________________
खरतरगच्छालंकार
भूता अस्माकं गुरवः । ततः सर्वेऽधिकारिणः श्रीकरणप्रभृतयः पटवपर्यन्ता वदन्ति प्रत्येकमस्माकमेते गुरव - इति गुरुनिवेदनं राजप्रत्यक्षं कुर्वन्ति । येन राजाऽस्मान् बहु मन्यते, अस्माकं कारणेन गुरूनपि । राजा च न्यायवादी । तस्मिन् प्रस्तावे श्रीजिनेश्वरसूरिभिरुक्तम्- 'महाराज ! कचिद्गुरुः श्रीकरणाधिकारिणः, कश्चिन्मत्रिणः, किं बहुना कश्चिपटवानाम् । या नाठिः (१) सा कस्य सम्बन्धिनी भवति ?' राज्ञोक्तं मदीया । 'तर्हि महाराज ! कः कस्याऽपि सम्बन्धी जातो वयं न कस्यापि ' । ततो राज्ञाऽऽत्मसम्बन्धिनो गुरवः कृताः । ततो राजा भणति - 'सर्वेषां गुरूणां सप्त सप्त का रत्नपटनिर्मिताः, किमित्यस्मद्गुरूणां नीचैरासने उपवेशनं, किमस्माकं गब्दिका न सन्ति ?' । ततो जिने - श्वरसूरिणा भणितम् -'महाराज ! साधूनां गब्दिकोपवेशनं न युज्यते । यत उक्तम्
४
भवति नियतमेवासंयमः स्याद्विभूषा, नृपतिककुद ! एतल्लोकहासश्च भिक्षोः । स्फुटतर इह सङ्गः सातशीलत्वमुच्चैरिति न खलु मुमुक्षोः सङ्गतं गन्दिकादि ॥ [4] इतिवृत्तार्थः कथितः । राज्ञोक्तम्- 'कुत्र यूयं निवसत ?' तैरुक्तम्- 'महाराज ! कथं स्थानं विपक्षेषु सत्सु । अहो syaगृहं कर डि हट्टी मध्ये बृहत्तरमस्ति, तत्र वसितव्यम् ।' तत्क्षणादेव लब्धम् । 'युष्माकं भोजनं कथम् ?' तदपि पूर्ववद्दुर्लभम् । 'यूयं कति साधवः सन्ति ?' - 'महाराज ! अष्टादश' । 'एकहस्तिपिण्डेन सर्वे तृप्ता भविष्यन्ति' । ततो भणितं जिनेश्वरसूरिणा - 'महाराज ! राजपिण्डो न कल्पते, साधूनां निषेधः कृतो राजपिण्डस्य' । ' तर्हि मम मानुषेऽग्रे भू भिक्षाsपि सुलभा भविष्यति' । ततो वादं कृत्वा विपक्षान् निर्जित्य राज्ञा राजलोकैश्च सह वसतौ प्रविष्टाः । वसतिस्थापना कृता प्रथमं गूर्जरत्रा देशे ।
३. द्वितीयदिनेऽचिन्ति विपक्षैरुपायद्वयं निरर्थकं जातम्, अन्योऽपि निस्सारणोपायो मन्त्रयते । पट्टराज्ञीभक्तो राजा विद्यते सा च यद्भणति तत् करोति । सर्वेऽप्यधिकारिणः स्वगुरु- स्वगुरुवचनेनाम्रकदलीफलद्राक्षादिफलभृतभाजनान्याभरणयुक्तप्रधानवसनादीनि च ढौकनानि गृहीत्वा गता राज्ञीसमीपे । तस्या अग्रे वीतरागस्येव बलिविरचनं चक्रिरे । राज्ञी च तुष्टा प्रयोजनविधानेऽभिमुखीभूता । तस्मिन्नेव प्रस्तावे राज्ञः प्रयोजनमुपस्थितम् । राज्ञीसमीपे ततो दिल्ली देश सम्बन्धी पुरुष आदेशकारी राज्ञा तत्र प्रेषितः इदं प्रयोजनं राज्ञ्या निवेदय । देव ! निवेदयामीति भणित्वा शीघ्रं गतः । राजप्रयोजनं निवेदितं राज्ञ्याः । अनेकेऽधिकारिणो नानाढौकनिकाश्च विलोक्य तेन चिन्तितम् - 'ये मम देशादागता आचार्यास्तेषां निस्सारणोपायः संभाव्यते, परं मयाऽपि किञ्चित्तेषां पक्षपोषकं राज्ञः पुरो भणनीयम्' । गतस्तत्र । 'देव ! प्रयोजनं निवेदितं भवताम्, परं देव ! बृहत् कौतुकं तत्र गतेन दृष्टम्' । 'कीदृशं भद्र ?" । 'राज्ञी अर्हद्रूपा जाता, यथाऽर्हतामग्रे बलिविरचनं क्रियत एवं राज्ञ्या अध्यग्रे' । राज्ञा चिन्तितम् -'ये मया न्यायवादिनो गुरुत्वेनाऽङ्गीकृताः, अद्यापि तेषां पृष्ठिं न मुञ्चन्ति' । राज्ञा भणितः सोऽपि पुरुषः - शीघ्रं गच्छ राज्ञीपार्श्वे, गत्वा भणनीयम् - राजा भाणयति राज्ञीं 'यद्दत्तं भवत्या अग्रे तन्मध्यादेकमपि पूगीफलं यदि लास्यसि तदा न त्वं मम नाऽहं तव' इति श्रुखा भीता राज्ञी, भणितं च 'भो ! यद् येनाssनीतं तत्तेन स्वगृहे नेतव्यम् ; मम नास्ति प्रयोजनम्' । सोऽप्युपायो निरर्थको जज्ञे ।
४. चतुर्थ उपायचिन्तितः - यदि राजा देशान्तरीयमुनीन्द्रानं बहु मंस्यते तदा सर्वाणि देवसदनानि शून्यानि मुक्तत्वा देशान्तरेषु गमिष्यामो वयम् । केनापि ' राज्ञो निवेदितम् । राज्ञाऽभाणि 'यदि तेभ्यो न रोचते तदा गच्छेन्तु' । देव
* एतच्चिह्नान्तर्गतो वाक्यविन्यासो नास्ति प्र० । १ प्र० परं वयं न कस्यापि सम्बन्धिनः । २ ' आचार्याणां' । ३ ' तद्देयम्' । ४ जिनेश्वरेणोक्तं राजपिण्डो न कल्पते । ५ ' चिन्तित ः ' । ६ 'लात्वा' । तारकान्तर्गतः पाठो नास्ति प्र० । ७-७ 'बलिढौकनेनेति' इत्येव पदम् । ८ 'समीपे' । ९ 'पूगीफलं न ग्राह्यं यदि' । १० देशान्तरादागतान् मुनीन् मंस्यते । ११ नास्ति प्र० 'केनापि' । १२ 'राज्ञोक्तं गच्छन्तु' इत्येव प्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org