________________
युगप्रधानाचार्यगुर्वावली। गृहपूजका वृत्त्या बटुका धारिताः । सर्वे देवाः पूजनीयाः। परं देवगृहमन्तरेण [तैः] बहिःस्थातुं न शक्यते, ततः कोऽपि केनाऽपि व्याजेनागतः । किं बहुना, सर्वेऽप्यागता देवगृहेषु स्थिताः।।
५. श्रीवर्द्धमानसूरिरपि सपरिवारो राजसन्मानेन सर्वत्र देशे विहरति, कोऽपि किमपि कथयितुं न शक्नोति । ततः श्रीजिनेश्वरसूरिः शुभलग्ने स्वपट्टे निवेशितः। द्वितीयोऽपि तद्भाता बुद्धिसागर आचार्यः कृतः। तयोभगिनी कल्याणमतिनाम्नी महत्तरा कृता । पैंश्वाच्छ्रीजिनेश्वरसूरिणा विहारक्रम कुर्वता जिनचन्द्र-अभयदेव-धनेश्वर-हरिभद्र-प्रसन्नचन्द्र-धर्मदेव-सहदेव-सुमतिप्रभृतयोऽनेके शिष्याः कृताः । ततो वर्द्धमानसूरिः सिद्धान्तविधिना श्री अर्बु द शि ख र तीर्थे देवत्वं गतः ।।
६. पश्चाच्छ्रीजिनेश्वरसूरिभिः श्रीजिनचन्द्राभयदेवी गुणपात्रं ज्ञात्वा सूरिपदे निवेशितौ, क्रमेण युगप्रधानौ जातौ । *अन्यौ च द्वौ सूरी धनेश्वरो जिनभद्रनामा, द्वितीयश्च हरिभद्राचार्यः, तथोपाध्यायत्रयं कृतं धर्मदेव-सुमतिविमलनामानः । धर्मदेवोपाध्यायः सहदेवगणी च द्वावपि भ्रातरौ । धर्मदेवोपाध्यायेन हरिसिंह-सर्वदेवगणिभ्रातरौ सोमचन्द्रपण्डितश्च शिष्या विहिताः । सहदेवगणिनाऽशोकचन्द्रः शिष्यः कृतः। स चातीववल्लभ आसीत् । स च श्रीजिनचन्द्रमरिणा विशेषेण पाठयित्वाऽऽचार्यपदे निवेशितः । तेन च स्वपदे हरिसिंहाचार्यो विहितः । अन्यौ च द्वौ सूरी प्रसन्नचन्द्र-देवभद्राख्यौ । देवभद्रः सुमत्युपाध्यायशिष्यः। प्रसन्नचन्द्राचार्यप्रभृतयश्चत्वारोऽभयदेवसरिणा पाठितास्तर्कादिशास्त्राणि । यत उक्तम्
सत्तर्कन्यायचर्चार्चितचतुरगिरः श्रीप्रसन्नेन्दसरिः,
सूरिः श्रीवर्द्धमानो यतिपतिहरिभद्रो मुनिर्देवचन्द्रः। इत्याद्याः सर्वविद्यार्णवसकलभुवः सञ्चरिष्णूरुकीर्तिः
स्तम्भायन्तेऽधुनाऽपि श्रुतचरणरमाराजिनो यस्य शिष्याः ।। [६] ७. श्रीजिनेश्वरसूरय आ शा पल्ल्यां विहृताः । तत्र व्याख्याने विचक्षणा उपविशन्ति । तत्र लीलावतीकथा कृता अनेकार्थवर्णनसमेता । तथा डि ण्डि या णा ग्रा मे कथानककोशः कृतो व्याख्यानाय । प्रथम स्थानस्थितदेवगृहनिवास्याचार्याणां समीपे व्याख्यानाय पुस्तकयाचनं कृतम् । तैनं दत्तम् । पश्चात् , पश्चिमप्रहरद्वये विरच्यते, प्रभाते व्याख्यायते । इत्थं कथानककोशश्चतुर्मास्यां कृतः । तथा मरुदेविगणिन्याऽनशनं गृहीतं, चत्वारिंशदिनानि स्थिता । श्रीजिनेश्वरसूरिणा समाधानमुत्पादितं भणितं च-'यत्रोत्पत्स्यसे तत्स्थानं निवेदनीयम् । भणितं 'निवेदयिष्यामि । श्रावक एको युगप्रधाननिश्चयाभावे उ ज य न्ते गत्वा तस्य निश्चयार्थमुपवासान् कर्तुमारब्धः। तसिन् प्रस्तावे ब्रह्मशान्तिस्तीर्थङ्करवन्दनार्थ म हा वि दे हे" गतः । तस्याऽयं मरुदेविदेवेन सन्देशो भणितःमरुदेविनामअन्जा गणिणी जा आसि तुम्ह गच्छंमि । सग्गंमि गया पढमे, देवो जाओ महिड्डीओ।। टक्कलयंमि विमाणे दुसागराऊ सुरो समुप्पन्नो। समणेससिरिजिणेसरसूरिस्स इमं कहिजासु॥ टक्कउरे जिणवंदणनिमित्तमिहागएणं संदिढें । चरणमि उज्जमो भे, कायव्वो किं व सेसेसु॥ [९] तेनापि स्वयं गवा न कथितं गाथात्रयम् । स श्रावक उपवासं प्रवृत्त उत्थाप्य कथितम् , अञ्चलेऽक्षराणि लिखितानि
१ सूरयोऽपि सपरिवाराः' । २ 'विहरन्ति' । ३ 'न कथयति' । ४ 'ततो पश्चा०' । ५ विहारं' । ६ वर्द्धमानसूरिविधिनाऽर्बुदे देवत्वे गतः' । * एतच्चिदान्तर्गताः पंक्तयो नोपलभ्यन्ते प्रत्यन्तरे । ७ प्र० 'डिण्डियाणकग्रामे' । ८ 'कथ्यं' । ९ तयाप्यङ्गीकृतं'। १० नास्ति पदमेतत् प० । ११ 'तस्याग्रे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org