथ्यं प्रकाश्य दिवं गतः ।
1
९. तदनन्तरं श्रीमदभयसूरिर्नवाङ्गवृत्तिकर्ता युगप्रधान आसीत् । स कथं नवाङ्गवृत्तिकर्ता, तत्राह - तस्य शम्भा ग्रामे शरीरकार बभूव । यथा यथौषधादिः प्रयुज्यते तथा रोगो वृद्धिं याति, न निवर्तते । लोकः पृथग्ग्रामेषु भक्तः, यदा यदा चतुर्दशीप्रतिक्रमणं भवति ततश्चतुर्योजनदूरक्षेत्रादागत्य प्रतिक्रामन्ति श्रावकास्तत्र । कदाचिदतीव रोगाक्रान्तं शरीरं ज्ञात्वा दुष्कृतनिमित्तं समाहूताः सर्वे श्राद्धाः । त्रयोदशीदिने पश्चाद्रात्रौ प्रहरद्वये शासनदेवता समाजगाम । तयाsभाणि - 'स्वपिषि जागर्षि वा ?' । ततो मन्दं मन्दं भणितम् - 'जागमिं' । तया भणितम् - 'शीघ्रमुत्तिष्ठ, सूत्रकुक्कुटिका नवोन्मोचय' । भणति - ' न शक्रोमि' । 'कथं न शक्नोषि ? अद्यापि बहुकालं जीविष्यसि, नवाङ्गवृत्तौ प्रतिविधास्यसि' | 'कथं विधास्याम्येवंविधे शरीरे ?' । तत उपदेशं ददति देवता - 'स्तम्भ न क पु रे से ढी नद्युपकण्ठे खंखरापलाशमध्ये पार्श्वनाथप्रतिमा स्वयम्भूर्विद्यते । तस्या अग्रे देवान् वन्दख येन स्वस्थशरीरो भवसि । पश्चाद्देवताऽदर्शनी भूता । प्रभाते मिथ्यादुष्कृतं दास्यन्ति गुरवः - इत्यभिप्रायेणाऽऽगन्तुकाः स्थानस्थिताश्च सर्वे मिलित्व समययुः । पूज्या वन्दिताः । वन्दितैः सद्भिर्भणितम्- 'स्तम्भ न क पु रे श्रीपार्श्वनाथदेवो वन्दनीयः । ततोऽज्ञायि श्राद्धैःश्री पूज्यानामुपदेशो जातः । ततो भणितं तैर्वयमप्यागमिष्यामः । ततो गुरूणां वाहनं कृतम् । बुभुक्षा सर्वथैव नष्टाssसीत् । प्रथमेऽपि प्रयाण के रसविषयेऽभिलाषोऽभूत् । क्रमेण ध व ल कं यावत् प्राप्तस्य शरीरं स्वस्थं जातम् । पश्चात् पादैः स्तम्भ न क पुरे विहृतः । श्रावकाः श्रीपार्श्वनाथप्रतिमामवलोकयितुं प्रवृत्ताः । कुत्राऽपि न दृष्टा । पश्चाद् गुरवः पृष्टाः, तैरभाणि - 'खंखरापलाशमध्येऽवलोकयत' । ततोऽवलोकिता दृष्टा देदीप्यमानी । प्रतिदिनं गौरेका स्नानाय दुग्धं क्षरति । ततस्तैस्तुष्टैरागत्यं भणितं गुरोः पुरः - 'भगवन् ! दृष्टा यथा भणिता' । ततो भगवान् वन्दनाय भक्त्या चलितः । दृष्टा तत्र, वन्दिता भक्त्या । तत ऊर्द्ध स्थितेन देवप्रभावात् तदैव 'जय तिहुयणे 'त्यादि नमस्कारद्वात्रिंशिका कृता । देवताभिर्भणितम् -'नमस्कारद्वयमुत्तारय; तस्मिन् ध्याते सर्वस्यापि प्रत्यक्षीभवनं भविष्यति । तदपि कष्टम् । त्रिंशताऽपि नमस्कारैर्ध्या तैः सर्व भद्रं विधास्यामः । तत उत्तारितम् । समुदायेन सह देववन्दनं कृतम् । समुदायेनें विस्तरेण स्नानाद्याभरणपूजा कृता । तत्र स्थापना विहिता । देवगृहं जातम् । सर्वलोकवाञ्छितेपूरणेन श्रीमदभयदेवसूरिस्थापितं श्रीपार्श्वनाथतीर्थं नाम प्रसिद्धिं गतम् ।
* एतत् स्थाने 'तीर्थं प्रभाव्य' इत्येव प्र० । १ ' ततः' । २ नास्ति पदमेतत् प्र० । ३ ' वीरशासनं ' । ४ ततोऽभयदेवसूरि' । ५ 'आसीत्' नास्तिं प्र० । ६ पतितं मूलादर्शे पदमेतत् । ७ ' तदा तदा' । ८ 'वपुः' । ९ 'समागता' । १० 'शक्ष्यसि' । ११ ‘ददते' । १२ 'अदृश्यी' । १३ ' लास्यन्ति' । १४ 'मिलिताः । १५ 'गताः । १६ 'श्राद्धाः । १७ 'तैः । १८ नास्ति पदमेतत् प्र० । १९ ' आगत्योक्तं भगवन्' । २० 'पूज्या वन्दनाय चलिताः । २१ 'करिष्यामः' । २२ 'संघेन' । २३ सर्वलोकेप्सित' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org